अथ
श्रृङ्गारप्रकाशे षट्त्रिंश: प्रकाशः
सम्भोगावस्थाप्रकाशः
अथानन्तर्यार्थतद्विशेषणविशेषभूता एव क्रियाकालरूपविशेषान्तःपातिन्यः सत्ताभिव्यक्त्यनुबन्धप्रकर्षसांज्ञिकाः चतुर्णामपि सम्भोगानां अवस्थाः चतस्र उपवर्ण्यन्ते। तत्र
१. नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथस्समागमे प्रागुत्पन्न: तदानीन्तनो रत्याख्यः स्थायी भाव इति रतेः सत्तासंज्ञा प्रथमावस्था,
२. अभिलषणीयालिङ्गनादीनामवाप्तौ सत्यां समुपजायमानैः हर्षधृतिस्मृति— भिर्व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमनजलक्रीडापर्वतोपवेशप्रसाधन— ग्रहणमधुपानेन्दूदयादिभिरुद्दीपनविभावैरुद्दीप्यमानः, सविभ्रमभ्रूकटाक्षविक्षेपालाप— सम्भ्रमस्मितादिभिरनुभावैरभिव्यज्यमानः इति अभिव्यक्तिसंज्ञाका द्वितीयावस्था।
३. ईप्सितमासादयन् जिहासितं जिहासानः इति अनुबन्धसंज्ञाका रतेः तृतीयावस्था।
४. प्राप्तप्राप्यप्रकर्षावस्थः सम्भोगः श्रृङ्गाराख्यां लभत इति प्रकर्षसंज्ञाका रतेः तुरीयावस्था।
तासु च यथाक्रमं संक्षेपादयः समुपसर्गार्थाः भोगशब्दार्थेन संबध्यन्ते।
१. संक्षिप्तो भोगः सत्तावस्थायां,
२. सङ्कीर्णो भोगः अभिव्यक्तावस्थायां,
३. सम्पूर्णो भोगः अनुबन्धावस्थायां,
४. सम्यग्भोगः प्रकर्षावस्थायामिति।
स सर्वोऽपि द्विधा— सामान्यरूपो विशेषरूपश्च।
१. सामान्यरूपः पशुमृगादीनाम्।
२. विशेषरूपो नागरकनायकादीनाम्।
(१. सामान्यरूपः पशुमृगादीनाम्)
तयोराद्या यथा—(कुसं. ३.३६—३९)
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः।
श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः॥ १॥
ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः।
अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा॥ २॥
गीतान्तरेषु श्रमवारिलेशैरीषत्समुच्छ्वासितपत्रशोभम्।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्ब॥ ३॥
सम्प्राप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुर् विनम्रशाखाभुजबन्धनानि॥ ४॥
अत्र च सरीसृपमृगपशुपक्षिपुरुषाभासतस्थिवद्विशेषाणां निसर्गसिद्धयैव रतोत्सवो दीयते, यथोच्यते—
वृथोपदेशस्सिद्धो हि कामोऽनाख्यातशिक्षितः।
स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणाम्॥ ५॥
कमलिनीनलिनी दयितं विना न सहते सह तेन निषेविताम्।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्॥ ६॥
(रुद्रटस्य काव्यालङ्कारे ३.५७)
दन्तच्छदारुणिमरञ्जितकान्तदन्त— मुन्नम्य चुम्बति हसद्वदनः प्रियायाः।
काम्पिल्यकप्रसवपाटलगण्डपालि— पाकारुणस्फुरितदाडिमकान्ति वक्त्रम्॥ ७॥
(मामा. ९.३१)
पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः।
गर्वायते कुरबकोऽभिहतः कुचाभ्या— मालोकितस्तिलक उत्कलिको विभाति॥ ८॥
सा च रतेः सत्ता अभिलषणीयालिङ्गनादिसत्यां समुपजायमानैर्हर्षधृतिस्मृति व्यभिचारिभावैः संसृज्यते। तदिह 'सम्प्राप्तपुष्पस्तबकस्तनीभ्य' (कुसं. ३ गतेन) इत्यादिना प्रतिपादयन्ति, तत्र हि वयस्सन्धौ हर्षादयो जायन्ते। यदाह—(मामा. ९.२९वत्)
तदा किञ्चित्किञ्चित् कृतपदमहोभिः कतिपयै— रथाग्रे विस्तारिस्तनमुकुलमासीन्मृगदृशः।
वयस्स्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारश्चलति हृदि मुग्धश्च वपुषि॥ ९॥
जाताश्च तेऽधरस्फुरणादिभिर्ज्ञायन्ते, तथा हि—(मामा. २.५)
नीवीबन्धोच्छ्वसनमधरस्पन्दनं दोर्विषादः स्वेदश्चक्षुर्मसृणमधुराकेकरस्स्निग्धमुग्धम् ।
गात्रस्तम्भः स्तनमुकुलयोरुत्प्रबन्धः प्रकम्पो गण्डाभोगे पुलकपटलं मूर्च्छना चेतना च॥ १०॥
रतिप्रकर्षादीन्यालिङ्गनानि। तदिह 'स्फुरत्प्रवालोष्ठमनोहराभ्य' (कुसं. ३. गतेन) इत्यनेन दर्शयति। अभिज्ञाता ऋतूद्यानोपगमनजलक्रीडाक्रीडापर्वतप्रवेशमधुपानेन्दू— दयादिभिरुद्दीप्यते।
तत्रेह ऋतुः प्रकरणाद् गम्यते तद्यथा— (कुसं. ३.२४,२६,२९,३२,३३)
तस्मिन् वने संयमिनां मुनीनां तपस्समाधिप्रतिकूलवर्ती।
सङ्कल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे॥ ११॥
असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि।
पादेन नापैक्षत सुन्दरीणां सम्पर्कमाशिञ्जितनूपुरेण॥ १२॥
बालेन्दुवक्राण्यविकासभावाद् बभुः पलाशान्यतिलोहितानि।
॥ इति सम्भोगावस्थाप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.