अथ
शृङ्गारप्रकाशे सप्तमः प्रकाशः
केवलशब्दसम्बन्धशक्तिप्रकाशो नाम
तत्र 'अभिधा—विवक्षा—तात्पर्य—प्रविभाग—व्यपेक्षा—सामर्थ्याऽन्वयैकार्थीभाव— दोषहान—गुणोपादानालङ्कार—रसावियोगरूपाः' शब्दार्थयोर्द्वादश सम्बन्धाः साहित्य— मुच्यते। तेषु—
(१. अभिधा)
शब्दस्यार्थाभिधायिनी शक्तिरभिधा।
तया स्वरूप इवाभिधेय प्रवर्तमानः शब्दो वृत्तित्रयेण वर्तते।
ताश्च १. मुख्या, २. गौणी, ३. लक्षणेति तिस्त्रः। तत्र —
साक्षादव्यवहितार्थाभिधायिका मुख्या।
गम्यमानशौर्यादिगुणयोगव्यवहितार्था गौणी।
स्वार्थाविनाभूतार्थान्तरोपलक्षणा तु लक्षणेति।
तथा हि — गौरित्ययं शब्दो मुख्यया वृत्त्या सास्नादिमन्तमर्थ प्रतिपादयति; स एव तिष्ठन्मूत्रतादिगुणसम्पदमपेक्षमाणो यदा बाहीके वर्तते तदा गौणीं वृत्तिमनुभवति। तदाह—
रूढ्या यत्रासदर्थोऽपि लोके शब्दो निवेशितः।
समुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्गतिः॥ १॥ (प्रवा. प्रत्यक्ष ३७)
यदा तु शब्दः स्वार्थतः क्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदाभिधेया— विनाभूतमर्थान्तरं लक्षयति, तदा सा च लक्षणा वृत्तिः। यथा गङ्गायां घोषः प्रतिवसति। अत्र गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्तिः। स च घोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थः स्वार्थाविनाभूतं तटं लक्षयति। तदुक्तम्—
अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या।
सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिष्यते॥ २॥ (तवा. १.४.२३)
प्रत्येकं चैतास्तिस्त्रोऽपि द्विधाभूय पृथक् षोढा भिद्यन्ते। तत्र—
(१. मुख्या)
मुख्या द्विधा— १. तथाभूतार्था, २. तद्भावापत्तिश्च। तयोः —
(१. तथाभूतार्था —६)
तथाभूतार्था षोढा— जातिविषया, व्यक्तिविषया, आकृतिविषया, गुणविषया, क्रियाविषया सम्बन्धविषया चेति। तत्र—
१. गौरश्वः पुरुषो ब्राह्मण इत्यादिर्जातिविषया; यथा—(नच. १.४)
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः।
भवन्ति कस्यचित् पुण्यैर्मुखे वाचो गृहे स्त्रियः॥ ३॥
यथा—
थोरत्थणीएं बहुणो हलाएँ सामाएँ मंदगमणाए।
कोरच्छिपेच्छिरीए पहुप्पए एक्कमहिसीए॥ ४॥
(स्थूलस्तन्या वध्वाः हलायाः श्यामाया मन्दगमनायाः।
कोरक्षिप्रेक्षितायाः प्रभवति एकमहिष्याः॥)
२. अयं, सः, त्वम्, अहम् इत्यादिव्यपदेशार्हार्था व्यक्तिविषया यथा—
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी।
रामा रम्ये वनोद्देशे मया विरहिता त्वया॥ ५॥
(विक्रमो. ४.५१)
यथा वा—
निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि।
नीलोत्पलेषु विमृशति करमर्पयितुं कुसुमलावी॥ ६॥
३. चित्रबिम्बप्रतिमाद्यर्थवाचिन्याकृतिविषया यथा—
इङ्गुदीपादपः सोऽयं शृङ्गिबेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत् समागमः॥ ७॥
(उराच. १.२१)
यथा वा—
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात्।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्द्वश्यतेऽभिनवा॥ ८॥
(शाकु. ३.७)
४. श्वेतः कर्कशः कृशः स्थूल इत्यादिर्गुणविषया यथा— (काव्याद. २.१००)
श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः।
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः॥ ९॥
यथा वा—
ताम्बूलबहलरक्तः प्रियभुक्तो धूसरः सपर्यन्तः।
॥ इति केवलशब्दसम्बन्धशक्तिप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.