निसर्गदुर्बोधमबोधविक्लवाः
क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमबोधि यन्मया
निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥

अन्वयः AI निसर्ग-दुर्बोधं भूपतीनां चरितं क्व, अबोध-विक्लवाः जन्तवः क्व। यत् मया विद्विषां निगूढ-तत्त्वं नय-वर्त्म अबोधि, अयं तव अनुभावः।
English Summary AI What a vast difference between the conduct of kings, which is by nature hard to understand, and creatures like me, who are confounded by ignorance! That I have been able to comprehend the enemy's policy, whose essence is deeply concealed, is due to your majesty's power.
सारांश AI 'राजाओं का रहस्यमय चरित्र कहाँ और मुझ जैसा अज्ञानी प्राणी कहाँ? यह आपका ही प्रभाव है कि मैं शत्रुओं की उस अत्यंत गुप्त नीति-मार्ग को समझ पाया हूँ।'
घण्टापथव्याख्या (मल्लिनाथः) निसर्गेति ॥ निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । ईषद्दु:—' इत्यादिना खल्प्रत्ययः । भूपतीनां चरितं क्व । अबोधविक्लवा अज्ञानोपहृता जन्तवः । मादृशाः पामरजना,इत्यर्थः। क्व । नोभयं संघटत इत्यर्थः । तथापि निगूढतत्त्वं संवृतयाथार्थ्यं विद्विषाँ नयवर्त्म षाङ्गुण्यप्रयोगः 'संधिविग्रहयानानि संस्थाप्यासनमेव च । द्वैधीभावश्च विज्ञेयाः षङ्गुणा नीतिवेदिनाम् ॥' इत्यादिरूपो यन्मयावेदि । ज्ञातमिति यावत् । विदेः कर्मणि लुङ्। अयम् । इदं वेदनमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गनिर्देशः । तवानुभावः सामर्थ्यम् । अनुगतो भावोऽनुभाव इति घञन्तेन प्रादिसमासः । न तूपसृष्टाद्धञ्प्रत्ययः । श्रिणीभुवोऽनुपसर्गे (अष्टाध्यायी ३.३.२४ ) इत्यनुपसर्गाद्भवतेर्धातोर्धञ्विविधानात् । अतएव काशिकायमू-'कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमासः' इति । दोषपरिहारौ सम्यग्ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रलपामीत्याशयः ॥ संप्रति यद्वक्तव्यं तदाह
पदच्छेदः AI
निसर्गदुर्बोधम्निसर्गदुर्बोध–निसर्गदुर्बोध (१.१) by nature difficult to understand
अबोधविक्लवाःअबोधविक्लव–अबोधविक्लव (१.३) confounded by ignorance
क्वक्व where
भूपतीनाम्भूपति (६.३) of kings
चरितम्चरित (१.१) the conduct
क्वक्व where
जन्तवःजन्तु (१.३) (lowly) creatures
तवयुष्मद् (६.१) your
अनुभावःअनुभाव (१.१) power
अयम्इदम् (१.१) this is
अबोधिअबोधि (√बुध् भावकर्मणोः लुङ् (आत्मने.) प्र.पु. एक.) was understood
यत्यत् that
मयाअस्मद् (३.१) by me
निगूढतत्त्वम्निगूढ (नि√गुह्+क्त)तत्त्व–निगूढतत्त्व (२.१) whose essence is concealed
नयवर्त्मनयवर्त्मन्नयवर्त्मन् (२.१) the path of policy
विद्विषाम्विद्विष् (६.३) of the enemies
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि र्ग दु र्बो बो वि क्ल वाः
क्व भू ती नां रि तं क्व न्त वः
वा नु भा वो ऽय बो धि न्म या
नि गू त्त्वं र्त्म वि द्वि षाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.