मैत्रेय उवाच ।
२.१.१
भगवन्सम्यगाख्यातं ममैतदखिलं त्वया ।
जगतः सर्गसम्बन्धि यत्पृष्टोसि गुरो मया ॥
जगतः सर्गसम्बन्धि यत्पृष्टोसि गुरो मया ॥
Summary
AI
O venerable Guru, you have clearly explained to me everything related to the creation of the universe as I had requested.
२.१.२
योयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया ।
तत्राहं श्रोतुमिच्छामि भूयोपि मुनिसत्तम ॥
तत्राहं श्रोतुमिच्छामि भूयोपि मुनिसत्तम ॥
Summary
AI
O best of sages, I wish to hear further details regarding the portion of world-creation that you have previously mentioned.
२.१.३
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥
Summary
AI
You have spoken of Dhruva, the son of Uttānapāda, who was one of the two sons of Svāyambhuva Manu, the other being Priyavrata.
२.१.४
प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥
Summary
AI
O twice-born one, you have not yet described the lineage of Priyavrata. I am eager to hear about it; please be kind enough to narrate.
श्रीपराशर उवाच ।
२.१.५
कर्दमस्यात्मजां कन्यामुपयेमे प्रयिव्रतः ।
सम्राट्कुक्षि च तत्कन्ये दशपुत्रस्तथापरे ॥
सम्राट्कुक्षि च तत्कन्ये दशपुत्रस्तथापरे ॥
Summary
AI
Priyavrata married the daughter of Kardama. He had two daughters, Samrāṭ and Kukṣi, and ten other sons.
२.१.६
महाप्रज्ञा महावीर्या विनीता दयिताः पितुः ।
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥
Summary
AI
Hear from me the names of Priyavrata’s famous sons, who were highly intelligent, exceptionally powerful, humble, and dear to their father.
२.१.७
आग्नीध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा ।
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥
Summary
AI
His sons were Āgnīdhra, Agnibāhu, Vapuṣmat, Dyutimat, Medhā, Medhātithi, Bhavya, Savana, and Putra.
२.१.८
ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतो ऽभवत् ।
प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥
प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥
Summary
AI
The tenth son was the truthful Jyotiṣmat. All these sons of Priyavrata were renowned for their immense strength and valor.
२.१.९
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मारा महाभागान राज्याय मनो दधुः ॥
जातिस्मारा महाभागान राज्याय मनो दधुः ॥
Summary
AI
The three sons named Medhā, Agnibāhu, and Putra were devoted to Yoga and remembered their past lives. These noble individuals did not set their hearts on ruling the kingdom.
२.१.१०
निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।
चक्रुः क्रियां यथान्यायमफलाकाक्षिणो हि ते ॥
चक्रुः क्रियां यथान्यायमफलाकाक्षिणो हि ते ॥
Summary
AI
O sage, being pure and detached from all material objects, they performed their obligatory duties righteously, without any desire for the fruits of their actions.
२.१.११
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम ।
सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥
सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥
Summary
AI
O Maitreya, the high-souled Priyavrata divided the seven continents and distributed them among his remaining seven sons.
२.१.१२
जम्बूद्वीपे महाभाग सोग्नीध्राय ददौ पिता ।
मेधातिथेस्तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥
मेधातिथेस्तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥
Summary
AI
The father gave Jambūdvīpa to Āgnīdhra and bestowed another continent, Plakṣadvīpa, upon Medhātithi.
२.१.१३
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतावान्प्रभुः ॥
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतावान्प्रभुः ॥
Summary
AI
The lord anointed Vapuṣmat as the king of Śālmaladvīpa and appointed Jyotiṣmat as the ruler of Kuśadvīpa.
२.१.१४
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।
शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥
शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥
Summary
AI
Priyavrata designated Dyutimat as the king of Krauñcadvīpa and made Bhavya the sovereign of Śākadvīpa.
२.१.१५
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः ।
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥
Summary
AI
That lord also appointed Savana as the ruler of Puṣkaradvīpa. Now, O sage, listen about Āgnīdhra, the lord of Jambūdvīpa.
२.१.१६
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ।
नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ॥
नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ॥
Summary
AI
Āgnīdhra had nine sons who were as powerful as Prajāpatis: Nābhi, Kiṃpuruṣa, Harivarṣa, and Ilāvṛta.
२.१.१७
रम्यो हिरण्वान्षष्ठश्च कुरुभद्राश्व एव च ।
केतुमालस्तथैवान्यः साधुचेष्टो ऽभवन्तृपः ॥
केतुमालस्तथैवान्यः साधुचेष्टो ऽभवन्तृपः ॥
Summary
AI
His other sons were Ramya, Hiraṇvat (the sixth), Kuru, Bhadrāśva, and the virtuous King Ketumāla.
२.१.१८
जन्बूद्वीपवि भागांश्च तेषां विप्र निशामय ।
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥
Summary
AI
O Brāhmaṇa, listen to the divisions of Jambūdvīpa among them. The father gave the southern region called Himāhva to Nābhi.
२.१.१९
हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः ।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥
Summary
AI
He gave the region of Hemakūṭa to Kiṃpuruṣa and bestowed the third region, Naiṣadha, upon Harivarṣa.
२.१.२०
इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ।
नीलाचलाश्रितं वर्ष रम्याय प्रददौ पिता ॥
नीलाचलाश्रितं वर्ष रम्याय प्रददौ पिता ॥
Summary
AI
He gave Ilāvṛta the central region where Meru is situated, and the father gave the region near the Nīla mountain to Ramya.
२.१.२१
श्वेतं यदुत्तरं तस्मा- ।
त्पित्रा दत्तं हिरण्वते ॥
त्पित्रा दत्तं हिरण्वते ॥
Summary
AI
The region that lies to the north of the Śveta mountain was given by the father to Hiraṇvat.
२.१.२२
यदुत्तरं शृङ्गवतो वर्ष तत्कुरवे ददौ ।
मेरोः पुर्वेण यद्वर्ष भद्राश्वाय प्रदत्तवान् ॥
मेरोः पुर्वेण यद्वर्ष भद्राश्वाय प्रदत्तवान् ॥
Summary
AI
He gave the region north of Śṛṅgavat to Kuru, and the region situated to the east of Meru was granted to Bhadrāśva.
२.१.२३
गन्धमाधनवर्ष तु केतुमालाय दत्तवान् ।
इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥
इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥
Summary
AI
To Ketumāla, he assigned the region of Gandhamādana. In this manner, that king distributed these various realms among his sons.
२.१.२४
वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः ।
सालाग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥
सालाग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥
Summary
AI
After consecrating his sons in these respective regions, O Maitreya, the king retired to the highly sacred Śālāgrāma for the sake of penance.
२.१.२५
यनि किंपुरुषादीति वर्षाव्यष्टौ महामुने ।
तेषां स्वाभाविकि सिद्धिः सुखप्राया ह्ययत्नतः ॥
तेषां स्वाभाविकि सिद्धिः सुखप्राया ह्ययत्नतः ॥
Summary
AI
O Great Sage, in the eight regions beginning with Kiṃpuruṣa, perfection is innate and happiness is attained effortlessly without exertion.
२.१.२६
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्मधमौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥
धर्मधमौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥
Summary
AI
In those lands, there is no adversity, nor fear of old age or death. There is no distinction between virtue and vice, nor any classification of people as superior, inferior, or middle.
२.१.२७
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा ।
हिमाह्वयं तु वै वर्षं नाबेरासीन्महात्मनः ।
तस्यर्षभो ऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥
हिमाह्वयं तु वै वर्षं नाबेरासीन्महात्मनः ।
तस्यर्षभो ऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥
Summary
AI
These eight regions are always free from the influence of the ages. The realm called Himāhvaya belonged to the high-souled Nābhi, to whom a brilliant son named Ṛṣabha was born from Merudevī.
२.१.२८
ऋषभाद्भारतो जज्ञे ज्येष्ठः पुत्रशतस्य सः ।
कृत्वा राज्यं स्वधर्मेण तथैष्ट्वा विविधान्मखान् ॥
कृत्वा राज्यं स्वधर्मेण तथैष्ट्वा विविधान्मखान् ॥
Summary
AI
From Ṛṣabha was born Bharata, the eldest of a hundred sons. He ruled the kingdom according to righteousness and performed various sacrifices.
२.१.२९
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः ।
तपसे स महाभागः पुलहस्याश्रमं ययौ ॥
तपसे स महाभागः पुलहस्याश्रमं ययौ ॥
Summary
AI
After crowning his heroic son Bharata, that illustrious monarch went to the hermitage of Pulaha to perform austerities.
२.१.३०
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।
तपस्तेपे यथान्यायमियाज स महीपतिः ॥
तपस्तेपे यथान्यायमियाज स महीपतिः ॥
Summary
AI
Having resolved to follow the rules of a forest-dweller, that king performed penance according to the law and worshipped the deities.
२.१.३१
तपसा कर्षितोत्यर्थं कृशो धमनिसन्ततः ।
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥
Summary
AI
Greatly emaciated by penance and with his veins visible, he became naked and, placing a pebble in his mouth, embarked upon the heroic path.
२.१.३२
ततश्च भारतं वर्षमेतल्लोकेषु गीयते ।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥
Summary
AI
Hence, this land is celebrated among the worlds as Bhāratavarṣa, because it was given to Bharata by his father when he departed for the forest.
२.१.३३
सुमतीर्भरतस्याभूत्पुत्रः परमधार्मिकः ।
कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखं पिता ॥
कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखं पिता ॥
Summary
AI
Bharata had a highly pious son named Sumati. After ruling effectively and performing sacrifices, the father bestowed the kingdom upon him.
२.१.३४
पुत्रसंक्रामित श्रीस्तु भरतः स महीपतिः ।
योगाभ्यासरतः प्राणान्सालग्रामे ऽयजन्मुने ॥
योगाभ्यासरतः प्राणान्सालग्रामे ऽयजन्मुने ॥
Summary
AI
Having transferred the royal glory to his son, King Bharata devoted himself to yoga practice and eventually gave up his life at Śālāgrāma, O Sage.
२.१.३५
अजायत च विप्रोसौ योगीनां प्रवरे कुले ।
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥
Summary
AI
He was later reborn as a brāhmaṇa in a distinguished family of yogis. O Maitreya, I shall narrate his life story to you again.
२.१.३६
मुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।
परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥
परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥
Summary
AI
From the brilliant Sumati was born Indradyumna. From him came Parameṣṭhin, and from him was born Pratihāra in that lineage.
२.१.३७
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद्गीथः प्रास्तविस्तत्सुतो विभुः ॥
भवस्तस्मादथोद्गीथः प्रास्तविस्तत्सुतो विभुः ॥
Summary
AI
His son was the renowned Pratihartṛ. From him came Bhava, then Udgītha, and his son was the powerful Prāstavi.
२.१.३८
पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः ।
नरो गयस्य नतयस्तत्पुत्रोभूद्विराट्ततः ॥
नरो गयस्य नतयस्तत्पुत्रोभूद्विराट्ततः ॥
Summary
AI
From him was born Pṛthu, then Nakta, whose son was Gaya. Gaya’s son was Nara, followed by Nati, from whom Virāṭ was born.
२.१.३९
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥
महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥
Summary
AI
To him was born a son of great prowess and wisdom. His son was Mahānta, and his son, in turn, was Manasyu.
२.१.४०
त्पष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य जज्ञे पुत्रशन्त मुने ॥
शतजिद्रजसस्तस्य जज्ञे पुत्रशन्त मुने ॥
Summary
AI
From Manasyu came Tvaṣṭṛ, and from Tvaṣṭṛ came Viraja. His son was Rajas, and O Sage, from that Rajas were born a hundred sons, including Śatajit.
२.१.४१
विष्वग्ज्योतिप्रधानास्ते यैरिमा वर्धिताः प्रजाः ।
तैरिदं भारतं वर्षं नवभेदमलङ्कृतम् ॥
तैरिदं भारतं वर्षं नवभेदमलङ्कृतम् ॥
Summary
AI
Led by Viṣvagyoti, those by whom these subjects were increased, adorned this Bhārata Varṣa, which is divided into nine regions.
२.१.४२
तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा ।
कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥
कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥
Summary
AI
In ancient times, those born in their lineage ruled this land of Bhāratī for seventy-one cycles of the four ages, including the Kṛta and Tretā epochs.
२.१.४३
एष स्वायंभुवः सर्गौ येनेदं पूरितं जगत् ।
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥
Summary
AI
This is the creation of Svāyambhuva Manu by which this entire world was filled. O Sage, in this Vārāha Kalpa, he was the first lord of the manvantara.
इति श्रीविष्णुपुराणे द्वितीयेऽंशे प्रथमो ऽध्यायः ।
॥ इति द्वितीयांशे प्रथमोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.