अथ
श्रृङ्गारप्रकाशे पञ्चत्रिंशः प्रकाशः
मानानन्तरप्रकाशः
अथ मानानन्तरः।
तत्र रतिप्रकर्षनिमित्ताभिलषणीयालिङ्गनाद्यनवाप्तिहेतवः मानागमप्ररोदनादयः सम्भोगशब्दवाच्याः भवन्ति।
कः पुनरत्र समासः ? षष्ठीतत्पुरुष एव।
का वृत्तिः? प्रथमानुरागादनन्तरवदनुत्सृष्टस्वार्थैवेत्यत्र युक्तम्।
तत्र विस्त्रम्भणादीनां प्रथमानुरागस्य विद्यमानत्वात्। इह तु माननिवृत्तौ मानाव/पगमादयः जायन्ते। अन्वयाद् विशेषणं भविष्यति। तद्यथा— घृतघटः, तैलघटः इति। निषिक्तेऽपि घृते तैले वा (तत्र घटो) विशेषणं भविष्यति।
तद्यथा—(अयं) घृतघटः, अयं तैलघटः इति। भवति हि तत्र या च यावती वा अर्थमात्रा इहापि सर्वं तत्तुल्यमेव, सकषायैरेव वाक्यैर्नायकति (रस्काराँ)स्तृदन्ती(ती) (नायिका) शयनीयं गच्छेत्। किञ्च—
उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या।
हुंहु मुञ्च मम मामिति मन्दं जल्पितं जयति मानवतीनाम॥ १॥
इति मानान्वयः दृश्यते।
ननु च अन्वयग्रहणेनान्वयव्यतिरेकयोः स्मारितोऽस्ति। ततश्च निश्चितमेभिर्मानापगमादिभिर्मानशब्दार्थैरेव भवितव्यम्। तथा हि— प्रथमानुरागानन्तर इत्युक्ते कश्चित् शब्दश्श्रूयते। प्रथमानुरागेत्यनन्तरेति च प्रतीयमानविभागः। अर्थोऽपि कश्चिद् गम्यते। विस्त्रम्भणादिरवधिमत्त्वं च।
मानानन्तर इत्युक्ते कश्चिच्छब्दभागो हीयते कश्चिदुपजायते। कश्चिदन्वयी प्रथमानुरागो हीयते, मानेत्युपजायते, अनन्तरेत्यन्वयी। तेन मन्यामहे यच्छब्दयोगो१ हीयते तस्यासावर्थो, योऽर्थो हीयते य उपजायते तस्यासावर्थोऽर्थ उपजायते, योऽन्वयी तस्यासावर्थो योऽर्थोऽन्वयी।
१. 'यच्छन्दगो' इति राघवः, यच्छब्दयोगो जो.
नैवं, यतोऽनन्यथासिद्धाभ्यामेवान्वयव्यतिरेकाभ्यां शब्दार्थयोः सम्बन्धा— वधारणम्, अनन्यथासिद्धौ चेमौ। तथा हि यत्र बृंहितं हीयते, हेषितमुपजायते रेणुचक्रमन्वयि तत्र हस्तिनो हीयन्ते पिपीलिकान्वयिन्यः; न चैतावता रेणुचक्रस्य पिपिलिका अन्वयिन्यो भवन्ति, यत्र वा क्षीरं हीयते दध्युपजायते पात्रमन्वयि तत्र माधुर्यं हीयते अम्लतोपजायते तृप्तिरन्वयिनी। न चैतावता पात्रस्य तृप्तिः कार्या भवति। अवधृतं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते। यथा लोकेऽवधि (बधिरोऽ)पि चक्षुष्मानालोकयति, सत्यपि श्रोत्रे उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुः—श्रोत्रसन्निधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्य। यस्य च केवलस्य योऽर्थोऽवधृतः पदान्तरसन्निधानेऽपि स एव। न हि रसनमसन्निधौ दर्शनस्य, मधुरादिव्यञ्जकं दर्शनसन्निधौ नीलादिव्यक्तिसामर्थ्यं प्रतिलभते। प्रथमानुरागशब्दस्य च केवलस्योत्कण्ठादिषु मानशब्दस्येर्ष्यायितादिषु अनन्तरशब्दस्य पुनरवधिमत्स्वेव सामर्थ्यमवधृतम्। तेषां तावानेवार्थो भवति, यः पुनः पदयोरितरेतरोपश्लेषात् विस्त्रम्भणादिर्मानशैथिल्यादिर्वा अवधिमद्विशेषोऽभ्यधिकः प्रतीयते वाक्यार्थः स भवतीति।
(१)
के पुनर्मानशैथिल्यादयः ?
(१)मानशैथिल्यं, (२)मानापगमलिङ्गानि, (३)मानापह्नवः, (४)मानापगमः,
(५)प्ररोदनं, (६)प्रियाभ्युपपत्तिः, (७)मुधाप्रतिषेधः, (८)परिसान्त्वनानि, (९)चित्रचाटूक्तयः
(/चाटुक्तयः), (१०) स्खलितगोपनानि, (११)प्रणिपातः, (१२)प्रियोत्थापनानि,
(१३)अश्रुप्रमार्जनं, (१४)मानशेषः, (१५)अपराधस्मरणं, (१६)प्रेमवैमनस्यं(मानवैमनस्यानि),
(१७)स्तनोत्कम्पः, (१८)निःश्वसितानि, (१९)स्वेदरोमाञ्चौ, (२०)कपोलोष्ठस्पन्दनानि,
(२१)मुखप्रसादः, (२२)व्याजशपथाः, (२३)वक्रवीक्षितानि, (२४)उपालम्भः,
(२५)प्रत्युत्तराणि, (२६)अवज्ञाभ्रंशः, (२७)प्रेमाविर्भावः, (२८)प्रेमालिङ्गनानि, (२९)प्रियोपरोधः,
(३०)श्रृङ्गारवृद्धिः, (३१)हठकचग्रहः, (३२)प्रसह्याश्लेषः, (३३)पाणिताडनं,
(३४)पादाभिघातः, (३५)दयितयातना, (३६)प्रत्यनुनयः(/प्रत्यायनम्), (३७)प्रेमवैकृतानि,
(३८)लज्जागमः, (३९)मानरामणीयकानि, (४०)विस्त्रम्भसम्भाषा, (४१)मानासक्तिः
(/मानशक्तिः), (४२)मानप्रतिपादनं, (४३)सखीपरिहासः, (४४)मानानुशयः,
(४५)माननिन्दा, (४५)मानानुचिन्तनं, (४७)मानप्रध्वंसः, (४८)मानपुनर्भाव' इति। तेषु—
(१) देशकालोत्कण्ठादिभिर्मानापचयो मानशैथिल्यम्, यथा—(गास. १.७४)
पुदृढमण्णुदूमिआएँ वि गहिओ दयिअम्मि पेच्छह इमाए।
ओसरइ वालुआमुट्ठिउ व्व माणो सुरसुरंतो॥ २॥
(प्रौढ/ दृढमन्युदूनयापि गाढं गृहितेऽ नया पश्यत दयिते।
अपसरति वालुकामुष्टिरिव मानः सुरुसुरायमाणः॥)
अ/उव्वहइ दइअगइ/हिआहरोज्ज/ट्ठज्झिज्जंतरोसपडिराअं/ यं।
पाणोसरंतमइरं व पलिह/ फलिअचसअं महुं बाला॥ ३॥
(उद्वहति दयितगृहीताधरोष्ठक्षीयमाणरोषप्रतिरागम्।
पानापसरन्मदिरमिव स्फटिकचषकं मुखं बाला॥)
(गौड. ६९०)
(२) गच्छतो मानस्य चिह्नानि मानापगमनलिङ्गानि, यथा—(गास. २.८८)
णेउरकोडिविलग्गं चिहुरं दइअस्स पआपडिअस्स।
हिअअं पउत्थमाणं उम्मोअंति च्चिअ कहेइ॥ ४॥
(नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य।
हृदयं मानप्रवृत्तमुन्मोचयन्त्येव कथयति॥)
आलोक्य प्रियतमंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या।
तन्नूनं पदमवलोकयाम्बभूव मानस्य द्रूतमपयानमास्थितस्य॥ ५॥
(माघ. ९.८४)
(३) मानगोपनं मानापह्नवो यथा—
दत्ता वाचः प्रकृतिमधुराः पूर्ववत् प्रीतिरम्या न्यस्ता दृष्टिर्वदनशशिनो दर्शितश्च प्रसादः।
॥ इति मानानन्तरप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.