विषमोऽपि विगाह्यते नयः
कृततीर्थः पयसामिवाशयः ।
स तु तत्र विशेषदुर्लभः
सदुपन्यस्यति कृत्यवर्त्म यः ॥

सारांश AI जैसे घाट के माध्यम से गहरे जलाशय में उतरा जा सकता है, वैसे ही नीति भी सुगम हो जाती है। परंतु ऐसा व्यक्ति दुर्लभ है जो कार्य करने का सही मार्ग विस्तार से प्रस्तुत करे।
घण्टापथव्याख्या (मल्लिनाथः) विषमम् इति ॥ विषमोऽपि दुर्बोधोऽपि । अन्यत्र दुःप्रवेशोऽपि । नयो नीतिशास्त्रम् । पयसामाशयो ह्रद इत्र । कृततीर्थः कृताभ्यासाद्युपायः सन् । ‘तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषुइति विश्वः ॥ अन्यत्र कृतजलावतारः सन् ।तीर्थं योनौ जलावतारे च इति हलायुधः । विगाह्यते गृह्यते प्रविश्यते च । किंतु तत्र नये जलाशये च स तादृशः पुरुषो विशेषदुर्लभोऽत्यन्तदुर्लभो यः कृत्यं संधिविग्रहादि कार्यं स्नानादिकं च तस्य वर्त्म सत्साधु देशकालाद्यविरुद्धम् । यथा तथा । अन्यत्र गर्तग्राहपाषाणादिरहितम् । यथा तथोपन्यस्यत्युदाहरति । उपन्यासस्तु, वाङ्मुखम्। उपाद्धाते उदाहारः इत्यमरः । यथा केनचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टार: सन्ति। तीर्थकरस्तु विरलः । तद्वन्नीतावपि गूढमपि तत्त्वं वक्तरि सति बोद्धारः सन्ति। वक्ता तु न सुलभः । अत इयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थः ॥ अथ ग्राह्यत्वे हेतुमाह
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि मो ऽपि वि गा ह्य ते यः
कृ ती र्थः सा मि वा यः
तु त्र वि शे दु र्ल भः
दु न्य स्य ति कृ त्य र्त्म यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.