Loading data... On slow networks this could take a few minutes.
100%

यदवोचत वीक्ष्य मानिनी
परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं
वचनं तद्विदधीत विस्मयम् ॥

सारांश AI स्वाभिमानी द्रौपदी ने स्नेहपूर्ण दृष्टि से देखते हुए जो बातें कहीं, वे इतनी प्रभावशाली थीं कि वाणी के देवता बृहस्पति को भी विस्मित कर सकती थीं।
घण्टापथव्याख्या (मल्लिनाथः) यदिति ॥ मानिनी क्षत्रियकुलाभिमानवती द्रौपदी स्नेहमयेन स्नेहप्रचुरेण । तत्प्रकृतवचने मयट्' । चक्षुषा ज्ञानचक्षुषा । एतेनाप्तत्वमुक्तम् । परितो वीक्ष्य समन्ततो विविच्य यद्वचनमवोचत । ब्रुवोर्वक्तेर्वा लुङ् । 'वच उम्' इत्युमागमः । वागाधिपस्य बृहस्पतेरपि दुर्वचं वक्तुमशक्यम् । शेषे षष्ठीयम्, न कुद्योगलक्षणा । अतो 'न लोक-' इत्यादिना षष्ठीप्रतिषेधो नास्ति । तद्वचतं विस्मयं विदधीत । सर्वस्यापति शेषः । अथवा वागधिपस्यापि विस्मयं विदधीतेति संबन्धः । दुर्वचम् । केनापति शेषः । यतः स्रैणमपि शास्त्रमनुरुणद्धि हितं चानुबध्नाति । अतो विस्मयकरं ग्राह्यं चैतद्वचनमिति तात्पर्यार्थः ॥ विस्मयकरत्वे हेतुमाह
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वो वी क्ष्य मा नि नी
रि तः स्ने ये क्षु षा
पि वा धि स्य दु र्व चं
नं द्वि धी वि स्म यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.