स किंसखा साधु न शास्ति योऽधिपं
हितान्न यः संशृणुते स किंप्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं
नृपेष्वमात्येषु च सर्वसम्पदः ॥

अन्वयः AI यः अधिपं साधु न शास्ति सः किंसखा। यः हितात् न संशृणुते सः किंप्रभुः। हि सर्वसम्पदः सदा अनुकूलेषु नृपेषु अमात्येषु च रतिं कुर्वते।
English Summary AI He is a bad friend who does not advise his master well, and he is a bad master who does not listen to beneficial advice. Indeed, all fortunes flourish where kings and ministers are always in mutual accord.
सारांश AI 'वह बुरा मित्र है जो राजा को उचित सलाह नहीं देता, और वह बुरा स्वामी है जो हितकारी बात नहीं सुनता। जहाँ राजा और मंत्री परस्पर अनुकूल होते हैं, वहाँ समस्त संपत्तियाँ निवास करती हैं।'
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ यः सखामात्यादिरधिपं स्वामिनं साधु हितं न शास्ति नोपदिशति । ब्रुविशासि- इत्यादिना शासेर्दुहादिपाठाद्विकर्मकत्वम् । स हितानुपदेष्टा । कुत्सितः सखा किंसखा । दुर्मन्त्रीत्यर्थः ।किमः क्षेपे (अष्टाध्यायी ५.४.७० ) इति समासान्तप्रतिषेधः । तथा यः प्रभुर्निग्रहानुग्रहसमर्थः स्वामी हितादाप्तजनाद्धितोपदेष्टुः सकाशात् । आख्यातोपयोगे (अष्टाध्यायी १.४.२९ ) इत्यपदानत्वात्पञ्चमी । न संशृणुते न ऋणोति । हितमिति शेषः । समो गम्यृच्छि- (अष्टाध्यायी १.३.२९ ) इत्यादिना संपूर्वाच्छृणोतेरकर्मकादात्मनेपदम् । अकर्मकत्वं वैवक्षिकम् । स हितमश्रोता प्रभुः किंप्रभुः कुत्सितस्वामी । पूर्ववत्समासः । सर्वथा सचिवेन वक्तव्यं श्रोतव्यं स्वामिना । एवं च राजमन्त्रिणोरैकमत्यं स्यादित्यर्थः । ऐकमत्यस्य फलमाह—सदेति ।हि यस्मान्नृपेषु स्वामिषु । अमा सह भवा, अमात्यास्तेषु च । अव्ययात्त्यप् (अष्टाध्यायी ४.२.१०४ ) । अनुकूलेषु परस्परानुरक्तेषु सत्सु सर्वसंपदः सदा रतिमनुरागं कुर्वते कुर्वन्ति । न जातु जहतीत्यर्थः । अतो मया वक्तव्यं त्वया च श्रोतव्यमिति भावः । अत्रैवं राजमन्त्रिणोर्हितानुपदेशतदश्रवणनिन्दासामर्थ्यसिद्धेरैकमत्यलक्षणकारणस्य निर्दिष्टस्य सर्वसंपत्सिद्धिरूपकार्येण समर्थनात्कार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासोऽलंकारः । तदुक्तम्—सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः इति ॥ संप्रति स्वाहंकार परिहरति
पदच्छेदः AI
सःतद् (१.१) he
किंसखाकिंसखि (१.१) is a bad friend
साधुसाधु well
not
शास्तिशास्ति (√शास् कर्तरि लट् (परस्मै.) प्र.पु. एक.) advises
यःयद् (१.१) who
अधिपम्अधिप (२.१) the king
हितात्हित (५.१) from beneficial (advice)
not
यःयद् (१.१) who
संशृणुतेसंशृणुते (सम्√श्रु कर्तरि लट् (आत्मने.) प्र.पु. एक.) listens
सःतद् (१.१) he
किंप्रभुःकिंप्रभु (१.१) is a bad master
सदासदा always
अनुकूलेषुअनुकूल (७.३) in those who are mutually favorable
हिहि indeed
कुर्वतेकुर्वते (√कृ कर्तरि लट् (आत्मने.) प्र.पु. बहु.) take
रतिम्रति (२.१) delight
नृपेषुनृप (७.३) in kings
अमात्येषुअमात्य (७.३) and in ministers
and
सर्वसम्पदःसर्वसम्पद् (१.३) all fortunes
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
किं खा सा धु शा स्ति यो ऽधि पं
हि ता न्न यः सं शृ णु ते किं प्र भुः
दा नु कू ले षु हि कु र्व ते तिं
नृ पे ष्व मा त्ये षु र्व म्प दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.