मैत्रेय उवाच ।
३.२.१
प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै ।
भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥
भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥
Summary
AI
O Sage, you have narrated these seven Manvantaras to me. Please also describe the future ones.
श्रीपराशर उवाच ।
३.२.२
सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः ।
मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥
मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥
Summary
AI
Saṃjñā, the daughter of Viśvakarman, was the wife of Sūrya. Their children, O Sage, were Manu, Yama, and Yamī.
३.२.३
असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै ।
भर्तृशुश्रूषणे ऽरण्यंस्वयं च तपसे ययौ ॥
भर्तृशुश्रूषणे ऽरण्यंस्वयं च तपसे ययौ ॥
Summary
AI
Unable to endure her husband’s radiance, she substituted her shadow-form, Chāyā, to serve him and departed to the forest to perform penance.
३.२.४
संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् ।
शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥
शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥
Summary
AI
Thinking her to be Saṃjñā, the Sun-god begot three children through Chāyā: Śanaiścara, another Manu, and Tapatī.
३.२.५
छायासंज्ञा ददौ शापं यमाय कुपिता यदा ।
तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥
तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥
Summary
AI
When the angry Chāyā-Saṃjñā cursed Yama, both Yama and Sūrya realized that she was a different person.
३.२.६
ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् ।
समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥
समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥
Summary
AI
Then Vivasvān, informed by her, perceived through meditative vision that she was in the forest in the form of a mare, engaged in penance.
३.२.७
वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ ।
जनयामास रेवन्तं रेतस्ॐते च भास्करः ॥
जनयामास रेवन्तं रेतस्ॐते च भास्करः ॥
Summary
AI
Assuming the form of a horse, the Sun-god begot the two Aśvins through her, and at the end of the emission, Revanta.
३.२.८
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान्रविः ।
तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥
तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥
Summary
AI
Lord Ravi brought Saṃjñā back to his abode, and Viśvakarman reduced the Sun's intense effulgence.
३.२.९
भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् ।
कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥
कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥
Summary
AI
Placing the Sun on a lathe, he ground away an eighth part of his inexhaustible brilliance to diminish its intensity.
३.२.१०
यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा ।
जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥
जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥
Summary
AI
O best of sages, that Vaiṣṇava brilliance ground off by Viśvakarman fell blazing onto the earth.
३.२.११
त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् ।
त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥
त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥
Summary
AI
From that radiance, Viśvakarman fashioned the discus of Viṣṇu, the trident of Śarva, and the palanquin of Dhanada.
३.२.१२
शक्तिं गुहस्य देवानामन्येषां च यदायुधम् ।
तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥
तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥
Summary
AI
Viśvakarman also crafted the spear of Guha and the weapons of various other deities from that same brilliance.
३.२.१३
छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः ।
पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥
पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥
Summary
AI
The second Manu born to Chāyā-Saṃjñā was of a different complexion than his elder brother, and is thus called Sāvarṇi.
३.२.१४
तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् ।
तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥
तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥
Summary
AI
O fortunate one, I shall now describe the future eighth Manvantara belonging to Sāvarṇi; please listen.
३.२.१५
सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः ।
सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥
सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥
Summary
AI
O Maitreya, in the future period of Manu Sāvarṇi, the Sutapas and Amitābhas will be the primary deities.
३.२.१६
तेषां गणाश्च देवानामेकैको विंशकः स्मृतः ।
सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥
सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥
Summary
AI
Each group of those deities is said to consist of twenty members. I shall also name the future Saptarṣis, O best of sages.
३.२.१७
दीप्तिमान्गालवो रामः कृपो द्रोणिस्तथा परः ।
मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥
मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥
Summary
AI
The seven sages will be Dīptimān, Gālava, Rāma, Kṛpa, Droṇi, my son Vyāsa, and Ṛṣyaśṛṅga as the seventh.
३.२.१८
विष्णु प्रसादादनघः पातालान्तरगोचरः ।
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥
Summary
AI
Among them, the sinless Bali, son of Virocana and resident of the netherworld, will become Indra through the grace of Viṣṇu.
३.२.१९
विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे ।
सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥
सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥
Summary
AI
Virajas, Urvarīvān, Nirmoka, and others will be the sons of Manu Sāvarṇi and will rule as kings over men.
३.२.२०
नवमो दक्षसावर्णि- ।
र्भविष्यति मुने मनुः ॥
र्भविष्यति मुने मनुः ॥
Summary
AI
O Sage, the ninth Manu will be Dakṣa-sāvarṇi.
३.२.२१
पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा ।
भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥
भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥
Summary
AI
The divine groups will consist of the Pāras, Marīcigarbhas, and Sudharmans. These gods will be categorized into three classes, with each class comprising twelve deities.
३.२.२२
तेषामिद्रो महावीर्यो ।
भविष्यत्यद्भुतो द्विज ॥
भविष्यत्यद्भुतो द्विज ॥
Summary
AI
O twice-born one, their Indra will be the exceptionally powerful and wonderful Adbhuta.
३.२.२३
सवनो द्युतिमान्भव्यो वसुर्मेधातिथिस्तथा ।
ज्योतिष्मान्सप्तमः सत्यस्तत्रैते च महर्षयः ॥
ज्योतिष्मान्सप्तमः सत्यस्तत्रैते च महर्षयः ॥
Summary
AI
The seven great sages of that period will be Savana, Dyutimat, Bhavya, Vasu, Medhātithi, Jyotiṣmat, and the seventh, Satya.
३.२.२४
धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ ।
पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥
पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥
Summary
AI
The sons of Dakṣasāvarṇi, who will rule as kings, include Dhṛtaketu, Dīptiketu, Pañcahasta, Nirāmaya, Pṛthuśrava, and others.
३.२.२५
दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः ।
सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥
सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥
Summary
AI
O Sage, the tenth Manu will be Brahmasāvarṇi. During his reign, the gods will be the Sudhāmans and Viśuddhas, each group numbering one hundred.
३.२.२६
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ।
सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥
सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥
Summary
AI
Their Indra will be the mighty Śānti. Now listen to the names of the seven sages who will exist during that period.
३.२.२७
हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः ।
नाभागो ऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥
नाभागो ऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥
Summary
AI
The seven sages will be Haviṣmat, Sukṛta, Satya, Tapomūrti, Nābhāga, the immensely powerful Apratimaūjas, and Satyaketu.
३.२.२८
सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश ।
ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥
ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥
Summary
AI
The ten sons of Brahmasāvarṇi, including Sukṣetra, Uttamaujas, and Bhūriṣeṇa, will be the protectors of the earth.
३.२.२९
एकादशश्च भविता ।
धर्मसावर्णिको मनुः ॥
धर्मसावर्णिको मनुः ॥
Summary
AI
The eleventh Manu will be Dharmasāvarṇi.
३.२.३०
विहङ्गमाः कामागमा निर्वाणा ऋषयस्तथा ।
गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।
ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥
गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।
ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥
Summary
AI
The primary classes of future gods will be the Vihaṅgamas, Kāmagamas, Nirvāṇas, and Ṛṣis. Each group will consist of thirty deities, and their Indra will be Pṛṣā.
३.२.३१
निः स्वरश्चाग्नितेजाश्च वपुष्मान्घणिरारुणिः ।
हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥
हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥
Summary
AI
The seven sages to come are Niḥsvara, Agnitejas, Vapuṣmat, Ghaṇi, Āruṇi, Haviṣmat, and Anagha.
३.२.३२
सर्वत्रगस्शुधर्मा च देवानीकादयस्तथा ।
भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥
भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥
Summary
AI
Sarvatraga, Sudharman, Devānīka, and others will be the sons of that Manu and will rule as lords of the earth.
३.२.३३
रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः ।
ऋकुधामा च तत्रेद्रो भविता शृणु मे सुरान् ॥
ऋकुधामा च तत्रेद्रो भविता शृणु मे सुरान् ॥
Summary
AI
The son of Rudra, known as Sāvarṇi, will be the twelfth Manu. In his period, Ṛkudhāman will be the Indra. Now listen to the description of the gods.
३.२.३४
हरिता रोहिता देवास्तथा मुमनसो द्विज ।
सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥
सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥
Summary
AI
O twice-born one, the gods will consist of five groups of ten: the Haritas, Rohitas, Sumanas, Sukarmans, and Surāpas.
३.२.३५
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥
तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥
Summary
AI
The seven sages of his time will be Tapasvī, Sutapas, Tapomūrti, Taporati, Tapodhṛti, Dyuti, and Tapodhana. Now also learn about his sons from me.
३.२.३६
देववानुपदेवश्च देवश्रेष्ठादयस्तथा ।
मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥
मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥
Summary
AI
Devavat, Upadeva, Devaśreṣṭha, and others will be the immensely powerful sons of that Manu, ruling as great kings.
३.२.३७
त्रयोदशो रुचिर्नामा ।
भविष्यति मुने मनः ॥
भविष्यति मुने मनः ॥
Summary
AI
O Sage, the thirteenth Manu will be named Ruci.
३.२.३८
सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः ।
त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥
त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥
Summary
AI
During his reign, the divine groups will be the Sutrāmans, Sukarmans, and Sudharmans, with thirty-three subdivisions of deities.
३.२.३९
दिवस्पतिर्महावीर्य- ।
स्तेषामिन्द्रोभिविष्यति ॥
स्तेषामिन्द्रोभिविष्यति ॥
Summary
AI
Their Indra will be the highly powerful Divaspati.
३.२.४०
निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः ।
धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः ।
सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥
धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः ।
सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥
Summary
AI
The seven sages of that era will be Nirmoha, Tattvadarśin, Niṣprakampya, Nirutsuka, Dhṛtimat, Avyaya, and the seventh, the sage Sutapas. Now learn of his sons from me.
३.२.४१
चित्रसेनविचित्राद्या ।
भविष्यन्ति महीक्षिकः ॥
भविष्यन्ति महीक्षिकः ॥
Summary
AI
Kings such as Citrasena and Vicitra will rule as the masters of the earth.
३.२.४२
भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः ।
शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥
शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥
Summary
AI
Maitreya, the fourteenth Manu will be Bhauma. During his reign, Śuci will hold the position of Indra. Hear now about the five groups of celestial deities.
३.२.४३
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा ।
वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥
वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥
Summary
AI
The groups of gods are the Cākṣuṣas, Pavitras, Kaniṣṭhas, Bhrājikas, and Vācavṛddhas. Now, listen to the names of the seven sages.
३.२.४४
अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च ।
युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥
युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥
Summary
AI
The seven sages are Agnibāhu, Śuci, Śukra, Māgadha, Agnīdhra, Yukta, and Jita. Now, hear about the sons of the Manu.
३.२.४५
ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः ।
कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥
कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥
Summary
AI
O best of sages, the sons of that Manu, such as Ūru, Gambhīra, and Buddhi, are the kings who are said to protect the earth.
३.२.४६
चतुर्युगान्ते वेदानां जायते किल विप्लवः ।
प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥
प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥
Summary
AI
At the end of every cycle of four ages, the Vedas are lost to the world. The seven sages descend from heaven to earth to re-establish and propagate them once more.
३.२.४७
कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः ।
देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥
देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥
Summary
AI
O Brahmin, in every Kṛta age, a Manu appears as the author of the law-books. The gods remain the recipients of sacrificial offerings throughout the duration of that Manvantara.
३.२.४८
भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः ।
तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥
तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥
Summary
AI
The sons of Manu and their descendants govern and protect the earth for the entire period of the Manvantara.
॥ इति तृतीयांशे द्वितीयोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.