श्रीपराशर उवाच ।
१.११.१
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।
द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥
द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥
Summary
AI
O Brahman, Priyavrata and Uttānapāda, the two sons of Svāyambhuva Manu, were described to you as being of great prowess and knowers of dharma.
१.११.२
तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः ॥
अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः ॥
Summary
AI
O Sage, of those two, Uttānapāda had a son named Uttama born to his favorite wife Suruci; this son was extremely dear to his father.
१.११.३
सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज ।
स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥
स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥
Summary
AI
O twice-born, the king had another queen named Sunīti, but he did not have much affection for her. She was the mother of the son named Dhruva.
१.११.४
राजासनस्थितस्याङ्कं पितुर्भ्रतरमाश्रितम् ।
दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम् ॥
दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम् ॥
Summary
AI
Seeing his brother Uttama seated on the lap of their father who was on the royal throne, Dhruva felt a desire to climb there as well.
१.११.५
प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत ।
प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम् ॥
प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम् ॥
Summary
AI
In the presence of Suruci, the king did not welcome his son Dhruva, who had approached with affection and was eager to climb onto his lap.
१.११.६
सपत्नी तनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् ।
स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥
स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥
Summary
AI
Seeing her co-wife’s son eager to climb the lap, and her own son already seated there, Suruci spoke these words.
१.११.७
क्रियते किं वृथा वत्स महानेष मनोरथः ।
अन्यस्त्रीगर्भजातेन ह्यसंभूय ममोदरे ॥
अन्यस्त्रीगर्भजातेन ह्यसंभूय ममोदरे ॥
Summary
AI
"O child, why do you vainly cherish such a great desire? Since you were born from the womb of another woman and not from mine, this wish is futile."
१.११.८
उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि ।
सत्यं सुतस्त्वमप्यस्य किं तु न त्वं मया धृतः ॥
सत्यं सुतस्त्वमप्यस्य किं तु न त्वं मया धृतः ॥
Summary
AI
"Out of ignorance, you desire the most excellent seat which is unattainable for you. It is true that you are also his son, but you were not carried in my womb."
१.११.९
एतद्राजासनं सर्व भूभृत्संश्रयकेतनम् ।
योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥
योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥
Summary
AI
"This royal throne, the seat of all sovereign power, is fit only for my son. Why do you distress yourself in vain?"
१.११.१०
उच्चैर्मनोरथस्तेयं मत्पुत्रस्येव किं वृथा ।
सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥
सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥
Summary
AI
"Why is this lofty ambition of yours as high as my son’s? Do you not realize that you were born of Sunīti?"
१.११.११
श्रीपराशर वाच उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् । जगाम कुपितो मातुर्निजाया द्विजमन्दिरम् ॥
Summary
AI
Parāśara said: Hearing those words from his stepmother, the boy left his father and went to his own mother's house in anger.
१.११.१२
तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् ।
सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥
सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥
Summary
AI
O Maitreya, seeing her angry son with his lower lip slightly quivering, Sunīti took him onto her lap and spoke thus.
१.११.१३
वत्स कः कोपहेतुस्ते कश्च त्वां नाभि नन्दति ।
कोवजानाति पितरं वत्स यस्तेपराध्यति ॥
कोवजानाति पितरं वत्स यस्तेपराध्यति ॥
Summary
AI
"Child, what is the cause of your anger? Who does not welcome you? Who ignores your father by offending you, my child?"
१.११.१४
श्रीपराशर वाच इत्युक्तः सकलं मात्रे कथयामास तद्यथा । सुरुचिः प्राह भूपालप्रत्यक्षमतगर्विता ॥
Summary
AI
Parāśara said: Thus addressed, the boy told his mother everything that the highly arrogant Suruci had said in the presence of the king.
१.११.१५
विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः ।
श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥
श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥
Summary
AI
When the son had related this, Sunīti, troubled at heart, her eyes weary with sighing, spoke these words in distress after a deep sigh.
१.११.१६
सुनीतिरुवाच सुरुचिः सत्यमाहेदं मन्दभाग्योसिःपुत्रक ।
न हि पुण्यवतां वत्स सपत्नैरेव मुच्यते ॥
न हि पुण्यवतां वत्स सपत्नैरेव मुच्यते ॥
Summary
AI
Sunīti said: "O son, Suruci has spoken the truth; you are unfortunate. Indeed, the fortune of the meritorious is not addressed so harshly by co-wives."
१.११.१७
नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा ।
तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया ॥
तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया ॥
Summary
AI
"My child, you should not be distressed. Who can take away what you have earned in the past? And who can give you what you have not earned?"
१.११.१८
तत्त्वया नात्र कर्तव्यं ।
दुःखं तद्वाक्यसम्भवम् ॥
दुःखं तद्वाक्यसम्भवम् ॥
Summary
AI
"Therefore, you should not feel sorrow arising from her words."
१.११.१९
राजासनं राजच्छत्रं वराश्चावरवारणाः ।
यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक ॥
यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक ॥
Summary
AI
"O son, the royal throne, the royal umbrella, and excellent horses and elephants belong to him who has merits. Knowing this, be calm."
१.११.२०
अन्यजन्मकृतैः पुण्यैः सुरुच्या सुरुचिर्नृपः ।
भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता ॥
भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता ॥
Summary
AI
"Due to merits earned in another birth, Suruci is called the king's beloved wife, whereas another like me is called one devoid of merit."
१.११.२१
पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः ।
मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥
मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥
Summary
AI
Her son Uttama is thus endowed with an abundance of merit, whereas you, my son Dhruva, are born with little merit.
१.११.२२
तथापि दुःखं न भवान्कर्तुमर्हसि पुत्रक ।
यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥
यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥
Summary
AI
Nevertheless, dear son, you should not grieve. A human being should be satisfied with whatever portion is destined for him by his own past deeds.
१.११.२३
यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् ।
तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥
तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥
Summary
AI
If the words of Suruci have caused you great distress, then strive to accumulate merit, which bestows all fruits.
१.११.२४
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः ।
निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥
निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥
Summary
AI
Be well-behaved, righteous, friendly, and devoted to the welfare of living beings. Just as water naturally flows to low-lying ground, prosperity comes to a worthy recipient.
ध्रुव उवाच ।
१.११.२५
अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम ।
नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति ॥
नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति ॥
Summary
AI
O mother! These words you speak for my consolation do not find a place in my heart, which has been pierced by harsh speech.
१.११.२६
सो ऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् ।
स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम् ॥
स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम् ॥
Summary
AI
I shall exert myself in such a way that I attain the highest of all stations, one that is honored by the entire world.
१.११.२७
सुरुचिर्दयिता राज्ञस्तस्या जातोस्मि नोदरात् ।
प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे ॥
प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे ॥
Summary
AI
Suruci is the King's favorite, and I was not born from her womb. O mother, see my power, even though I was nurtured in your womb.
१.११.२८
उत्तमः स मम भ्राता यो गर्भेण धृतस्तया ।
स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥
स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥
Summary
AI
Let my brother Uttama, whom she bore in her womb, obtain the royal throne given by our father. Let it be so.
१.११.२९
नान्यदत्तमभीप्स्यामि स्तानमम्ब स्वकर्मणा ।
इच्छामि तदहं स्थानं यत्र प्राप पिता मम ॥
इच्छामि तदहं स्थानं यत्र प्राप पिता मम ॥
Summary
AI
O mother, I do not desire a position given by another; I seek through my own actions that station which even my father reached.
श्रीपराशर उवाच ।
१.११.३०
निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः ।
पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो ॥
पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो ॥
Summary
AI
Having spoken thus to his mother, Dhruva left his mother's house. Departing from the city, he then went to a grove located on its outskirts.
१.११.३१
स ददर्श मुनींस्तत्र सप्तपूर्वागतान्ध्रुवः ।
कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥
कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥
Summary
AI
There, Dhruva saw seven sages who had arrived previously, seated upon mats and wearing upper garments made of grass and antelope skins.
१.११.३२
स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्य भाषत ।
प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥
प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥
Summary
AI
That prince, bowing with humility, spoke to them all after properly prostrating and offering his salutations.
ध्रुव उवाच ।
१.११.३३
उत्तानपादतनयं मां निबोधत सत्तमाः ।
जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥
जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥
Summary
AI
O virtuous ones! Know me as the son of Uttānapāda, born of Sunīti. Due to detachment and frustration, I have come into your presence.
१.११.३४
ऋषय ऊचुः चतुःपञ्चा ब्दसंभूतो बालस्त्वं तृपनन्दन ।
निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥
निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥
Summary
AI
The sages said: O Prince! You are but a child of four or five years. Even now, there exists no cause for such detachment in you.
१.११.३५
न चिन्त्यं भवतः किञ्चिद्ध्रयते भूपतिः पिता ।
न चैवैष्ट वियोगादि तव पश्याम बालक ॥
न चैवैष्ट वियोगादि तव पश्याम बालक ॥
Summary
AI
You have nothing to worry about; your father, the King, is still alive. O child, we do not see you suffering from the loss of loved ones or similar calamities.
१.११.३६
शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते ।
निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥
निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥
Summary
AI
Nor do we perceive any disease in your body. If it exists, tell us the cause for your detachment.
श्रीपराशर उवाच ।
१.११.३७
ततः स कथयामास सुरुच्या यदुदाहृतम् ।
तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥
तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥
Summary
AI
Then he related what had been said by Suruci. Having heard that, those sages spoke among themselves.
१.११.३८
अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा ।
सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ॥
सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ॥
Summary
AI
Oh! How great is the kṣatriya spirit of this child, that he cannot tolerate his stepmother's words, which do not leave his heart.
१.११.३९
भोभोः क्षत्रियदायादः निर्वेदाद्यत्त्वायाधुना ।
कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥
कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥
Summary
AI
O scion of the kṣatriyas! If it pleases you, tell us what you have resolved to do now out of this sense of detachment.
१.११.४०
यच्च कार्यं तवास्माभिः साहाय्यममितद्युते ।
तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥
तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥
Summary
AI
O one of immeasurable splendor! Tell us what assistance we can provide for your task. We perceive that you are desirous of speaking.
ध्रुव उवाच ।
१.११.४१
नाह मर्थमभीप्सामि न राज्यं द्विजसत्तमाः ।
तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥
तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥
Summary
AI
O best of the twice-born! I do not desire wealth or a kingdom; I only desire that unique position which has never been enjoyed by anyone else before.
१.११.४२
एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा ।
स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥
स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥
Summary
AI
O best of sages! Please guide me properly and tell me how that supreme position, which is superior to all other places, can be attained.
१.११.४३
मरीचिरुवाच अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज ।
न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥
न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥
Summary
AI
Marīci said: O Prince! The highest position is never attained by men who have not worshipped Govinda; therefore, worship Acyuta.
१.११.४४
अत्रिरुवाच परः पराणां पुरुषो यस्य तुष्टो जनार्दनः ।
संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥
संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥
Summary
AI
Atri said: He with whom Janārdana, the supreme Person who is higher than the highest, is pleased, attains an eternal position. This is the truth I have spoken.
॥ इति प्रथमांशे एकादशोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.