श्रीपराशर उवाच ।
५.२८.१
चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥
Summary
AI
The powerful Lord Kṛṣṇa begot sons named Cārudeṣṇa, Sudeṣṇa, Cārudeha, Suṣeṇa, Cārugupta, and the excellent Bhadracāru.
५.२८.२
चारुविन्दं सुचारुं च चारुं चबलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥
Summary
AI
Rukmiṇī gave birth to sons named Cāruvinda, Sucāru, and Cāru, who was the best among the strong, as well as a daughter named Cārumatī.
५.२८.३
अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिदी मित्रविन्दा च सत्या चाग्नजिती तथा ॥
कालिदी मित्रविन्दा च सत्या चाग्नजिती तथा ॥
Summary
AI
Kṛṣṇa had seven other beautiful wives: Kālindī, Mitravindā, Satyā, and Agnajitī.
५.२८.४
देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डना ॥
मद्रराजसुता चान्या सुशीला शीलमण्डना ॥
Summary
AI
His other principal wives included the divine Jāmbavatī, the shapeshifting Rohiṇī, and the virtuous daughter of the King of Madra, Suśīlā.
५.२८.५
सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशासन्सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥
षोडशासन्सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥
Summary
AI
Other wives were Satyabhāmā (daughter of Satrājit) and the sweetly smiling Lakṣmaṇā. Additionally, the wielder of the discus (Kṛṣṇa) had sixteen thousand other wives.
५.२८.६
प्रद्युम्नऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंबरे तां जग्राह सा च तं तनयं हरेः ॥
स्वयंबरे तां जग्राह सा च तं तनयं हरेः ॥
Summary
AI
The heroic Pradyumna won the auspicious daughter of Rukmin in her svayaṃvara, and she chose the son of Hari (Kṛṣṇa) as her husband.
५.२८.७
तस्यामस्याभक्तपुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणे रुद्धवीर्योदधिररिन्दमः ॥
अनिरुद्धो रणे रुद्धवीर्योदधिररिन्दमः ॥
Summary
AI
To her was born his son Aniruddha, a tamer of foes with great strength and valor, whose ocean-like might was irresistible in battle.
५.२८.८
तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥
दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥
Summary
AI
Keśava (Kṛṣṇa) chose the granddaughter of Rukmin as a wife for Aniruddha. Despite his rivalry with the wielder of the discus, Rukmin gave her to his grandson.
५.२८.९
तस्या विवाहे रामाद्या यादवा हरिणा सह ।
कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस्तथा ।
रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥
कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस्तथा ।
रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥
Summary
AI
O twice-born, for the wedding, all the Yādavas led by Balarāma, along with Hari and various other kings, went to Rukmin's city named Bhojakaṭa.
५.२८.१०
विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥
Summary
AI
After the marriage of the great-souled Pradyumna was completed, the King of Kaliṅga and others spoke to Rukmin.
५.२८.११
अनक्षज्ञो हली द्युते तथास्य व्यसनं महत् ।
तज्जयामो बलं कस्माद्द्युतेनैनं महाबलम् ॥
तज्जयामो बलं कस्माद्द्युतेनैनं महाबलम् ॥
Summary
AI
They suggested that Balarāma is unskilled at dice but has a great passion for it. Therefore, they proposed to defeat the mighty Balarāma through a game of dice.
श्रीपराशर उवाच ।
५.२८.१२
तथेति तानाह नृपान्रुक्मी बलमदान्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥
Summary
AI
Overwhelmed with pride in his strength, Rukmin agreed to the kings' suggestion and then engaged in a game of dice with Balarāma in the assembly.
५.२८.१३
सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीये ऽपिपणे चान्यत्सहस्रं रुक्मिणा जितः ॥
द्वितीये ऽपिपणे चान्यत्सहस्रं रुक्मिणा जितः ॥
Summary
AI
Rukmin defeated Balarāma for a thousand gold niṣkas. In the second wager as well, Rukmin won another thousand.
५.२८.१४
ततो दशसहस्राणि निष्काणां पणमाददे ।
बलभद्रो ऽजयत्तानि रुक्मी द्युतविदां वरः ॥
बलभद्रो ऽजयत्तानि रुक्मी द्युतविदां वरः ॥
Summary
AI
Then Balarāma made a wager of ten thousand gold niṣkas and won them, even though Rukmin was considered the best among those skilled in dice.
५.२८.१५
ततो जहास स्वनवत्कलिङ्गाधिपतिर्धिज ।
दन्तान्विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥
दन्तान्विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥
Summary
AI
O twice-born, the foolish King of Kaliṅga then laughed loudly, showing his teeth, and the pride-intoxicated Rukmin also spoke.
५.२८.१६
अविद्यो ऽयं मया द्यूते बलभद्रः पराजितः ।
भुधैवाक्षावलेपान्धो यो ऽवमेने ऽक्षकोविदान् ॥
भुधैवाक्षावलेपान्धो यो ऽवमेने ऽक्षकोविदान् ॥
Summary
AI
Rukmin said: "I have defeated this ignorant Balarāma at dice; he is blinded by his passion for the game and vainly disrespected those who are truly experts."
५.२८.१७
दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् ।
रिक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥
रिक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥
Summary
AI
Seeing the King of Kaliṅga with his teeth exposed in laughter and hearing the wicked words of Rukmin, Balarāma (Halāyudha) became enraged.
५.२८.१८
ततः कोपपरीतात्मा निष्ककोटिं समाददे ।
ग्लहं जग्राह रुक्मी च तदर्थेक्षानपातयत् ॥
ग्लहं जग्राह रुक्मी च तदर्थेक्षानपातयत् ॥
Summary
AI
Filled with rage, Balarāma wagered a crore of niṣkas. Rukmin accepted the bet and threw the dice for that stake.
५.२८.१९
अजयद्बलदेवस्तं प्राहोच्चैर्विजितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥
Summary
AI
Baladeva won the wager and loudly proclaimed his victory, but Rukmin also shouted that he had won, telling Balarāma to stop making false claims.
५.२८.२०
त्वयोक्तो ऽयं ग्लहःसत्यं न मयैषोनुमोदितः ।
एवं त्वया चेद्विजितं विजितं न मया कथम् ॥
एवं त्वया चेद्विजितं विजितं न मया कथम् ॥
Summary
AI
Rukmin argued: "It is true that you proposed this wager, but I did not agree to it. If you claim victory this way, why have I not won as well?"
श्रीपराशर उवाच ।
५.२८.२१
अथान्तरिक्षे वागुच्चेः प्राह गंभीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥
Summary
AI
Then, a deep-sounding voice in the sky spoke loudly, increasing the anger of the high-souled Baladeva.
५.२८.२२
जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित्कृत भवति कर्मणा ॥
अनुक्त्वापि वचः किञ्चित्कृत भवति कर्मणा ॥
Summary
AI
Baladeva won according to dharma, while Rukmī spoke falsely. Even without uttering a word, the truth is effectively established through the deed itself.
५.२८.२३
ततो बलः समुत्थाय कोपसंरक्कलोचनः ।
जघानाष्टपदेनैव रिक्मिणं स महाबलः ॥
जघानाष्टपदेनैव रिक्मिणं स महाबलः ॥
Summary
AI
Then, the mighty Bala, his eyes reddened with rage, rose up and struck Rukmī with the golden chessboard itself.
५.२८.२४
कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः ।
बभञ्ज दन्तान्कुपितो यैः प्रकाशैर्जहास सः ॥
बभञ्ज दन्तान्कुपितो यैः प्रकाशैर्जहास सः ॥
Summary
AI
The enraged Bala forcibly seized the trembling King of Kaliṅga and smashed the teeth he had displayed while laughing mockingly.
५.२८.२५
आकृष्य च महास्तंभं जातरूपमयं बलः ।
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥
Summary
AI
Pulling out a massive golden pillar, the extremely furious Bala struck down those kings who were on Rukmī’s side.
५.२८.२६
ततो हाहाकृतं सर्वं पलायन परं द्विज ।
तद्राजमण्डलं भीतं बभूव कुपिते बले ॥
तद्राजमण्डलं भीतं बभूव कुपिते बले ॥
Summary
AI
O twice-born, when Bala became enraged, the entire assembly of kings became terrified, cried out in distress, and fled.
५.२८.२७
बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणी बलयोर्भयात् ॥
नोवाच किञ्चिन्मैत्रेय रुक्मिणी बलयोर्भयात् ॥
Summary
AI
O Maitreya, seeing Rukmī slain by Bala, Madhusūdana said nothing, out of fear of offending either Rukmiṇī or Bala.
५.२८.२८
ततोनिरुद्धमादाय कृतदारं द्विजोत्तम ।
द्वारकामाजगामाथ यदुचक्रं च केशवः ॥
द्वारकामाजगामाथ यदुचक्रं च केशवः ॥
Summary
AI
O best of the twice-born, Keśava then took the newly married Aniruddha and the host of Yadus and returned to Dvārakā.
इति श्रीविष्णुमहापुराणे पञ्चमांशे ऽष्टाविंशोध्यायः ।
॥ इति पञ्चमांशे अष्टाविंशोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.