विशङ्कमानो भवतः पराभवं
नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते
नयेन जेतुं जगतीं सुयोधनः ॥

अन्वयः AI नृपासनस्थः अपि सः सुयोधनः वनाधिवासिनः भवतः पराभवं विशङ्कमानः (सन्), दुरोदर-छद्म-जितां जगतीं नयेन जेतुं समीहते।
English Summary AI Though seated on the throne, Suyodhana (Duryodhana), fearing defeat from you who dwell in the forest, strives to win over the world—which he had won through the deceit of gambling—by means of sound policy.
सारांश AI 'सिंहासन पर बैठा दुर्योधन वनवासी आपसे पराजय की आशंका करता है। जुए के कपट से जीती गई पृथ्वी को अब वह नीति और सदाचार के माध्यम से जीतना चाहता है।'
घण्टापथव्याख्या (मल्लिनाथः) विशङ्कमान इति ॥ सुखेन युध्यते सुयोधनः । भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः। नृपासनस्थः सिंहासनस्थोऽपि । वनमधिवसतीति वनाधिवासिनो वनस्थात्।राज्यभ्रष्टांदपीत्यर्थः। भवतस्त्वत्तः पराभवं पराजयं विशङ्कमान उत्प्रेक्षमाणः सन् । दुष्टमुदरमस्येति दुरोदरं द्यूतम् । पृषोदरादित्वात्साधु । दुरोदरो द्युतकारे पणे द्यूते दुरोदरम् इत्यमरः (अमरकोशः ३.३.१८० ) । तस्य च्छद्मना मिषेण जितां लब्धां दुर्नयार्जितां जगतीं महीम् । जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोःइति वैजयन्ती । नयेन नीत्याजेतुं वशीकर्तुं समीहते व्याप्रियते । न तूदास्त इत्यर्थः । बलवत्स्वामिकमविशुद्धागमं च धनं भुञ्जानस्य कुतो मनसः समाधिरिति भावः । अत्र दुरोदरच्छद्मजिताम् इति विशेषणद्वारेण पदार्थस्य चतुर्थपादार्थं प्रति हेतुत्वेनोपन्यासाद्वितीयकाव्यलिङ्गमलंकारः। तदुक्तम्-हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् इति । नयेनं जेतुं जगतीं समीहते इत्युक्तम् । तत्प्रकारमाह
पदच्छेदः AI
विशङ्कमानःविशङ्कमान (वि√शङ्क्+शानच्, १.१) fearing
भवतःभवत् (६.१) from you
पराभवम्पराभव (२.१) defeat
नृपासनस्थःनृपासनस्थ (१.१) seated on the throne
अपिअपि though
वनाधिवासिनःवनाधिवासिन् (६.१) who dwells in the forest
दुरोदरच्छद्मजिताम्दुरोदरछद्मन्–जिता (√जि+क्त)–दुरोदरच्छद्मजिता (२.१) won through the deceit of gambling
समीहतेसमीहते (सम्√ईह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) strives
नयेननय (३.१) by policy
जेतुम्जेतुम् (√जि+तुमुन्) to win
जगतीम्जगती (२.१) the world
सुयोधनःसुयोधन (१.१) Suyodhana
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि ङ्क मा नो तः रा वं
नृ पा स्थो ऽपि ना धि वा सि नः
दु रो च्छ द्म जि तां मी ते
ये जे तुं तीं सु यो नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.