अथ
श्रृङ्गारप्रकाशे अष्टमः प्रकाशः
सापेक्षशब्दशब्दशक्तिप्रकाशो नाम
(५. व्यपेक्षा)
तत्रोद्भूतसम्बन्धव्यतिरेकाणां पदार्थानामितरेतरप्रत्याकाङ्क्षा व्यपेक्षा।
सा च सन्निहिते योग्ये च भवति। तद्यथा 'देवो वर्षती' —ति वर्षणक्रियाकर्तारमन्तरेणाभवन्ती सन्निहितं योग्यं च देवमपेक्षते। यत्र तु सन्निहितस्य न योग्यता, तत्र व्यवहितमपि योग्यमेवापेक्षते, यथा प्रविश पिण्डीम् इत्यत्र (न) प्रवेशनक्रिया सन्निहितायामप्ययोग्यायां पिण्ड्यामसम्भवन्ती व्यवहितमपि योग्यं गृहादिकमपेक्षते। पिण्डीमित्येतदपि कर्मपदं प्रविशेत्यस्मिन्नसम्भवद्योग्यमेव भक्षयेत्यादिक्रियापदमपेक्षत इति।
सेयं व्यपेक्षा संक्षेपतः पदार्थानां त्रेधा सम्भवति—
१. आभिधानिकी, २. नैयायिकी, ३. नैषेधिकी च। तत्र —
श्रुतिसमारोप(समाख्या)वाक्यविकल्पसमुच्चयातिदेशादिभिरभिधीयमाना आभिधानिकी।
ऊहविपर्ययविपरिणामायाहारवाक्य (वि)शेषव्यहितकल्पनादिभिरुपकल्प्यमाना नैयायिकी।
वचनासम्भवविरोधकृतार्थपरिसङ्ख्यावधारणादिभिर्निषिध्यमाना नैषेधिकी। तासु —
(१. आभिधानिकी)
आभिधानिकी तावद् यत्र द्वयोः साधर्म्यार्थमावृत्त्या विभक्तिश्रुतिभेदेन च विशेषणविशेष्यनिर्देशः,
१. सा श्रुत्याभिधानिकी यथा— (मेघ. ९९)
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्त्रेणास्त्रद्रवमविरलोत्कण्ठमुत्कण्ठितेन।
उष्णोच्छ्वासं समाधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ १॥
यत्रापि साधर्म्यार्थादेव द्वयोस्तन्त्रेण च विभक्त्यभेदेन च विशेषणविशेष्ययोगः, सा च श्रुत्याभिधानिकी। यथा—
दैवात/दैवादपत्रमच्छायं फलार्थिभिरसेवितम्।
सानुजं शाखिनमिव दृष्ट्वा रामं रुरोद सा॥ २॥1
२. यत्र पदेन वाक्येन वा संज्ञार्थो विधीयते, सा समाख्याभिधानिकी। सा पदेन यथा—(रघु. ६.२१)
असौ शरण्यः शरणागतानामगाधसत्त्वो मगधप्रतिष्ठः।
राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा॥ ३॥
वाक्येन यथा—
सच्चं सण्णा धण्णा जा तइआ केसवेण गिरिधरेण।
गुरुभार—वावडेण वि, अज्जुअच्छं चिरं दिठ्ठा॥ ४॥
(सत्यं संज्ञा धन्या या तदा केशवेन गिरिधरणे।
गुरुभारव्यापृतेनापि ऋज्वक्षं/अनृज्वक्षं चिरं दृष्टा॥)
३. यत्र व्यपेक्षोत्थापकं वाक्यमभिधाय तदुपपादकमभिधीयते, उपपादकं वाभिधाय व्यपेक्षोत्थापकं, सा वाक्याभिधानिकी।
तयोराद्या यथा— (हेमचन्द्रस्य प्राकृतव्याकरणे ४.४२०)
सा उप्पडी गोठ्ठउहि। णोक्खी कावि विसगंठि।
भिडिय पचेल्लिउ सो मरइ॥ ज्जस्स ण लग्गइ लंठि॥ ५॥
(सा उत्पन्ना गोष्ठभुवि नवीना कापि विषग्रन्थिः।
भित्त्वा न पचन् प्रत्युत स म्रियते यस्य न लगति कण्ठे॥)
द्वितीया यथा—
वाणिधमोडिअच्चरुणखओ दारेएं तु न दिठ्ठ।
माएणजहुके मलडोल्लाहिअ इवइठ्ठ॥ ६॥?
४. वैकल्पिकाभिधानप्रभवा विकल्पाभिधानिकी यथा—
अंबरु अंचि समुद्दु तरि भमडहि डोंगरुआणि।
सहि महु पिउ गउ कलहिअउ जेंव रुच्चइ तेंव आणि॥ ७॥
१. दैवमेवातपत्रं रामं दैवात् अपत्रं शाखिनम्, सानुनि जातं वृक्षम्,अनुजसहितं रामम् — रे।
(अम्बरं गच्छ समुद्रं तर भ्रम कान्ताराणि।
सखि मम प्रियो गतः कलहायितो यथा रोचते तथाऽऽनया॥)
५. समुच्चयाभिधानप्रभवा समुच्चयाभिधानिकी यथा—(हेमचन्द्रस्य प्राकृतव्याकरणे ४.३१५)
हिअइ खुडुक्कइ गोरडी गअणि घुडुक्कइ मेहु।
वासारत्ति पवासुअहं विसमा संकडु एहु॥ ८॥
(हृदये शूल्यायते गौरी गगने गर्जति मेघः।
वर्षायां प्रवासिनां विषमं संकटम् एतत्॥)
६. सामान्यविशेषातिदेशप्राप्तधर्माणां यत्राग्रतः पश्चाद्वाभिधानं सातिदेशाभिधानिकी। तत्र सामान्यातिदेशप्राप्तधर्माभिधानमग्रतो यथा—
हिअअ तिरिच्छीयइ संमुह पच्छा गहिअकडक्खास्स।
पहिअ एकेज्जे गोरडी णं चउहट्ट उवच्छ॥ ९॥
॥ इति सापेक्षशब्दशब्दशक्तिप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.