Loading data... On slow networks this could take a few minutes.
100%
॥ अथ वैधर्म्यतो-मानप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे त्रिंशः प्रकाशः
वैधर्म्यतो-मानप्रकाशः
एवं साधर्म्यवैधर्म्याभ्यामनुरागस्वरूपमभिहितम्। इदानीं वैधर्म्यतो मानस्वरूपमुच्यते। साधर्म्यतस्तु प्रथमानुरागेणैव। तदुक्तम् — 'तस्य चतुर्णामपि विप्रलम्भभेदानां साधारणत्वात् (प्रकर्षहेतुत्वाद्) वा सामान्ये विचित्र' इति (पृ. ११५१—७३)।
वैचित्र्यापेक्षया प्रवासात् प्रथमं मानोऽभिधीयते।
कथं पुनरस्य वैचित्र्यम्? श्रूयताम् —
अयं हि दोषोऽपि मद इव मतङ्गजेषु, विग्रहोऽपि सहकारभाव इव माकन्देषु, कार्श्यादिहेतुरपि तपःप्रबन्ध इव सात्त्विकेषु, प्रियविनो(दोऽपि) त्याग इव वदान्येषु, कटुरपि मरीचावचूर्ण इव भेषजेषु, कलुषोऽपि कज्जलनिवेश इव वनितालोचनेषु, दुरासदोऽपि भ्रमरभर इव प्रसूनसंस्तरेषु, वक्रोऽप्युक्तिविशेष इव कविकाव्येषु, यूनां मनस्सूपजायमानः प्रकर्ष—(हेतवे) प्रेमसम्पदः सम्पद्यते। तदुक्तम्— (सक. ५.१९४)
रइविग्गहम्मि, कुंठीकआओ धाराओ पेम्मखग्गस्स।
अण्णमअ व्व णिसिज्जंति माणसाणीएँ मिहुणाणं॥ १॥
(रतिविग्रहे कुण्ठीकृता धाराः प्रेमखड्गस्य।
अन्नमया इव निशात्यन्ते मानशाण्यां मिथुनानाम्॥)
णूमंति जे पहुत्तं कुविअं दास व्व जे पसाअंति।
ते च्चिव्विअ महिलाणँ पिआ सेसा सामि च्चि/व्विअ वराआ॥ २॥
(गोपायन्ति ये प्रभुत्वं कुपितं दासा इव ये प्रसादयन्ति।
त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः॥) (गास. १.९१)
अंधस्स/अत्थक्करूसणं खणपसिज्जणं सुणिअवअणणिब्बंधो।
उंमच्छरसंतावो पुत्तअ पअवी सिणेहस्स॥ ३॥
(गास. ७.७५)
(अन्तर्हित/अकाण्ड—रोषणं क्षणप्रसादनमलीकवचननिर्बन्धः।
उन्मत्सरसन्तापः पुत्रक पदवी स्नेहस्य॥)
जत्थ ण उज्जागरिओ जत्थ ण ईसा विसूरणं माणो।
सब्भावचाटुअं जत्थ णत्थि, णेहो तहिं णत्थि॥ ४॥
(वल. ३३३)
(यत्र नोज्जागरको यत्र नेर्ष्या विगर्हणं मानः।
सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति॥)
(मानलक्षणम्)
कः पुरनयं मानो नाम? यस्यैष त्रिभुवनेऽपि मानो मान इति महान् महत्त्ववादः।
उच्यते—
द्‍ृष्टश्रुताद्यपराधजन्मा मिथो मिथुनमानसेषु रोषो मानः।
स विषयाश्रयालम्बनभेदादनेकप्रकारः।
यस्मिन्मान उत्पद्यते स विषयोऽप्यलीकाऽप्रियादेरपराधस्य कर्ता, धीरोद्धत— धीरललितधृष्टशठादिनायकप्रकारः।
यस्योत्पद्यते स आश्रयोऽप्यलीकविप्रियादीनां षोढा— धीरधीरोद्धतोदात्ता— दिनायकप्रपञ्चः।
यत उत्पद्यते तदालम्बनम्। व्यलीकं विप्रियाद्यपराधः। तेनानयोर्माने मिथो विपर्ययः, परस्पराश्रयविषयभावश्च व्याख्यातः।
स उत्तमः कनीयान् मध्यमश्च, नायिकानायकोभयाश्रयभेदात्। तेषु — नायिकाश्रय उत्तमः। स यथा—(गास. ७.४७)
परिउच्छिआ ण जंपइ गहिआ विप्फुरइ चुंबिआ रुअ/सइ।
तुण्हिक्का णववहुआ कआवराहेण दइएण॥ ५॥
(परिपृष्टा न जल्पति गृहीता विस्फुरति चुम्बिता रोदिति।
तूष्णीका नववधूः कृतापराधेन दयितेन॥)
नायकाश्रयः कनीयान्। स यथा—(गास. ९.१३५) (वे. २७)
तणुआइआ वराई दिअहे दिअहे मअंकलेह व्व।
बहुलपओसेण तुए णिसंसअ अंधआरिअमुहेण॥ ६॥
(तनुकायिता वराकी दिवसे दिवसे मृगाङ्कलेखेव।
बहुलप्रदोषेण त्वया नृशंसक! अन्धकारितमुखेन॥)
उभयाश्रयो मध्यमः। स यथा—(गास. १.२७)
पणअकुइआण दोण्ण वि अलिअपसुत्ताणॅ माणइल्लाणं।
णिच्‍चल—णिरुद्ध—णीसास—दिण्ण—अण्णाण को मल्लो॥ ७॥
(प्रणयकुपितयोर्द्वयोरप्यलीकप्रसुप्‍तयोर्मानवतोः।
निश्चलनिरुद्धनिःश्वासदत्तकर्णयोः को मल्लः॥)
अथैतेषु
१. मानविषयाश्रयालम्बनभेदाः २. मानजातयः ३. मानविशेषाः
॥ इति वैधर्म्यतो-मानप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.