अथ
शृङ्गारप्रकाशे नवमः प्रकाशः
दोषहानगुणोपादानप्रकाशो नाम
तत्र अभिधाविवक्षादिभिर्निरूपिते शब्दार्थयोः साहित्ये वाक्यस्य प्रयोगयोग्यता प्रयोगानर्हता च निश्चीयते। यदाह—'एकः शब्दः सम्यक्प्रयुक्तः स्वर्गे लोके कामधुग्भवति' (मभा. ६.१.८४)। दुष्प्रयुक्तः पुनरधर्माय सम्पद्यते। सम्यक्प्रयोगश्चास्य तदोपपद्यते यदा दोषहानं गुणोपादानमलङ्कारयोगो रसावियोगश्च भवति। तेषां च प्रथमं दोषहानमेव विधेयम्। यतः कमनीयरूपादिसम्पदुपेतमपि वपुः कुष्ठबिन्दुनैकेनापि दौर्भाग्यमनुभवति। उक्तं च—(काव्याद. १.७)
तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन।
स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्॥ १॥
किं च— (भामहा. १.१२)
नाकवित्वमधर्माय मृतये दण्डनाय वा।
कुकवित्वं पुनस्साक्षान्मृतिमाहुर्मनीषिणः॥ २॥
(९. दोषहानम्)
दोषास्त्रिधा १. पददोषाः, २. वाक्यदोषाः, ३. वाक्यार्थदोषाश्च।
तत्र च वाक्यस्य प्रयोगयोग्यतायाः प्रयोगानर्हतायाश्च निश्चयार्थं विमर्शे पदगतदोषनिरूपणमनिपुणोपज्ञमिव विज्ञायते। न हि वाक्यावस्थायां पदानि पदार्था वा विद्यन्ते। यथा हि चित्रे नीलपीतरक्तादयः. पानके गुडामलकमरीचादयः, ग्रामरागे षड्जर्षभगान्धारादयः चित्रादिभ्यः पृथक्त्वेन नावभासन्ते, तथा वाक्येऽपि क्रियाकारकविशेषणादिपदानि तदर्था वा न वाक्यवाक्यार्थाभ्यां भेदेनैव प्रतीयन्ते।
वाक्यार्थो हि पदपर्यायैरखण्ड एवाभिधीयमानो दृश्यते। तद्यथा— मुण्डं करोति मुण्डयति, श्लोकैरुपस्तौति उपश्लोकयति, श्रुत्वा च्छन्दोऽधीते श्रोत्रियः, परस्य क्षेत्रेऽतिचरन् चिकित्स्यते क्षेत्रियः, स्त्रुघ्नमभिनिष्क्रामति द्वारं स्रौघ्नम्, कलापिषूद्भिद्यमानकलापेषु विगतकलापेषु वा देयमृणं कालापकम्, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि, गौरवाय ह्वायकमिच्छति जिह्वायकीयिषति, अश्नीत पिबत इति सातत्येन यस्यां क्रियायां तामात्मनः इच्छत्यश्नीतपिबतीयति, दक्षिणे पार्श्वे लुब्धेन विषदिग्धेन शरेण मर्मणि निर्मितं व्रणं यस्य मृगस्य स दक्षिणेर्मा, दक्षिणात् समुद्रादद्रिराजं हिमवन्तं यावद् योजनानां दशशतीं विजयमानः समस्तरत्नानां य आयतनं स चक्रवर्ती। यो राजसूययाजी य ईश्वरो मण्डलस्य सकलस्य यश्चाज्ञयैव राज्ञः प्रशास्ति संराट् स विज्ञेय इति। अपि च ललाटं पश्यति लालटिकः, कुक्कुटीं चरतीति कौक्कुटिकः; तत्र ललाटदर्शनेन दूरे अवस्थानं लक्ष्यते, तेनानुपश्लेषकार्येषु चानुपस्थानम्; यः सेवकः स्वामिनः कार्येषु नोपयुज्यते, ललाटमेव वा यः कोपप्रसादसंरक्षणाय पश्यति स लालाटिक इत्युच्यते। तथा कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन देशस्याल्पता; यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छंस्तावत्येव देशे चरति, यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति, कुक्कुटीपातानां दाम्भिकानां चेष्टां वाचरति यस्सः कौक्कुटिक उच्यते।
एवं लोके लज्जाकरत्वादप्रकाश्यत्वेन कूपे प्रक्षेपणमिवार्हति यदकार्यं तत्कौपीनम्, तदिव यद्गूहनीयमङ्ग तदपि कौपीनम्; तस्य यदाच्छादकं वस्त्रखण्डं वल्कलादि तदपि कौपीनमेवोच्यते। किं च सिद्धस्यान्नस्य वर्धनायानाहूतापि योपतिष्ठते सा वध्रिका; तद्वदप्रार्थितोऽपि यः परिकर्मणि व्याप्रियते सोऽपि निन्द्यत्वेन वध्रिकेव वध्रिका; प्रशस्योऽपि विरुद्धलक्षणया हतभग्नादिवद्(?) यः तद्व्यपदेशभाग्भवति सोऽपि वर्धिका दर्शनीयो मनुष्य इति वर्धिकेत्येवोच्यते। तथा—
'अर्धं जरत्याः कश्चित् कामयतेऽर्धं परिहरति, एवं कश्चित् कार्यस्यार्धमाद्रियते अर्धमवजहाति, तत्रार्धमिव जरत्या यदर्धं कार्यस्य तस्य कामिन इव यदनुष्ठानं तदर्धजरतीयमित्युच्यते।' यथा चाविजानतोऽपि घुणकीटस्य यदृच्छया काष्ठमुत्किरतः कदाचिदक्षरमुत्तिष्ठति, तद्वदशास्त्रज्ञस्य यादृच्छिकं यदनवद्यकर्मनिर्माणं तद्घुणाक्षरीयमित्युच्यते।
एवं च यथा पदपर्यायवाक्यानां अखण्ड एवाविभक्तोद्देशविभाग एकोऽर्थोऽभिधे— यस्तथा देवदत्त गामभ्याज शुक्लां दण्डेनेत्येवमादीनां पदपर्यायाणामपि वाक्यानां सन्निविष्टेऽनेकशक्तिरूपः सर्वोपाधिविशिष्टक्रियात्मा नष्टोद्देशविभाग एक एव अभिधेयो भवति। पदानां तु प्रकृतिप्रत्ययादिवदविद्वत्प्रतिपत्त्यर्थमेव अन्वयव्य— तिरेकाभ्यां व्यावहारिकोऽर्थापोद्धारः शब्दापोद्धारश्च क्रियते। अपोद्धृतानां च विनिविष्टभेदानामिव पुनर्योगो विधीयते। न चैतावता तद्गतदोषगुणनिरूपणमपि विधेयं भवति। न हि दर्शनीयं चित्रं स्वादु पानकं श्राव्यो ग्रामराग इति वक्तव्ये कश्चिदभिधत्ते शोभना नीलदयो गुडादयः षड्जादयो वेति।
उच्यते— अप्यायुष्मान् पदपदार्थानामिव वाक्यावस्थायां, वाक्यवाक्यार्था— नामप्यवान्तरवाक्यावस्थायामसत्यत्वं मन्यते? यथा दुह्यतां गौः, उपाध्यायस्तत्पयसा भुक्त्वा मामध्यापयतु, येन मामधियानं दृष्ट्वा पिता तुष्यति, तुष्टश्च मोदकान्मे ददातीति।
किं चातः?
यदि मन्यते, पदैः किमपराद्धं, येन तद्गतदोषगुणनिरूपणं न मृष्यते ?
अथ न मन्यते, तथापि पदैः किमपराद्धम्, येन तुल्येऽप्यारम्भकत्वे पदानामेवासत्यत्वमभ्युपगम्यते, न वाक्यानाम्।
अथ वाक्यान्यप्यवान्तरवाक्यावस्थायामसत्यानि? तर्हि अवान्तरवाक्यानामपि महावाक्यावस्थायां, महावाक्यानामपि विद्यास्थानावस्थायां, विद्यास्थानानामपि शब्दब्रह्मावस्थायां, शब्दब्रह्मणोऽपि परब्रह्मावस्थायां न सत्यत्वमिति न कस्यचित् किंचिदपि विचार्यं भवति।
अथाभेदवादिनामपि व्यवहारार्थमवश्यमेव भेदोऽभ्युपगन्तव्यः तद्गतदोषगुण— विचारणा चानुष्ठेया।
तर्ह्यसौ पदात् प्रभृत्येवारभ्यमाणा श्रेयसीति नस्तर्कः। पदेषु हि निर्दोषेषु गुणवत्सु च वाक्यमपि तदारब्धं तथाविधमेव भवति। यदाह—यादृशाद् वै जायते तादृश्येव भवति।
न च पदस्यात्यन्तमसत्यत्वं भवानपि मन्यते, योऽभिद्यमानावप्यविद्व— त्प्रतिपत्त्यर्थमन्वयव्यतिरेकाभ्यामपोद्धृत्य पदपदार्थौ भिन्नाविव पुनर्योजयति। यदि च सर्वथैवासत्यत्वमवाचकत्वं च पदानामभ्युपेयते, तत्तदारब्धवाक्यानामपि तथात्वे सर्वव्यवहारोच्छेदः प्राप्नोति॥
अपि चाखण्डवाक्यार्थपक्षे य एते पदार्थोपनिबन्धनाः वाक्यार्थविशेष— प्रतिपत्तिहेतवो वाक्येषु धर्मास्संदृश्यन्ते, तेऽपि पदानामानर्थक्यात् न प्राप्नुवन्ति।
के पुनरेते?
(वाक्यधर्माः —४८)
प्रधानं, शेषः, प्रयोजकम्, अप्रयोजकम्, नान्तरीयकम्, मुख्यम्, गौणम्, व्यापकम्, लघु, गुरु, अर्थवादः, अनुवादः, भेदविवक्षा, अभेदविवक्षा, व्यवहितकल्पना, उपचारकल्पना, तद्भावापत्तिः, योग्यतापत्तिः, सम्बन्धाबाधनं, विकल्पः, समुच्चयः, नियमः, निषेधः, प्रतिनिधिः, ऊहः, बाधः, तन्त्रम्, प्रसङ्गः, आवृत्तिः, भेदः, (अतिदेशः)१ सामान्यातिदेशः, विशेषातिदेशः, अधिकारः, अध्याहारः, विपरिणामः, वाक्यशेषः, अवधिः, अपोद्धारः, अनिर्ज्ञातप्रश्नः, क्रियान्तरव्युदासः, लिङ्गाद् विभेदः, लिङ्गादिभेदः, शब्दान्तरादिभेदः, शक्त्यादिभेदः, श्रुत्यादिविनियोगः, श्रुत्यादिबलाबलम्, श्रुत्यादिक्रमः, क्रमसम्भेद इति।
(१—२ प्रधानम्, शेषः)
तत्र साध्यमपरार्थं प्रधानं, सिद्धं पुनः परार्थं शेषः।
स चायं प्रधानशेषभावः शब्दशक्तेर्महिम्ना प्रवर्तमानो वस्तुनस्तथात्वमनपेक्ष्यैव प्रकाशते। तथा हि—
गुरुः प्रधानं परिचर्यमाणः शिष्यानुशिष्टौ स गुणत्वमेति।
तद्वद् गुडो भक्षयतौ प्रधानं, प्रीतौ पुनः स्यात् पुरुषस्य सोऽङ्गम् ॥ ३ ॥
इह तु सर्वमेव वाक्यजातमुदाहरणम्। न हि प्रधानगुणभावमन्तरेण वाक्ये पदानां समन्वयो भवति। तत्र साध्यत्वात् प्रधानं क्रिया, सिद्धत्वादप्रधानं कारकाणि।
क्वचित्तु कियाया अपि शेषत्वं भवति। यथा—(मामा. १.३०)
स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ४ ॥
यथा वा— (सक. ४.१२८)
१. मूले अतिदेशस्य स्थाने 'सामान्यातिदेशः विशेषातिदेश' इति लेखः। रा. पृ. ४९७, द्र. अत्र पृ.४७०
प्रियोऽसि प्राज्ञोऽसि प्रभुरसि कुलीनोऽस्यसि युवा युवत्यस्त्वामेवं कति न पतिमुर्वीश! वृणते।
अतश्चैतां कीर्तिं रघुनहुषमान्धातृमहिषीं पराम्रष्टुं वृद्धामधिगतनयो नार्हति भवान् ॥ ५ ॥
(३. प्रयोजकम्)
येन प्रयुक्तः प्रवर्तते तत् प्रयोजकम् (शाभा. ४.१.२२)। तद् यथा—'स्वर्गो यागस्य, गार्हस्थ्यमर्थार्जनस्य, अतिथयः पाकस्य, राजा छत्रच्छायाया' (वाप. २) इति। तच्च न केवलं श्रेयस्येव प्रवर्तयति, अपि त्वश्रेयस्यपि। यथा—(मामा.५.२७)
त्वत्पादपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन्नृमांसपणनाय परेतभूमावाकर्ण्य भीरु रुदितानि तवागतोऽस्मि ॥ ६ ॥
यथा वा—
अस्याः स्नेहभृतेन वानरपतिस्सेतौ मया क्लेशितो भ्राता मद्वदनैकवीक्षणपरः प्राणानयं त्याजितः।
दायादेन सह प्रवृत्तकलहे जात्यैव मुक्तायुधे निर्वैरे च निरागसि द्विषि तथा मुक्तः शरो वालिनि ॥ ७ ॥
(४. अप्रयोजकम्)
स्वयं प्रयोक्तुमसमर्थोऽन्यप्रयुक्तेन कर्मणा यः सम्बध्यते सोऽप्रयोजकः। तद्यथा मांसप्रयुक्ते पाके घृतादिभिरस्थीन्यप्रयोजकानि सम्बध्यन्ते। स्नातृप्रयुक्तेन स्नानीयेना— प्रयोजिका स्नानशाटी युज्यते। राजप्रयुक्तया छत्रच्छाययाऽप्रयोजकोऽपि हस्ती सङ्गच्छत' इति। इदं चाप्रयोजकत्वमवास्तवमपि क्वचिदुक्तिमात्रेण दृश्यते। यथा—
॥ इति दोषहानगुणोपादानप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.