अथ
श्रृङ्गारप्रकाशे द्वात्रिंशः प्रकाशः
करुणविप्रलम्भप्रकाशः
अथातः क्रमप्राप्तं करुणविप्रलम्भमुपदेक्ष्यामः। तस्य च प्रथमानुरागादिभ्यो रागवर्धनत्वादन्तेऽभिधानमित्यभिहितं पुरस्तात्१। भूयश्च विशेषतोऽभिधीयते।
विभावानुभावव्यभिचारिसंयोगाद् प्रकर्षमापद्यमाना२ रतिर्नाम कामश्रृङ्गारख्यां लभते। स तु नित्यनैमित्तिकादिभेदादष्टधोच्यते। तत्र रागवर्धनत्वापेक्षायां नित्याननैमित्तिकः, सामान्याद् विशेषः, प्रकाशात् प्रच्छन्नः, कृत्रिमादकृत्रिमो बलीयान्। भूयोऽपि नैमित्तिकाद् वैशोषिको, वैशेषिकात् प्रच्छन्नः, प्रच्छन्नादकृत्रिम इति सर्वतोऽप्यकृत्रिम एवोत्कृष्यते। स चाहार्यो, यौवनजः, सहजो, विस्त्रम्भजश्चेति चतुर्धा। तत्राहार्याद् यौवनजो, यौवनजात् सहजः, सहजाद् विस्त्रम्भजो बलीयान्।
कामश्रृङ्गारश्च द्वेधा। सम्भोगो विप्रलम्भश्च। तत्राभिलषणीयानामवाप्तौ सम्भोगः, विपर्यये विप्रलम्भः। सम्भोगश्च विप्रलम्भमन्तरेण न प्रकर्षमधिरोहतीति विप्रलम्भस्य सम्भोगात् प्रथममभिधानम्।
विप्रलम्भो हि कामश्रृङ्गारस्य प्राणितम्। स प्रथमानुरागेऽङ्कुरितो, माने पल्लवितः, प्रवासे कुसुमितः, करुणे फलितः, प्रथमानुरागानन्तरादिषु प्रकर्षमापन्नः सम्यगुपभोग्यो भवति। पदात्पदं च प्रतिपद्यमानो विशेषतः स्वदते।
यथा दुग्धाद् दधि स्वादु यथा दध्नोऽम्लषाडवः।
यथाम्लषाडवात् स्वादुरामिक्षैवं रसोदयः॥ १॥
ते च प्रथमानुरागादयो विप्रलम्भाः, तदनन्तरास्तु सम्भोगाः। अनुरागस्तु न तथा इङ्गिताकारादिभिः प्रथमानुरागेणेर्ष्यायितमन्त्रायितादिभिर्मानेनोत्कण्ठावेशकार्श्यादिभिः प्रवासे, यथा व्यसनाभिघातसम्मीलनादिभिरनुभावैः करुणविप्रलम्भे प्रकर्षमापन्नो निष्प्रकम्पतां प्राप्नोति। अतः प्रथमानुरागादीनां विप्रलम्भभेदानां त्रयाणामप्यनन्तरं रागवर्धनतमः करुणविप्रलम्भोऽभिधीयते इति।
कः पुनरयं करुणो नाम।
१. द्र. अत्रैव पृ. १३९६ २. नभावो= 'नभावो' जो, 'नः प्रधानः (स्थायी) भावो' राघवः।
(१. करुणः— १२)
यत्रास्मिन् मिथ्याभिनिवेश इव गुर्वायासकारकेऽपि मूर्खाणां, सर्वाङ्गपरित्याग इवालौकिकेऽपि ब्रह्मविदां, रजःकर्दमक्रीडाविनोद इव वेषदूषकेऽपि पौरपौगण्डानां, महाहवमहीविहार इव बीभत्सभीषणेऽपि शूरसाहसिकानां, प्रियसुहन्नर्मनिर्भर्त्सन इवातिग्राम्येऽपि परिहासिकानां, कुपितकामिनीपार्ष्णिप्रहार इव सुकुमारेऽपि रागिणां, तिमिराभिसारिकावेष इव मलीमसेऽपि चौर्यरतरुचीनां, विलासिनीकिलिकिञ्चितप्रपञ्च इव दीनप्रदर्शनेऽपि नागरिकाणाम्, अतीवानुरज्यते मनः।
(मनः प्रेम)
सामयिकानामुच्यते। प्ररूढस्नेहयोरन्यतरविनाशे अन्यस्य दुःखाभिनिवेशो हृदयदारुणः। स कथं शोकाद् विभिद्यत इति चेत्,
हेतुफलविषयस्वरूपभेदात्। तथाहि— 'रत्येकहेतुः करुणः, प्रीतिदयाद्यनेकहेतुः शोकः, पुनस्सङ्गमफलः करुणः, अपुनस्सङ्गमफलः शोकः, स्त्रीपुंसविषयः करुणः, अस्त्रीपुंसविषयः शोकः, सप्रत्याशरूप: करुणः, निष्प्रत्याशस्वरूपः शोक इत्यन्य एव शोकोऽन्यश्च करुण' इति।
स प्रायेण दैवाश्रयः, पौरुषाश्रयः, देशाश्रयः, कालाश्रयः, स्वरूपाश्रयः, परिमाणाश्रयः, प्रमाणाश्रयः, अनुरागाश्रयः, सम्भोगाश्रयः, विप्रलम्भाश्रयः, नायकाश्रयः, नायिकाश्रय इति द्वादशधा। तेषु—
१. दैवाश्रयः— स्त्रीनिमित्तः, पुरुषनिमित्तः, सहायनिमित्तः, गुरुनिमित्त इति।
२. पौरुषाश्रयः— पुरुषकृतः स्त्रीविषये, स्त्रीकृतः पुरुषविषये, पुरुषकृतः पुरुषविषये, स्त्रीकृतः स्त्रीकृतः स्त्रीविषय इति।
३. देशश्रयो— दिव्यो, मानुषो, दिव्यमानुषो, न/ अदिव्यमानुष इति।१
४. कालाश्रयः— इहजन्मसङ्गमः, अन्यजन्मसङ्गमः, इहान्यजन्मसङ्गमः, प्रेत्यसङ्गम२ इति।
५. स्वरूपाश्रयो— विचिन्तितः, आकस्मिकः, पारमार्थिकोऽपारमार्थिक इति।
१. 'मानुषो न दिव्योऽमानुषो' इति जो. पृ. ११०८, रा. पृ. १६२१ HOS ; द्र. पृ. १४७० २. 'उभयजन्मसङ्गम' इति जो. पृ. ११०८, रा. पृ. १६२१ HOS ; द्र. पृ. १४७१
६. परिमाणाश्रयो— महानणुर्दीर्घो ह्नस्व इति।
७. प्रमाणाश्रयः— दृष्टः, श्रुतोऽनुमितः, शङ्कित इति।
८. अनुरागाश्रयः— श्रेयान्, मध्यमोऽवरः, प्रत्यवर इति।
९. सम्भोगाश्रयः— प्रथमानुरागानन्तर्यो, मानानन्तर्यः, प्रवासानन्तर्यः, करुणानन्तर्य इति।
१०. विप्रलम्भाश्रयः— प्रथमानुरागजो, मानजः, प्रवासजः, करुणज इति।
११. नायकाश्रयो— गुणकृतः, प्रकृतिकृतः, प्रवृत्तिकृतः, परिग्रहकृत इति।
१२. नायिकाश्रयो— गुणकृतः, वयस्कृतश्चेष्टाकृतो धैर्यकृत इति। तेषु—
(१. दैवाश्रयः)
१. दैवाश्रयः स्त्रीनिमित्तः पुरुषे यथा—(कादम्बरीकथासारे ४. १०८)
अयि पापे! महाश्वेते! न तुष्टास्यक्षमालया।
हता मे सुहृदोऽमुष्य प्राणवृत्तिरपि त्वया॥ २॥
२. पुरुषनिमित्तः स्त्रियां यथा—
विचिन्वतीं मामियमद्रिकुक्षौ विकुक्षिनाम्ना भुजगेन दष्टा।
गतासुरास्ते मृगशाबनेत्रा मृगावती हा विधिना हतोऽस्मि॥ ३॥
३. सहायनिमित्तः पुरुषे यथा—(कादम्बकसा. ६. १०६)
इति श्रुत्वा भिन्नः प्रसभमिव शूलाग्रशिखया कदा त्वां पश्येयं कमलमुखि कादम्बरि! पुनः।
वदन्नेवं शोकस्फुटितहृदयः तत्क्षणमसूञ् जहच्चन्द्रापीडस्तरुरिव पपात क्षितितले॥ ४॥
४. गुरुनिमित्तः स्त्रियां यथा— (मामा. १०.१३)
एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव।
को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे॥ ५॥
१. प्रत्यवर प्रवर जो. ११०८ रा. १६२१ ; द्र. पृ. १४
(२. पौरुषाश्रयः)
१. पौरुषाश्रयः पुरुषकृतः स्त्रीविषये यथा—
सा वक्षःपरिवर्तनैकललिता विश्वासभूमिः प्रिया बाला निष्करुणेन मुग्धतपसा दग्धा वराकी मया।
भर्तुर्भक्तिरपेक्षिता ननु पुनः स्त्रीदाहदोषो महाञ् जातं सच्चरितैषिणो बत मम म्लेच्छस्य यन्नोचितम्॥ ६॥
२. स्त्रीकृतः पुरुषविषये यथा—(कादकसा. ६. १०४)
॥ इति करुणविप्रलम्भप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.