॥ अथ शब्दार्थोभयालङ्कारप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे दशमः प्रकाशः
शब्दार्थोभयालङ्कारप्रकाशो नाम
(११. अलङ्कारयोगः)
अथ अपास्तदोषस्य उपात्तगुणस्य च काव्यशरीरस्य चारुत्वोत्कर्षसिद्ध‍ये प्राप्‍तकालः अलङ्कारयोग उच्यते। यतः—
दीर्घापाङ्गं नयनयुगळं भूषयत्यञ्जनश्रीः
तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः।
मध्यक्षामे वपुषि लभते स्थाम कूर्पासलक्ष्मीः
श्रोणीबिम्बे गुरुणि रशनादामशोभां बिभर्ति॥१॥
अलङ्काराश्च त्रिधा— बाह्याः, आभ्यन्तराः, बाह्याभ्यन्तराश्च। तेषु —
बाह्या वस्त्रमाल्यविभूषणादयः।
आन्तरा दन्तपरिकर्मनखच्छेदालककल्पनादयः।
बाह्याभ्यन्तराः स्‍नानधूपविलेपनाञ्जनमुखवासताम्बूलोपयोगादयः शरीरे।
काव्यशरीरेऽपि —
१. वस्त्रमाल्यभूषणादिस्थानीया जात्यादयः शब्दालङ्काराः।
२. दन्तपरिकर्मादिस्थानीयाः स्वभावाख्यानादयः अर्थालङ्काराः।
३. स्‍नानधूपविलेपनादिस्थानीया उपमादयः उभयालङ्काराः बाह्याभ्यन्तरोभयालङ्कारव्यपदेशं लभन्ते।
(१. शब्दालङ्काराः —२४)
ये शब्दमेव व्युत्पत्त्यादिना भूषयन्ति ते शब्दालङ्काराः चतुर्विंशतिः —
'जातिः, गतिः, रीतिः, वृत्तिः, रचना, घटना, मुद्रा, छाया, युक्तिः, उक्तिः, भणितिः, पठितिः, श्रव्यत्वं, प्रेक्ष्यत्वम्, अभिनेयत्वम्, अध्येयत्वं, वाकोवाक्यं, प्रश्‍नोत्तरं, प्रहेलिका, गूढं, चित्रं, श्लेषः, यमकम्, अनुप्रास' इति। तेषु —
(१. जातिः —६)
संस्कृतप्राकृतादिर्जातिः। सा षोढा— शुद्धा, मिश्रा, सङ्कीर्णा, साधारणी असाधारणी, अपभ्रष्टा चेति। तत्र — शुद्धा यथा—
स एष भुवनत्रयप्रथितसंयमश्शङ्करो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम्।
अनेन किल निर्जिता वयमिति प्रियायाः करं
करेण परिताडयन् जयति जातहासः स्मरः॥ २॥
मिश्रा यथा—
इति स्तुतगुणः शिवो हरिविरिञ्चिनारायणैः
करोतु भवतां विभुर्भवसमुद्रपोतायितम्।
उमाअ उवणे अवो सअलकज्जकल्लाणिणी
सिवा सिवपरा परं परममङ्गला मङ्गलम्॥ ३॥
सङ्कीर्णा यथा—
अकट—गुमटी चन्द्रज्योत्स्‍ना कलं किल कोइलो
लवइ अ मुहुर्याम्यो वायुर्निवाअर वाइ अ।
अवि सखि अला रक्ताशोकस्तवापि मनोमुदे
नकजनकजं मानेनाद्य प्रियं प्रति जाहुदा॥ ४॥
(अहो मनोज्ञा चन्द्रज्योत्स्‍ना कलं किल कोकिलो
लपति च मुहुर्याम्यो वायुः निर्वारको वाति च।
अपि सखि आगतो रक्ताशोकस्तवापि मनोमुदे
नार्थोनार्थ मानेनाद्य प्रियं प्रति यामः॥)
साधारणी यथा—(रुद्रट. ४.२१)
क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति।
भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति॥ ५॥
असाधारणी यथा—
भीष्मप्रोक्तानि वाक्यानि विद्वद्वक्त्रेषु शेरते।
गोसे तिविञ्छिरिच्छोली तल्ल तूहे विवल्लिदा॥ ६॥
अपभ्रष्टा यथा—
मुद्धे गहणअ गेण्हउ तं धरि मुद्दं णिए हत्थे।
णिच्‍चउ सुन्दरि तुह उवरि मम सुरअप्पहा अत्थि॥ ७॥
(मुग्धे ग्रहणकं (रतमूल्यं) गृहाण त्वं धारय मुद्रां निजे हस्ते।
॥ इति शब्दार्थोभयालङ्कारप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.