॥ अथ प्रवासवर्णनप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे एकत्रिंशः प्रकाशः
प्रवासवर्णनप्रकाशः
अथातोऽवसरप्राप्‍तं प्रवासमुपवर्णयिष्यामः। तत्र प्रथमानुरागादीनां पूर्वः पूर्वो विचित्रः, परः परो रागवर्धन इति विमर्शे विचित्रतया प्रथमानुरागादीनां प्रथम— मभिधानं, रागवर्धनत्वेन मानादीनामनन्तरसिति, मानानन्तरं प्रवासोऽभिधीयते।
कथं पुनः रागवर्धनाद् विचित्रस्य प्राथम्यम्?
तदुच्यते— रागवृद्धेः वैचित्र्यस्यावधातुमशक्यत्वात्। रागान्धो हि वैचित्र्यमवैचित्र्यं वा नावधातुं शक्नोति। यथोच्यते—(कामसूत्रे २.२)
शास्राणां विषयस्तावद् यावन्मन्दरसा नराः।
रतिचक्रे प्रवृत्ते तु नास्ति शास्रं न च क्रमः॥ १॥
रागवृद्धिहेतुत्वाद् वैचित्र्यस्य हेतुः प्रथमं फलमनन्तरं स्यादिति। तदुक्तं—
तैस्तैरुपायैरौचित्याद् वैचित्र्यस्य प्रयोजितैः।
युनां स्नेहोऽभिमानश्च रागयोगश्च जायते॥ २॥
भवतु नाम रागवर्धनतया प्रथमं विचित्रता। विचित्राणां तु किंकृतं मिथःप्राथम्यम्? रागवर्धनानां वा कुतस्त्यमानन्तर्यमिति।
अत्रोच्यते— प्रागसङ्गतयोः सङ्गतवियुक्तयोश्च मानप्रवासकरुणविप्रलम्भाः। प्रथमानुरागस्तु प्रागसङ्गतयोरेवेत्यतः स प्रथममेवाभिधीयते। करुणात्तु करुणोऽनन्तर एव जाते मानप्रवासयोरसम्भव एव। नहि तथाविधेभ्यः संविधानकेभ्यः तथाविधायाम— कृत्रिमायां रागवृद्धौ समुपजाते निष्कैतवे प्रकृष्‍टे च विभ्रमजानुरागे मानप्रवासयोरवकाशः स्यात्। तथात्वे वा नै . . . . योरन्य . .॥ उक्तं च—
कइअवरहिअं पेम्मं णत्थि चिअ मामि माणुसे लोए।
अह होइ कस्स विरहो विरहे होत्तम्मि को जिअइ॥ ३॥
(कैतवरहितं प्रेम नास्त्येव मातुलानि मानुषे लोके।
अथ भवति कस्य विरहो भवति विरहे कस्को जीवति॥)गास. २.२४
(रसक्रमः)
अतोऽपश्चिममेव करुणविप्रलम्भस्य करुणानन्तरसम्भोगस्य वा अभिधानं भवितुमर्हति। मानप्रवासयोस्तु प्रवासान्मानो विचित्रस्त ... विकासात् मा .. विचित्रः। तत्र चेतस्सङ्कोचात्। प्रथमानुरागे हि रागिणश्चित्तं विक्षिप्यते; माने विकसति; प्रवासे सङ्कुचति; करुणे सङि्क्षप्यत इति पूर्वाचार्यवादः। कथं स उपपद्यत इति चेत् — तथाविधप्रथमानुरागनिमित्तस्य सन्निधानात्। यथा हि चुम्बक—भ्रामक—कर्षक— द्रावकै—रयसस्ते ते विकाराः चुम्बन—भ्रमण—कर्षण—द्रवाह्वया जायन्ते; तथा प्रथमानुरागमानप्रवासकरुणविप्रलम्भसन्निधेर्मनसो विक्षेप—विकास—सङ्कोच—सङ्क्षेपा इति। यथा वा जपासूर्यचन्द्रकर्पूरसन्निधेः स्फटिकाश्मनोऽनेकप्रकृतेरेकरूपस्यानुराग— ज्वलन—स्यन्दन—स्फुटना—(नि जायन्ते) ताथा। विक्षेपविकाससङ्कोचसङ्क्षेपाधिष्‍ठितस्य विप्रयोगिचेतसः प्रथमानुरागमानप्रवासकरुणविप्रलम्भानुभावा इति। एतेन प्रथमानुरागादीनां रागवर्धन्तवे तारतम्यमपि परस्परमानन्तर्यहेतुर्व्याख्यातम्। उत्तरोत्तरमुपचीयमानप्रीयियोगं हि प्रियोपचारं चतुरकामिनो मनोभव ॰ ॰ ॰ ॰ ॰ णितव्यहेतुं मन्य/व। तस्मान्मानादनन्तरः करुणात्प्रथमः प्रवास एवाभिधानव्यो भवति।
(प्रवासः)
कः पुनरयं प्रवासो नाम, यस्यैते दयितजातयो नर्म(नाम?)mdash; श्रवणसङ्कीर्तनादिभ्यो बिभ्यतीति।
उच्यते— सत्यनुरागे परस्परं दैवादिजनितदेशान्तरव्यवधानं प्रवासः। स
दैवापत्र उत्तमः।
धर्मापत्रो मध्यमः।
अर्थापत्रः कनिष्‍ठः। तेषु—
दैवापन्नो यथा—(मामा. ९.८)
न यत्र प्रत्याशामनुपतति नो वा रहयति प्रविक्षिप्‍तं चेतः प्रविशति च मोहान्धतमसम्।
अकिञ्चित्कुर्वाणाः पशव इव तस्यां वयमहो विधातुर्वामत्वाद् विपदि परिवर्तामह इमे॥ ४॥
धर्मापतन्नो यथा—(कादम्बरीकथासारे ५.१०७)
जानाम्यात्मानि ते प्रसादमसमं चेतो ममैतत् पदं दातुं नेच्छति किन्तु शासनमिदं नोल्लङ्घनीयं गुरोः।
मन्युस्सम्प्रति सह्यतां पुनरिहागन्तास्मि कादम्बरीं सन्दिश्येति सबाष्पगद्गदमसौ केयूरकं प्राहिणोत्॥ ५॥
अर्थापन्नो यथा—
या विम्बोष्‍ठरुचिर्न विद्रुममणिः स्वप्नेऽपि तां लब्धवान् हासश्रीः सुदृशस्तपोभिरपि किं मुक्ताफलैः प्राप्यते।
तत्कान्तिः शतशोऽपि वह्रिपतनैर्होम्नः कथं सेत्स्यति त्यक्त्वा रत्‍नमयीं प्रयासि दयितां कस्मै धनायाध्वग!॥ ६॥
अथैष त्रिविधोऽपि सामान्यतो विशेषतश्च प्रपञ्च्यमानः प्रायशो द्विपञ्चाशत्प्रकारः प्रथते। तत्र—
(सामान्यतो —२४)
सामान्यतो भूतपूर्वः, अभूतपूर्वः, साधारणः, असाधारणः, सहजरागः, विस्रब्धरागः, प्राप्‍तसमयः, अप्राप्‍तसमयः, स—प्रतिविधानः, निष्प्रतिविधानः, सन्निकृष्‍टः, विप्रकृष्‍टः, सावधिः, निरवधिः, अल्पकालः, दीर्घकालः, सानुबन्धः (संसृष्‍टः), निरनुबन्धः(असंसृष्‍टः), प्रकाशकार्यः, प्रच्छन्नकार्यः, सोपसंहारः, निरुपसंहारः, नायिकानिमित्तः, नायकनिमित्त इति प्रकाराश्‍चतुर्विंशतिः।
(विशेषतः —२८)
दैवापन्नश्चतुर्धा — शापकृतः, पापकृतः, सम्भ्रमकृतः, विभ्रमकृत इति। एवं
धर्मापन्नोऽपि — साभिप्रायः, निरभिप्रायः, सानुतापः, निरनुताप इति।
अर्थापन्नोऽपि — साभ्यनुज्ञः, निरभ्यनुज्ञः, सोपधानः, निरुपधान इति।
दैवधर्मापन्नः — प्रकृतिस्थः, कोमलः, कठोरः, परिणत इति।
दैवार्थापन्नोऽपि — ग्राम्यः, नागरः, उपनागरः, विप्रकीर्ण इति।
धर्मार्थापन्नोऽपि — हितः, अहितः, सुखः, दुःख इति।
दैवधर्मार्थापन्नोऽपि — वृत्तः, आयतः, त्र्यस्रः, चतुरस्रश्चेति॥
अर्थाश्चान्वर्थतो भूतपूर्वादीनामुदीरिताः।
षट्‍‌त्रिंशतः प्रवासानां षोडशानां तु कथ्यते॥ ७॥
यस्मिन्वियोगिनोः कर्म स्वस्थयोरिव जायते।
अनुरागातिरेकाऽपि प्रकृतिस्थः स उच्यते॥ ८॥
यूनोर्यन्नोपजायन्ते मनोमार्दवसूचकाः।
॥ इति प्रवासवर्णनप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.