॥ अथ सम्भोगप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे त्रयस्रिंशः प्रकाशः
सम्भोगप्रकाशः
अथातो विप्रलम्भापादितप्रकर्षसम्पदः सम्भोगस्य स्वरूपमुपदेक्ष्यामः।
(सङ्गमपदार्थः)
कः पुनरयं सङ्गमो नाम?
ननूक्तं नायकयोः प्रगसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथस्समागमे प्रागुत्पन्नः तदानीन्तनो वा रत्याख्यः स्थायी भावः अभिलषणीयालिङ्गनादीनामवाप्‍तौ सत्यां समुपजायमानैः हर्ष—धृति—स्मृति—मतिभिः व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमनजलक्रीडा—क्रीडापर्वतोपवेश—प्रसाधनग्रहणमधुपानेन्दूदयादिभिरुद्दीपन— विभावैरुद्दीप्यमानः सविभ्रमभ्रूकटाक्षविक्षेपालापसम्भ्रमस्मितादिभिरनुभावैरभिव्यज्यमानः ईप्सितमासादयन् जिहासितं जिहानः प्राप्‍तप्राप्यप्रकर्षावस्थः सम्भोगश्रृङ्गाराख्यां लभते।
स चतुर्धा—'१. प्रथमानुरागानन्तरः, २. मानानन्तरः, ३. प्रवासानन्तरः, ४. करुणानन्तरः' इति।१
संज्ञा तु नैषा परिभाषिक्येव प्रकृतिप्रत्ययोपसर्गविभागकल्पनायामन्वर्थत्वस्यापि विद्यमानत्वात्। तथाहि—
संक्षेप—सङ्कर—सम्पूर्णत्व—सम्यक्त्वद्योतकसमुपसर्गपूर्वस्य पालनकौटिल्या— भ्यवहारानुभवकर्मणो भुजेः भावे कर्तर्यकर्तरि च कारके संज्ञायां सर्वकालेषु घञि सम्भोग' इति रूपं भवति।
कः पुनरिह प्रकृत्यर्थः, क उपसर्गार्थः, कः प्रत्ययार्थः, को वा प्रत्ययोत्पत्तिकालः इति?
उच्यते—संज्ञाशब्दानां यथाकथंचित् व्युत्पत्तिरिति दर्शने संज्ञानुरोधादेव योऽर्थो यत्रोपपद्यते स तत्रैव व्यवह्रियत इति। तत्र—
प्रकृत्यर्थविभागे चत्वारो धात्वर्थाः पालनादयः। यथा—'पृथिवीं भुनक्ति रजा; मूलानि विभुजति रथः; ओदनं भु़ङ्क्ते माणवकः; सुखमुपभुङ्क्ते नागरिकं इति।'
१. द्र. प्रथमानुरागानन्तरः ३४प्रकाशे; मानानन्तरः, प्रवासानन्तरः करुणानन्तरश्‍च ३५प्रकाशे।
चत्वारश्चोपसर्गार्थाः संक्षेपादयः। यथा— सम्प्रीयते कथा गाथकेन, संसृज्यते सूपो लवणेन, संह्रियते याग उपकरणैः, सम्प्रयुज्यते दयितः कान्तयेति।
प्रत्ययार्थविभागेषु पुनरष्‍टौ प्रत्ययार्थाः— 'भावो, हेतुः, षट् च कारकाणि'। यथा विलसनं विलासः, विशतः१ प्रयुङ्क्त इति वेशः, सरति कालान्तर इति सारः, प्रास्यतेऽसाविति प्रासः, दीर्यते एभिरिति दाराः, दासन्त्यस्मा इति दासाः, उपेत्याधीयतेऽस्मादित्युपाध्यायः, प्रसीदन्त्यस्मिन्नयनमनांसीति प्रसादः' इत्यष्‍टौ च।
प्रत्ययोत्पत्तिकाला भूतो, वर्तमानो, भविष्यन्। अव्यक्तो भूतविशेषो, वर्तमानविशेषो, भविष्यद्‌विशेषो, व्यक्तविशेष इति। यथा पाकोऽभूत्, पाको भवति, पको भविष्यति, पाको भवेत्, पाको बभूव, पाको न भवति, पाको भविता, पाकस्तत्र भूयादिति।
अथैतेषां मिथः समवायोपादानापेक्षितप्रथमानुरागाद्यानन्तर्यस्तिर्यगादिसाधारणः सामान्येनैव पालनसंक्षेपाद्यर्थविषयः सम्भोगशब्दर्थो विवक्ष्यते। तथा चतुर्णामपि भुज्यर्थानां चतुर्णामपि समुपसर्गार्थानां चतुर्ष्वपि प्रथमानुरागानन्तरादिषु सम्भोगेषु, चतसृष्वपि सम्भोगावस्थासु, सर्वैरपि प्रत्ययार्थैरविशेषेण सार्वकालिकः सम्बन्धो भवति। यथा पुनरपेक्षितप्रथमानुरागाद्यानन्तर्यं प्रकृष्‍टनागरकादिनायकविषयो यथावस्थमवस्थापित— संक्षेपादिक्रमः क्रमेण पालनकौटिल्याभ्यवहारानुभवशब्दवाच्यः सम्भोगशब्दार्थो विवक्ष्यते तथा यथाक्रमं चतुर्णामपि भुज्यर्थानां चतुर्णामपि समुपसर्गार्थानां, चतसृष्वपि प्रथमानुरागानन्तरादिषु चतसृष्वपि सम्बन्धाभिव्यक्त्यनुबन्धप्रकर्षसज्ञकसम्भोगावस्थासु चतु्र्ष्वपि तदानन्तर्येषु यथायथमुपसृष्‍टप्रकृत्यर्थविशिष्‍टः प्रत्ययार्थोऽभिनिविशत इति।
तत्र प्रथमपक्षे सामान्ये न सम्भोगार्थविवक्षायामनवेक्षितप्रथमानुरागाद्यानन्तर्य— स्तिर्यगादिसाधारणः पालनकौटिल्याभ्यवहारानुभवलक्षणो भुज्यर्थः। सोपसर्ग— प्रत्ययार्थोऽभ्यन्तरीकृतभूतादिप्रत्ययोत्पत्तिकाल उपसर्गार्थानुप्रविष्‍टसम्बन्धादिचतुरवस्थ उदाह्रियते। तद्यथा—(कुसं. ३.३६—३९)
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां तामनुवर्तमानः।
श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः॥ १॥
१. विशत इति राघवोऽपि
ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः।
अथोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा॥ २॥
गीतान्तरेषु श्रमवारिलेशैरीषत्समुच्छ्‌वासितपत्रशोभम्।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्‍चुचुम्ब॥ ३॥
सम्प्राप्‍तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्‍ठमनोहराभ्यः।
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ४॥
अत्र च प्रियानुवर्तनविषाणकण्डूयनपानोपच्छन्दनस्वाद्‌वाहारदानचुम्बनचाटु— परिष्वङ्गप्रीतिदायी सरीसृपमृगपशुपक्षिपुमाभासतरुवद् विशेषाणामविशेषेण सर्वसाधारणप्रेमपालनार्थो गम्यते। अयमेव च प्रयोज्यरञ्जनाय बुद्धिपूर्वकं प्रयुज्यमानः कौटिल्यार्थोऽपि प्रथते। स्वाभिप्रायनिवृ(र्वृ)त्त्यर्थमुपकल्प्यमानोऽभ्यवहारार्थः सम्पद्यते। प्रेमपारवश्यात्तु स्वयमुपजायमानोऽनुभवशब्दवाच्यो भवति।
उपसर्गोऽपीह पालनार्थमुपकल्प्यमाने संक्षेपार्थमालम्बते। संक्षेपेण ह्येतावानेव प्रेमपालनार्थो भवति। प्रयोज्यरञ्जनाय बुद्धिपूर्वकं प्रयुज्यमाने सङ्करार्थः स्पृशति। अयं चेह बुद्धिसङ्करो यत् प्रयोज्याः कथमनुरज्येरन्निति बुद्धयः सङ्कीर्यन्ते। स्वाभिप्रायनिवृ(र्वृ)त्त्यर्थं प्रवर्तमाने सम्पूर्णत्वमवगाहते। अयं चेह सम्पूर्णतार्थो यदुभयेषामपीन्द्रियाणामानुकूल्येषु (न) स्वेषु स्वेषु विषयेषु गर्धातिशयात् प्रवृत्तिः प्रेमपारवश्यात् स्वयमुपजायमाने सम्यक्त्वार्थमाभिनिविशते। इदं च तत्प्रेमवृत्तेः सम्यक्त्वं नाम येयमालिङ्गनादिष्वनुपदेशपूर्विका स्वाभाविकी स्त्रीपुंसयोरन्योन्य— मनुकूलाभ्युपपत्तिरिति।
१. प्रथमादिश्लोकेषु च पालनादिनियमः 'मधु द्विरेफ' इत्यादि। इदं हि सा प्रेमपालनोपनिषत्, यद् अन्योन्यानुपपत्त्या एकत्र पानभोजनमानुकूल्यतश्च परिचर्योति। तच्च प्रथमश्लोके सहचरीचित्तानुवृत्त्या पुष्पैकचषके मधु पिबन्मधुव्रतः प्रत्याययति। श्रृङ्गकोटिकण्डूयनजनितसुखनिमीलितलोचनां च वामलोचनामवगम्य परिचर्यायाम— पर्याप्‍ततृष्णः कृष्णसारो बोधयति।
२. अथ द्वितीयश्लोके कौटिल्यं, तद्यथा 'ददौ सरःपङ्कजे' त्यादि। इदं च तद्रतेः स्वभावकुटिलत्वमभिव्यक्त्यवस्थायामुन्मिषति, यदेवं नाम प्रेमपरीक्षा प्रवर्तते यद्यहं ते प्रिया तन्मदुच्छिष्टं भुङ्क्ष्व, यद्यहं ते दयितः तद् भुक्तशेषमुपभुङ्क्ष्वेति। तयोरेकमारण्यकस्यारण्यानामशेषभागेषु विशेषसद्म पद्मसरोऽवगाह्य विहरतो हृदयवल्लभस्य यूथाधिपतेरनेकपस्य सरोजरेणुसम्पर्कीपिञ्जरं कषायसुरभिशीतलं पुराणमैरेयानुकारि वा गण्डूषमर्पयन्ती वाशिता शिक्षयति। द्वितीयमपि द्रमिडीदन्तदारितार्द्रक्रमुकफलपालिकोमलं कषायस्वादुविशदमिन्दुकलाखण्डपाण्डु— रमृणालकबलावशेषमात्मनः प्रियतमायै प्रयच्छन् प्रेमवक्रश्चक्रवाकोऽध्यापयति।
३. तृतीयश्लोके अभ्यवहारार्थो यथा—'गीतान्तरेषु' इत्यादि। सोऽयं रतेरभ्यवहारो नाम येयमिन्द्रियाणां विषयेषु गर्धातिशयात् प्रवृत्तिः, सा चेह गीतध्वनिमनोहरे हर्षगद्गदालापे च श्रमजलतुषारशीतलकोमलपरिपाण्डुगण्डमण्डलाभोगे च मदवश— विघूर्णितनयनेन्दीवरे समुल्लसत्पत्रवल्लीविशेषाहरणे च सुधायमानोष्ठपल्लवास्वादे स्वादितमधुविशेषधुरकटुकषाये च स्वेदप्रत्यार्द्रीकृतविचित्रपत्रवर्णकोद्‌ग्रन्थौ पुष्पासव— सुरभिवदनगन्धवदे च सहचरीमुखेन्दौ किम्पुरुषेणाभ्यनुज्ञायमाना सर्वेन्द्रियाह्वादमाज्ञापयन्ती यथोक्तमर्थं ज्ञापयति।
४. चतुर्थश्लोकेऽनुभवार्थो यथा — 'सम्प्राप्‍तपुष्पे'त्यादि। इयमेव सा रतेरनुभवप्रकर्षसीमा यदासादितप्रकृष्टयौवना यथोक्तगुणवती युवतिरुन्मिषत्सात्त्विक— भावा स्वयङ्ग्रहेण दयितमानन्दयति। तत्र च 'सम्प्राप्तपुष्पस्तबकस्तनीभ्य' इति पदेन उपारुढयौवनत्वं लक्षयति। 'स्फुरत्प्रवालोष्ठमनोहराभ्य' इत्यनेन च सात्त्विकाविर्भावमभिधत्ते। 'लतावधूभ्य' इत्यादिकं तु यथावर्णितार्थानुकूलमेवेति।
अथैतेष्वेवोपसर्गार्थसंक्षेपादयः प्रतिपाद्यन्ते। तेषु —
१. पालनसंक्षेपो यथा— 'मधु द्विरेफ' इत्यादि। इदमेव च संक्षेपेण प्रतिपालनम्, यदिच्छानुवृत्त्या सहपानमानुकूल्येन परिचर्येति, तच्चेह पूर्वोत्तरार्धयोरुपलभ्यत इति।
पालनसङ्करो यथा—'ददौ सरः पङ्कजे'त्यादि। स चायं प्रेमपालने कामवामतासङ्करो, यदन्यथा लोके प्रसिद्धमन्यथा प्रसाध्यते। तदिहोभयार्धयोः प्रियतमाभ्यामुच्छिष्टदानेन प्रतीयत इति।१
पालने सम्यक्त्वं यथा—'सम्प्राप्‍तपुष्पे' त्यादि। इदं च तत्प्रेमपालने सम्यक्त्वं योऽयं त्यक्तलज्जाया इव योषितः स्वयंग्राहेण पाणिग्रहोपगूहनप्रकारेष्वभिनिवेशः। स १. अतः परं 'पालने सम्पूर्णत्वं' नास्ति। चेह लतावधूनां लतोवेष्टितकवृक्षाधिरूढाद्यालिङ्गनप्रकारविधानेनानुमीयते। तत्र च लतेव सालं वेष्टयन्ती चुम्बनार्थिनी यन्मुखमवनमयेन्मन्दसीत्कृता तमाश्रिता वा किञ्चिद् रामणीयकं पश्‍येत् तत् लतावेष्टितकम्। चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रामयन्ती वेष्टयन्ती वा पृष्ठसक्तैकबाहुर्द्वितीयेनांसमवनमयन्ती ईषत्प्रताश्वसितकूजिता चुम्बनार्थमेवा— धिरोढुमिच्छेदिति वृक्षाधिरूढम् (कामसू. २.२)। स्तनाभ्यामुरः प्रविश्‍य तत्रैव हारमावेशयेदिति स्तनोपगूढम्। जघनेन जघनमवपीड्य प्रकीर्यंमाणकुसुमकेशहस्ता चुम्बननखदशन— पदप्रयोजनायोपरि लङ्घयेत्। तज्जघनोपगूहनमिति। चुम्बनार्थित्वं चेह स्फुरत्प्रवालोष्ठतयानुमीयते, स्तनभारारोपणं सुजातपुष्पस्तबकावनम्रत्वेन। प्रकीर्यमाण— कुसुमकेशपाशादिकं तु लतावधूनां स्वरूपमेवेति।
२. कौटिल्ये संक्षेपो यथा—'मधु द्विरेफ' इत्यादि। अत्र चायं प्रेमकुटिलतासंक्षेपो लक्ष्यते। यत्र यत्र चञ्चरीकसहचरी मधु पिपासुः कुसुमे परिभ्रमति तत्र तत्रायमपनुदन्निवैनामनुप्रवर्तमानः परिहासेनेव चरति। सारङ्गोऽपि मन्मथार्तिप्रवर्तिता— भिमर्शस्पर्शसुखनिमीलिताक्षीं विषाणाग्रेण नखमुखेनेव वल्लभामुल्लिखन् विकत्थमानः कामवामतां प्रकटयति।
कौटिल्ये सङ्करो यथा—'ददौ सरःपङ्कजे'त्यादि। अस्यैवार्थः पालनसङ्करेणैव व्याख्यातः। तत्र हि पालनं कौटिल्येन सङ्कीर्णम्, इह तु कौटिल्यं पालनेनेति। एतावांस्तु विशेषः। पालयन् शुचि स्वादु विशदमनिन्दितं चेदभ्यवहरिष्यामीति मन्यमानः प्रियजनाय प्रयच्छति। केवलं कामवामतया तदुच्छेषयति। कुटिलस्तु मा भूदशुच्यस्वादुपिच्छिला वन्यैरप्यनुरागप्रभ्रंश इति तदुपस्कारे विशेषतः प्रयतमानः तथैवोपपादयति।
कौटिल्ये सम्पूर्णत्वं यथा—'गीतान्तरे'ष्वित्यादि। अत्र चायं कौटिल्यस्य सम्पूर्णभावः। यदा यदासौ गीतेषु प्रयोगविशेषं कर्तुमभिलपति, तदा तदैष तन्मुखं चुम्बन् अमुष्याः प्रेमनिघ्‍नो विघ्‍नमिवाचरति। साप्यायासादिव स्विन्नकपोलभित्तिः, पुष्पासवोपयोगघूर्णिते क्रुधेव नेत्रे घूर्णयन्ती विशेषतोऽस्याः अन्तः प्रमोदमुद्दीपयति।
कौटिल्ये सम्यक्त्वं यथा—'सम्प्राप्‍तपुष्पे'त्यादि अत्र चेदं तत् कौटिल्यस्य सम्यक्त्वं स्वयमवगतभावस्यापि निष्कारणधैर्यावलम्बिनः सुभगमानिनो जनस्य प्रियतमायां योषित्युपेक्षा नाम। सा त्विह लतावधूषु प्रियतमस्वयङ्ग्राहे पल्लवाधरस्फुरणशाखाभुजविनमनोन्नीतभावास्वपि तरूणां मतिस्तन्व्या तयानुमीयते। तदुपज्ञं चैष लौकिकः प्रवादः, यदुत (गास. ४.४)
(जह जह वाएइ पिओ तह तह णच्चामि चंचले पिम्मे) वल्ली वलेइ अंगं ,हावथद्धे वि रुक्खम्मि।
(यथा यथा वादयति प्रियस्तथा तथा नृत्यामि चञ्चले प्रेम्णि) वल्ली वलयत्यङ्गं स्वभावस्तब्धेऽपि वृक्षे॥ ५॥
३. अभ्यवहारसंक्षेपो यथा—'मधु द्विरेफ' इत्यादि। कः पुनरिहेन्द्रियाभ्यवहारस्य संक्षेपार्थः येयं सन्निपत्य विषयग्राहित्वेन फलावाप्‍तिकारिणो जिह्वात्वगिन्द्रिय— योरभीष्टविषयावाप्‍तिः। दृष्टो घ्रातः श्रुतोऽपि वा पदार्थस्तावन्न स्वदते, यावन्नास्वादितः स्पृष्टो वा भवति। स्वादनेऽप्ययं विशेषः। यदिदमनङ्गदीपनस्य मधुनः पानं, तस्य चायं सारो यदभीष्टतमया सहैकपात्रे भवति। एवं स्पर्शनेऽपि एतदेव तत्त्वम्। यदुत प्रियाङ्गेन केनचित् संस्पंर्शः, तस्य चायं विशेषो यदुत्तमाङ्गेन भवति। तस्य चैषा चूलिका, यदेष कण्डूयनव्याजान्नमन्निवैतां भूयो भूयः परामृशति।
अभ्यवहारसङ्करो यथा—'ददौ सरःपङ्कजे'त्यादि। अत्रेदमेवाभ्यवहारस्य सङ्कीर्णत्वम्, यदन्योपभुक्तमन्येनोपभुज्यते, तच्चेह पूर्वार्धे स्त्रीप्रयुक्तं व्यक्तमेव प्रतीयत इति।
अभ्यवहारे सम्पूर्णत्वं यथा—'गीतान्तरेष्वि'त्यादि। अथो पुनरियं सम्पूर्णतार्थः, मुखे हि चुम्बनमुपकल्प्यमानमोष्ठयोः कपोलयोर्नेत्रयोश्च सम्पूर्णं भवति। तच्च यथायथोक्तगुणयुक्तेन मत्तकिन्नरीमुखेऽन्यावयवेषु निरवकाशत्वात् तत्कामिनः किम्पुरुषस्य सम्पूर्णत्वं विगाहते नैवमन्यत्रान्यस्य़ प्रायेण, यदाह—(माघः ४.३८)
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्‍चुम्बन्तं मुखमिह किन्नरं प्रियायाः।
श्लिष्यन्तं मुहुरितरोऽपि तन्निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम्॥ ६॥
इति।
॥ इति सम्भोगप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.