॥ अथ आनन्तर्यप्रकाशः ॥
अथ
शृङ्गारप्रकाशे चतुस्त्रिंशः प्रकाशः
आनन्तर्यप्रकाशः
अथानन्तर्यार्थः आनन्तर्यार्थविशेषणं च उच्यते। तत्रानन्तरः प्रथमानुरागादिः। पश्चात्कालभाविनश्चत्वारः प्रथमानुरागानन्तरादयः सम्भोगा अनन्तरा एव।
आनन्तर्यं यथा— षडेव गुणाः षाड्गुण्यं, चत्वार एव वर्णाः चातुर्वर्ण्यम् इति।
तस्य चार्थो हेतुफलभावेनावतिष्‍ठमानो रतिप्रकर्षणपर्यन्तः कान्ताविस्रम्भण— मानशैथिल्यप्रियागमनवार्ताप्रियसंदर्शनादिर्वक्ष्यमाणलक्षणः क्रियाकलापः।
कथं पुनः क्रियायाः साध्यैकस्वभावायाः साधनत्वम?
नेह तीर्थान्तरदर्शनानुरोधी पारमार्थिकभावः।
साध्यसाधनव्यवहारोऽपि पारमार्थिको लोकव्यवस्थानुविधायी। लोकश्च क्रियामपि पदार्थान्तरोपजनने व्यापारवतीं करोति। क्रिया हि द्रव्यं विनयति नाद्रव्यमिति (कौटिल्यः)। पूर्वा च क्रिया उत्तरस्याः साधनं; तथा चैतन्यं सन्दर्शनस्य, दर्शनं प्रार्थनायाः, प्रार्थना अध्यवसायस्य, अध्यवसायः प्रारम्भस्य, प्रारम्भः समागमस्य, समागमः सम्भोगस्य, सम्भोगः सुखावाप्‍तेरिति।
किं विशेषणम् अव्युच्छिन्नरत्युत्पत्तिसन्तानावच्छेदे हेतुविस्रम्भवत् विस्रम्भणादिशब्दाभिधेय एव प्रारब्धसाध्यसिद्ध‍यवसानः कालविशेषः, तस्य च क्रियात्मनोऽपि क्रियावच्छेदकत्वं, क्रियावच्छेद्यत्वं च दर्शितम्, पुरस्तात् 'क्रियावच्छेदहेतुं वा क्रियावच्छेद्यमेव वा कालात्‍मानमनाश्रित्य व्यवहर्तुं न शक्यत' इति।
तत्र प्रथमानुरागानन्तरे रतिप्रकर्षनिमित्ताभिलक्षणीयाद्यालिङ्गनान्यवाप्‍तिहेतवो विस्रम्भशयनोपक्रमादयः समाननायकयोः परिजनादेश्च चेष्‍टाविशेषाः सम्भोगवाच्या भवन्ति।
कः पुनरत्र समासः?
षष्‍ठीलक्षणस्तत्पुरुषः 'प्रथमानुरागस्यानन्तरः प्रथमानुरागानन्तर' इति; कालवृत्तिरनुत्सृष्‍टस्वार्था; न ह्यत्र नायकौ मिथः सङ्गतावपि प्रथमानुरागमुत्सृजतः। युक्तं पुनर्यदनुत्सृष्‍टस्वार्थपरार्थाभिधानरूपा वृत्तिः स्यात्। अवश्यं ह्यनेन परस्यार्थमभिदधता स्वार्थ उत्स्रष्‍टव्यः।
बाढं युक्तम्। एवं हि दृश्यते लोके भिक्षुको यद्‌द्वितीयां भिक्षामासाद्य पूर्वां नोत्सृजति। सञ्चयायैव यतते। एवं तर्हि द्वयोर्द्विवचनं प्राप्‍नोति।
कस्या विभक्तेः? षष्‍ठ्याः।
न षष्‍ठीसमर्थो नान्तरः। तर्हि प्रथमायाः।
न प्रथमासमर्थः प्रथमानुरागः, सम्बन्धाधिक्यात्। अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति सामर्थ्यं भविष्यति।
नैवम्— प्रथमानुरागानन्तर इत्येतस्मात् सर्वदा यद्‌विभक्त्योत्पत्तव्यं, तेन च समुदायेनैकोऽर्थपिण्डो मृत्पिण्ड इवाविभागापन्ना पांसूदकविभागोऽवयवार्थशक्त्यनुगृहीतं (/हीतः) पृथग्व्यपदेश्यावयवशक्तिरभिधीयते। तस्मिंश्च समुदायार्थे एकत्वं समवेततोऽविद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भवति।
के पुनर्विस्रम्भणादयः?
((१). विस्रम्भणम्, (२) उपक्रमः), (३) विस्रम्भः, (४) प्रेक्षोदीक्षणं, (५) परिहारः, (६) परिहारविलासाः, (७) कन्दुकक्रीडा, (८) केलीद्यूतानि, (९) ऋतूपयमः, (१०) ॰ ॰ ॰ चारः, (११) समायातं२, (१२) कालावस्थानुभवः, (१३) पूर्वाह्‍िणकं, (१४) माध्याह्निकं, (१५) आपराह्‍िणकम्, (१६) अस्तमयः(अस्तः), (१७) सन्ध्या, (१८) तमः, (१९) चन्द्रोदयः, (२०) ज्योत्स्‍ना, (२१) प्रादोषिकं, (२२) निशीथः, (२३) रात्रिपरावृत्तिः, (२४) प्रभातिकं, (२५) वनविहारगमनं, (२६) वनविहारः, (२७) पुष्पापचयः, (२८) श्रमानुभवः, (२९) प्रच्छायादिसेवा, (३०) जलक्रीडा, (३१) नेपथ्ययोगाः(नैपथ्यप्रयोगाः), (३२) क्रीडापर्वतविहारः, (३३) एकशाल्मली, (३४) नवलतिका, (३५) पाञ्चालानुयानं(/तं), (३६) नवपत्रिका, (३७) कदम्बयुद्धानि, (३८) विसखादिका(अभ्यूषखादिकेक्षुभक्षिका)३, (३९) इन्द्रोत्सवः, (४०)कौमुदीप्रचारः, (४१) यक्षरात्रिः, (४२) अष्‍टमीचन्द्रकः, (४३) कुन्दचतुर्थी, (४४) सुवसन्तः (/सुवसन्तकः), (४५) सहकारभञ्जिका, (४६) दोलाविलासः, (४७) उदकक्ष्वेलिका, (४८) मदनोत्सवः, (४९) गृहप्रत्यागमनं, (५०) सहायव्यापारः, (५१) प्रसाधनग्रहणं, (५२) गोष्‍ठीविहारः, (५३) वासगृहोपगमनम्, (५४) अभिसारिकाप्रतीक्षणं, (५५) दूतीविसर्जनं, (५६) स्वयं वा गमनम्, (५७) आगतोपचारः, (५८) परिचरणं, (५९) विसर्जनं, (६०) कञ्जुकादिमोक्षः, (६१) रतारम्भः, (६२) रतं, (६३) रतावसानं, (६४) निद्रानुभव इति चतुष्षष्‍टिः। तत्र—
१. द्र. पृ. १५५० । २. 'कन्दुकक्रीडा, केलीद्यूतानि, ऋतूपयमः॰॰॰चारः, समायातम्' इत्येतेषामुदाहरणानि नोपलभ्यन्ते। ३. द्र. पृ. १५६७ ।
(१) समागतायाः सम्प्रयोगार्थः प्रश्वासनापूर्वरङ्गो विस्रम्भणं यथा—(सक. ५.९०)
कस्य नो कुरुते बाले पिपासाकुलितं मनः।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः॥ १॥
अक्षि ते पुष्परजसा वातोद्ध‍ूतेन दूषितम्।
मुखानिलस्य मे तन्वि! तदर्पयितुमर्हसि॥ २॥
निश्‍च्योतन्ते सुतनु! कबरीबिन्दवो यावदेते यावन्मध्यस्स्तनमुकुलयोरार्द्रभावं जहाति।
यावत् सान्द्रस्वतनुपुलकोद्भेदवत्यङ्गयष्‍टिः तावद् गाढं वितर सकृदप्यङ्कपालिं प्रसीद॥ ३॥
(मामा.८.२)
दग्धं चिराय मलयानिलचन्द्रपाते सन्तर्पितं तु परिरभ्य वपुस्त्वया मे।
आमत्तकोकिलरुतव्यथिता तु हृद्याम् अद्य श्रुतिः पिबतु किन्नरकण्ठि! वाचम्॥ ४॥
(मामा. ८.४)
(२) विस्रब्धायाः सम्प्रयोगार्थमभियोगातिशयत उपक्रमो यथा— (उराच. १.३४)१
जीवयन्निव समूढसाध्वसस्वेदबिन्दुरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः॥ ५॥
अपरिक्षतकोमलस्य यावत् कमलस्येव नवस्य षट्पदेन।
अधरस्य पिपासता मया ते सदयं सुन्दरि! गृह्यते रसोऽस्य॥ ६॥
(शाकु. ३.१२)
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः।
तद्‌दुकूलमथ चाभवत् स्वयं दूरनिःश्वसितनीविबन्धनम्॥ ७॥
(कुसं. ८.४)
शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया।
शिक्षितं युवतिनैपुणं तया यत् तदेव गुरुदक्षिणीकृतम्॥ ८॥
(कुसं. ८.१७) १. 'आकरो मृग्य' इति रा., पृ. १७११
(३) परिचयाभ्यासात् साध्वसाद्यपगमो विस्त्रम्भो यथा— (कुसं. ८.१३,१४)
वासराणि कतिचित् कथंचन स्थाणुना पदमकार्यत प्रिया।
जातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम्॥ ९॥
सस्वजे प्रियमुरोजपीडिता प्रार्थितं मुखमनेन नाहरत्।
मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा॥ १०॥
रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम्।
॥ इति आनन्तर्यप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.