श्रीपराशर उवाच ।
५.५.१
विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥
Summary
AI
Having been released from imprisonment, Vasudeva approached Nanda’s wagon and beheld Nanda filled with immense joy at the thought that a son had been born to him.
५.५.२
वसुदेवोपि तं प्राह दिष्ट्यादिष्ट्येति सादरम् ।
वार्धके ऽपि समुत्पन्नस्तनयो ऽयं तवाधुना ॥
वार्धके ऽपि समुत्पन्नस्तनयो ऽयं तवाधुना ॥
Summary
AI
Vasudeva respectfully addressed Nanda, saying, "Congratulations, congratulations! This son has now been born to you even in your old age."
५.५.३
दत्तो हि वार्षिकःसर्वो भवद्भिर्नृपतेः करः ।
यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः ॥
यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः ॥
Summary
AI
Since you have already paid the full annual tribute to the king for which you came, you wealthy men should no longer remain in this place.
५.५.४
यदर्थमागताः कार्यं तन्निष्पन्नं किमस्यते ।
भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥
भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥
Summary
AI
O Nanda, the purpose for which you came has been fulfilled; why do you delay? You all should return quickly to your own settlement in Gokula.
५.५.५
ममापि बालकस्तत्र रोहिणी प्रभवो हि यः ।
स रक्षणीयो भवता यथायं तनयो निजः ॥
स रक्षणीयो भवता यथायं तनयो निजः ॥
Summary
AI
My child also, who was born of Rohiṇī and resides there, should be protected by you just like this own son of yours.
५.५.६
इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर्भाडैः करं दत्त्वा महाबलाः ॥
शकटारोपितैर्भाडैः करं दत्त्वा महाबलाः ॥
Summary
AI
Thus addressed, the mighty cowherds, led by Nandagopa, departed with their goods loaded on their wagons after having paid the royal tax.
५.५.७
वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ ॥
सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ ॥
Summary
AI
While they were dwelling in Gokula, the child-killing demoness Pūtanā took the sleeping Kṛṣṇa at night and offered him her breast to suckle.
५.५.८
यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति ।
तस्यतस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥
तस्यतस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥
Summary
AI
Whichever child Pūtanā gave her breast to at night, that child's body would be destroyed in an instant.
५.५.९
कृष्णस्तु तत्स्तनं गाढं कराभ्यामतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौक्रोधसमन्वितः ॥
गृहीत्वा प्राणसहितं पपौक्रोधसमन्वितः ॥
Summary
AI
Filled with wrath, Kṛṣṇa grasped that breast firmly with both hands, squeezing it hard, and drank her life-force along with the milk.
५.५.१०
सातिमुक्तमहारावा विच्छिन्नस्त्रायुबन्धना ।
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥
Summary
AI
Letting out a terrible shriek and having the bonds of her sinews severed, the terrifying Pūtanā fell dying to the earth.
५.५.११
तन्नादश्रुतिसंत्रस्ताः प्रवुद्धास्ते व्रजौकसः ।
ददृशुः पूतनोत्संगे कृष्णं तां च निपातिताम् ॥
ददृशुः पूतनोत्संगे कृष्णं तां च निपातिताम् ॥
Summary
AI
Terrified by the sound of that scream, the waking inhabitants of Vraja saw Kṛṣṇa in the lap of Pūtanā and the demoness lying prostrate.
५.५.१२
आदाय कृष्णं संत्रस्ता यशोदापि द्विजोत्तम ।
गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत् ॥
गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत् ॥
Summary
AI
O best of the twice-born, the terrified Yaśodā took Kṛṣṇa and then averted the evil affecting the child by waving a cow's tail over him.
५.५.१३
गोकरीषमुपादाय नन्दगोपोपि मस्तके ।
कृष्णस्य प्रददो रक्षां कुर्वश्चैतदुदीरयन् ॥
कृष्णस्य प्रददो रक्षां कुर्वश्चैतदुदीरयन् ॥
Summary
AI
Nandagopa also, taking dried cow-dung, placed it on Kṛṣṇa's head to provide protection while uttering these protective words.
नन्दगोप उवाच ।
५.५.१४
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥
Summary
AI
May Hari, the source of all beings, protect you—he from the lotus born of whose navel the entire universe arose.
५.५.१५
येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् ।
वराहरूपधृग्देवःस त्वां रक्षतु केशवः ॥
वराहरूपधृग्देवःस त्वां रक्षतु केशवः ॥
Summary
AI
May the divine Keśava, who assumed the form of a boar and upon whose tusk-tip the earth rests to sustain the world, protect you.
५.५.१६
नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः ।
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥
Summary
AI
May the omnipresent Janārdana, in the form of Nṛsiṃha, whose sharp claws tore open the chest of his enemy, protect you everywhere.
५.५.१७
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥
त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥
Summary
AI
May Vāmana always protect you—he who in an instant became Trivikrama, striding across the three worlds with flashing weapons.
५.५.१८
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ।
गुह्यं च जठरं विष्णुर्जघे पादौ जनार्दनः ॥
गुह्यं च जठरं विष्णुर्जघे पादौ जनार्दनः ॥
Summary
AI
May Govinda guard your head; may Keśava protect your throat; may Viṣṇu guard your private parts and belly; and may Janārdana protect your thighs and feet.
५.५.१९
मुखं बाहू प्रबाहू च मनः सर्वेद्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणो ऽव्ययः ॥
रक्षत्वव्याहतैश्वर्यस्तव नारायणो ऽव्ययः ॥
Summary
AI
May the imperishable Nārāyaṇa, whose sovereignty is unimpeded, protect your face, arms, forearms, mind, and all your senses.
५.५.२०
शार्ङ्गचक्रगदापाणेः शङ्खनादहताः क्षयम् ।
गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥
गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥
Summary
AI
May the spirits, Kūṣmāṇḍas, and Rākṣasas who wish you ill be destroyed, slain by the sound of the conch of the one who holds the bow, discus, and mace.
५.५.२१
त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेश्ॐऽबरे भूमौ रक्षतु त्वां महीधरः ॥
हृषीकेश्ॐऽबरे भूमौ रक्षतु त्वां महीधरः ॥
Summary
AI
May Vaikuṇṭha protect you in the cardinal directions and Madhusūdana in the intermediate directions; may Hṛṣīkeśa guard you in the sky and Mahīdhara protect you on the earth.
श्रीपराशर उवाच ।
५.५.२२
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्किकातले ॥
शायितः शकटस्याधो बालपर्यङ्किकातले ॥
Summary
AI
Having thus had the protective rites performed by the cowherd Nanda, the infant boy was laid to rest beneath a cart, upon the surface of a small cradle.
५.५.२३
ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥
Summary
AI
Upon witnessing the enormous body of the deceased Pūtanā, those cowherds were then overcome with extreme terror and amazement.
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चमो ऽध्यायः ।
॥ इति पञ्चमांशे पञ्चमोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.