श्रीपराशर उवाच ।
१.१३.१
ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत ।
शिष्टोराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ॥
शिष्टोराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ॥
Summary
AI
From Dhruva were born Śiṣṭi and Bhavya. From Bhavya, Śambhu was born. Succhāyā bore five sinless sons to Śiṣṭi.
१.१३.२
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥
Summary
AI
She bore Ripu, Ripunjaya, Vipra, Vṛkala, and Vṛkatejas. Bṛhatī bore the all-resplendent Cākṣuṣa to Ripu.
१.१३.३
अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् ।
प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥
प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥
Summary
AI
Cākṣuṣa begot Manu through Puṣkariṇī, the daughter of the high-souled Prajāpati Vīraṇa, who was born of Varuṇa.
१.१३.४
मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥
Summary
AI
O best of ascetics, ten mighty sons were born to Manu from Naḍvalā, the daughter of Prajāpati Vairāja.
१.१३.५
कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः ।
अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव ।
अभिमन्युश्च दशमो नड्वलायां महौजसः ॥
अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव ।
अभिमन्युश्च दशमो नड्वलायां महौजसः ॥
Summary
AI
The ten mighty sons born to Naḍvalā were Kuru, Puru, Śatadyumna, Tapasvin, Satyavat, Śuci, Agniṣṭoma, Atirātra, Sudyumna, and the tenth, Abhimanyu.
१.१३.६
कुरोरजनयत्पुत्रान्षडाग्नोयी महाप्रभान् ।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम् ॥
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम् ॥
Summary
AI
Āgneyī bore six highly illustrious sons to Kuru: Aṅga, Sumana, Khyāti, Kratu, Aṅgiras, and Śibi.
१.१३.७
अङ्गात्सुनीथापत्यं वै वेनमेकमजायत ।
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥
Summary
AI
From Aṅga was born a single child named Vena, the son of Sunīthā. For the sake of progeny, the sages churned his right hand.
१.१३.८
वेनस्य पाणौ मथिते सम्बभूव महामुने ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥
वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥
Summary
AI
O great sage, when the hand of Vena was churned, a protector of the earth named Vainya emerged, who is celebrated as Pṛthu.
१.१३.९
येन दुग्धा मही पूर्वं ।
प्रजानां हितकारणात् ॥
प्रजानां हितकारणात् ॥
Summary
AI
By whom the earth was previously milked for the welfare of the subjects.
मैत्रेय उवाच ।
१.१३.१०
किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः ।
यत्र जज्ञे महावीर्यः स पृथृर्मुनिसत्तम ॥
यत्र जज्ञे महावीर्यः स पृथृर्मुनिसत्तम ॥
Summary
AI
O best of sages, why was the hand of Vena churned by the supreme ṛṣis, from which the highly powerful Pṛthu was born?
श्रीपराशर उवाच ।
१.१३.११
सुनीथा नाम या कन्या कृत्यो प्रथमतो ऽभवत् ।
अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥
अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥
Summary
AI
The girl named Sunīthā, who was the first-born child of Mṛtyu, was given as a wife to Aṅga, and from her, Vena was born.
१.१३.१२
स मातामहदोषेण तेन मृत्योः सुतात्मजः ।
निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥
निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥
Summary
AI
O Maitreya, that son of Mṛtyu’s daughter was born wicked by his very nature due to the defect inherited from his maternal grandfather.
१.१३.१३
अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः ।
घोष यामास स तदा पृथिव्यां पृथिवीपतिः ॥
घोष यामास स तदा पृथिव्यां पृथिवीपतिः ॥
Summary
AI
When Vena was anointed to the kingdom by the supreme sages, he, the lord of the earth, made a proclamation throughout the world.
१.१३.१४
न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन ।
भोक्ता यज्ञस्य कस्त्वन्यो ऽह्यहं यज्ञपतिः प्रभुः ॥
भोक्ता यज्ञस्य कस्त्वन्यो ऽह्यहं यज्ञपतिः प्रभुः ॥
Summary
AI
"No sacrifice should be performed, no gifts should be given, and no oblations should be offered in any manner. Who else is the enjoyer of sacrifice? Indeed, I am the lord and master of sacrifice."
१.१३.१५
ततस्तमृषयः पूर्व संपूज्यं पृथिवीपतिम् ।
ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः ॥
ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः ॥
Summary
AI
O Maitreya, then the sages approached that king, who was previously worthy of worship, and spoke words full of conciliation.
१.१३.१६
ऋषय ऊचुः भोभो राजन्शृणुष्व त्वं यद्वदाम महीपते ।
राज्यं देहोपकाराय प्रजानां च हितं परम् ॥
राज्यं देहोपकाराय प्रजानां च हितं परम् ॥
Summary
AI
The sages said: "O King, lord of the earth, listen to what we say. The kingdom is for the benefit of the body and the ultimate welfare of the subjects."
१.१३.१७
दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् ।
पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥
पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥
Summary
AI
"Through a long sacrificial session, we shall worship Hari, the lord of gods and the master of all sacrifices. May you be blessed; a portion of that sacrifice shall be yours."
१.१३.१८
यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणिते नृप ।
अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति ॥
अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति ॥
Summary
AI
"O King, when Viṣṇu, the personification of sacrifice, is gratified by our offerings, He will grant all your desires."
१.१३.१९
यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः ।
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥
Summary
AI
"O King, to those monarchs in whose kingdom Hari, the lord of sacrifice, is worshipped through rituals, He bestows the attainment of all their desires."
वेन उवाच ।
१.१३.२०
मत्तः को ऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः ।
कोयं हरिरिति ख्यातो यो वो यज्ञश्वरो मतः ॥
कोयं हरिरिति ख्यातो यो वो यज्ञश्वरो मतः ॥
Summary
AI
Vena replied: "Who is greater than I? Who else is there for me to worship? Who is this individual known as Hari, whom you regard as the lord of sacrifice?"
१.१३.२१
ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः ।
हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः ॥
हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः ॥
Summary
AI
Brahmā, Janārdana, Śambhu, Indra, Vāyu, Yama, Ravi, Hutabhuk, Varuṇa, Dhātṛ, Pūṣan, the Earth, and the Moon all reside within the king.
१.१३.२२
एते चान्ये च ये देवाः शापानुग्रहकारिणः ।
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥
Summary
AI
These and other deities who bestow curses or blessings reside within the body of the king; therefore, the king is the embodiment of all the gods.
१.१३.२३
एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा ।
न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः ॥
न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः ॥
Summary
AI
"Knowing this, O twice-born ones, do exactly as I have commanded. No gifts are to be given, no sacrifices performed, and no oblations offered."
१.१३.२४
भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः ।
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥
Summary
AI
"Just as serving the husband is considered the highest duty for women, similarly, O Brāhmaṇas, obeying my command is your primary duty."
१.१३.२५
ऋषय ऊचुः देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम् ।
हविषां परिणामो ऽयं यदेतदखिलं जगत् ॥
हविषां परिणामो ऽयं यदेतदखिलं जगत् ॥
Summary
AI
The sages said: "O Great King, grant us permission so that righteousness does not perish. This entire world is the fruit and result of sacrificial offerings."
श्रीपराशर उवाच ।
१.१३.२६
इति विज्ञाप्यमानो ऽपि स वेनः परमर्षिभिः ।
यदा ददाति नानुज्ञं प्रोक्तः प्रोक्तः पुनः पुनः ॥
यदा ददाति नानुज्ञं प्रोक्तः प्रोक्तः पुनः पुनः ॥
Summary
AI
Though repeatedly entreated and addressed by the great sages in this manner, King Vena still refused to grant his permission for the sacrifices.
१.१३.२७
ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः ।
हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥
हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥
Summary
AI
Then, filled with wrath and indignation, all those sages said to one another, "Let this sinful man be slain! Let him be slain!"
१.१३.२८
यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् ।
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥
Summary
AI
"A man of base conduct who reviles Lord Viṣṇu, the master of sacrifice and the one without beginning or end, is not fit to be the ruler of the earth."
१.१३.२९
इत्युक्त्वा मन्त्रपूतैस्तैः कुशैर्मुनिगणानृपम् ।
निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना ॥
निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना ॥
Summary
AI
Having said this, the hosts of sages struck the king with blades of kuśa grass consecrated by mantras. He had already been spiritually destroyed by his blasphemy against the Lord.
१.१३.३०
ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज ।
किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा ॥
किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा ॥
Summary
AI
Then, O twice-born one, the sages saw dust rising from all directions and asked the people standing nearby, "What is this?"
१.१३.३१
आख्यातं च जनैस्तेषां चोरीभूतैरराजके ।
राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥
राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥
Summary
AI
The people informed them that in a lawless kingdom without a ruler, desperate men had turned into thieves and begun plundering the property of others.
१.१३.३२
तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः ।
सुमहद्दृश्यते रेणुः परवित्तापहारिणाम् ॥
सुमहद्दृश्यते रेणुः परवित्तापहारिणाम् ॥
Summary
AI
"O best of sages, the great cloud of dust being seen is caused by those swift thieves who are rushing about to steal the wealth of others."
१.१३.३३
ततः संमन्त्र्य ते सर्वे सुनयस्तस्य भूभृतः ।
ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥
ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥
Summary
AI
Thereupon, after consulting together, all the sages diligently churned the thigh of the childless king to produce a son.
१.१३.३४
मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल ।
दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः ॥
दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः ॥
Summary
AI
From the thigh being churned, there emerged a man who looked like a charred pillar, with a flattened face and an extremely short stature.
१.१३.३५
किं करोमीति तान्सर्वान्स विप्रानाह चातुरः ।
निषीदेति तमूचुस्ते निषादस्तेन सो ऽभवत् ॥
निषीदेति तमूचुस्ते निषादस्तेन सो ऽभवत् ॥
Summary
AI
Distressed, he asked the Brāhmaṇas, "What shall I do?" They replied to him, "Sit down (niṣīda)!" because of which he became known as Niṣāda.
१.१३.३६
ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः ।
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥
Summary
AI
From him, O tiger among sages, descended the Niṣādas who dwell in the Vindhya mountains and are characterized by their sinful deeds.
१.१३.३७
तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः ।
निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥
निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥
Summary
AI
Through that means, the sin of the king was expelled. Thus, the Niṣādas were born, having carried away the wickedness of Vena.
१.१३.३८
तस्यैव दक्षिणं हस्तं ।
ममन्थुस्ते ततो द्विजाः ॥
ममन्थुस्ते ततो द्विजाः ॥
Summary
AI
After that, those twice-born ones churned the right hand of that very king.
१.१३.३९
मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥
Summary
AI
As the hand was churned, the glorious Pṛthu, the son of Vena, appeared, radiant in his own body like the blazing fire itself.
१.१३.४०
आद्यमाजगवं नाम खात्पपात ततो धनुः ।
शराश्च दिव्या नभसः कवचं च पपात ह ॥
शराश्च दिव्या नभसः कवचं च पपात ह ॥
Summary
AI
Then, from the sky fell the primordial bow named Ājagava, along with celestial arrows and armor.
१.१३.४१
तस्मिन्जाते तु भूतानि ।
संप्रहृष्टानि सर्वशः ॥
संप्रहृष्टानि सर्वशः ॥
Summary
AI
Upon his birth, all living beings were completely delighted.
१.१३.४२
सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययो ।
पुन्नाम्नो नरकात्त्रातः सुतेन सुमहात्मना ॥
पुन्नाम्नो नरकात्त्रातः सुतेन सुमहात्मना ॥
Summary
AI
By the birth of such a virtuous son, even Vena ascended to heaven. He was rescued from the hell named Put by his noble-souled offspring.
१.१३.४३
तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे ॥
तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे ॥
Summary
AI
The oceans and rivers arrived from everywhere, bringing jewels and waters for his consecration.
१.१३.४४
पितामहश्च भगवान्देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि च सर्वशः ।
समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम् ॥
स्थावराणि च भूतानि जङ्गमानि च सर्वशः ।
समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम् ॥
Summary
AI
Then, the lord Brahmā, along with the Āṅgirasa deities and all beings—both stationary and mobile—assembled and consecrated the son of Vena as the king.
१.१३.४५
हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः ।
विष्णोरंशं षृथुं मत्वा परितोषं परं ययै ॥
विष्णोरंशं षृथुं मत्वा परितोषं परं ययै ॥
Summary
AI
Seeing the mark of a discus on his right hand, Brahmā understood Pṛthu to be an expansion of Viṣṇu and attained supreme satisfaction.
॥ इति प्रथमांशे त्रयोदशोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.