॥ अथ विप्रलम्भान्वर्थप्रकाशः ॥
अथ
शृङ्गारप्रकाशे चतुर्विंशः प्रकाशः
विप्रलम्भान्वर्थप्रकाशः
तत्र सम्भोगो विप्रलम्भमन्तरेण न प्रकर्षमारोहतीति विप्रलम्भ एव प्रथममुपादीयते।
स च एवमुपजायते—
'नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथो दर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोऽन्यतरानुरागो वा अभिलषणीयालिङ्गनादीनामनवाप्‍तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठा— दिभिर्व्यभिचारिभावैर्मनोवाग्बुद्धिशरीरजन्मभिश्चानुभावैरनुविद्धः १प्राप्‍त— प्रकर्षावस्थो विप्रलम्भश्रृङ्गाराख्यां लभते।
स परस्परानुरागे उत्तमः।
नायिकानुरागे मध्यमः।
नायकानुरागे कनिष्ठः।
तस्य२ भेदा. — 'प्रथमानुराग—मान—प्रवास—करुण'—विप्रलम्भाः।
तेऽपि नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा भवन्ति।
तत्र सङ्गतवियुक्तयोः प्रागसङ्गतयोश्च मानप्रवासकरुणाः।
(१. प्रथमानुरागः)
प्रथमानुरागश्च प्रागसङ्गतयोरेव। तदुक्तम्—'स्त्रीपुंसयोरपूर्वादिदर्शनश्रवणजन्मा रूपगुणवयस्सम्पदुपकारापेक्षस्तदनपेक्षो वा मनःपक्षपातविशेषः प्रथीयान् प्रथमानुरागः'।
१. 'प्राप्‍तप्राप्यप्र.' जो.रा.। २. तस्य विप्रलम्भस्य भेदाः 'प्रथमानुरागविप्रलम्भ इति, मानविप्रलम्भ इति, प्रवासविप्रलम्भ इति, करुणविप्रलम्भ इति प्रत्येकं विप्रलम्भपदान्तपदवाच्या इत्यर्थः, स्वतन्त्रस्य विप्रलम्भस्यानुक्तत्वात्।
सोऽभिलाषादिभेदाच्‍चतुष्षष्टिप्रकारः, नित्यादिभेदादष्टप्रकारः, उच्‍चादिभेदाद् द्विनवत्युत्तरशतप्रकारः, परस्परघातात् साष्टत्रिंशत्सपा(. . .) युतप्रकारः। तेषामेव हीनसमज्यायस्तया मिथो व्यतिषङ्गादनन्तप्रकारः सम्भवतीत्यभिहितं पुरस्तात्।
(२. मानः)
एवं च सति—प्रथमानुरागे तदनन्तरादिसम्भोगे वा दृष्टश्रुतानुमिताऽपराधजन्मा मिथो मिथुनमानसेषु रोषो मानः।
(३. प्रवासः)
सति पूर्वानुरागे सम्भोगेऽपि वा दैवदुर्विपाकादिजन्मा स्त्रीपुंसयोर्विदूर— देशवासः प्रवासः।
(४. करुणः)
प्ररूढस्‍नेहयोश्च दैवदुर्विपाकादिभिरेव एकनिपातेऽन्यस्य दुःखातिरेको हृदयदारुणः करुण इति।
तत्प्रभेदान् पुनरग्रतो यथावसरमुपवर्णयिष्यामः।
(विप्रलम्भस्य प्रकृत्यर्थः)
संज्ञास्तु नैताः पारिभाषिक्य एव, प्रकृतिप्रत्ययोपसर्गविभागकल्पनाया— मन्वर्थस्यापि सम्भवात्। तथाहि—
'डुलभष् प्राप्‍तौ' इत्यस्मात् विप्रशब्दपूर्वत्वे सति विशिष्टार्थवाचिनः सर्वकालेषु 'भावे' (३.३.१८) 'अकर्तरि च कारके संज्ञायां' (३.३.१९) वेति १घञि विप्रलम्भ इति रूपं भवति। तत्रायं लभिः प्राप्‍तावपि पठ्यमानः प्रोपसर्गयोगद् वञ्चने वर्तते। प्र(स्य) प्रकृतिविपरीतार्थवाचकत्वात्, तथा प्रतिष्ठते प्रवसति प्रस्मरतीति। प्राप्‍तिविपरीतश्चार्थो वञ्चनमेव। तथा चानेनैव वञ्चतेरर्थं निर्दिशति 'गृधिवञ्च्योः प्रलम्भने' (१.३.६९) इति। वञ्चनं तु चतुर्धा — '१. प्रतिश्रुत्य अदानं, २. विसंवादनं, ३. कालहरणं, ४. प्रत्यादानमि'ति।
तद् विविधं, विरुद्धं, व्याविद्धं, विप्रतिषिद्धमि'ति विशेषवाचिना व्युपसर्गेणोच्यते॥ तत्र —
१. संज्ञायां वेति=संज्ञायां वस्ति जोशेरः, संज्ञायां वस्ति (घञि?) राघवः भावे अकर्त्तरि=भावे कर्त्तर्यकर्त्तरि च जोशेरः।
(१. प्रतिश्रुत्यादानम्)
प्रतिश्रुत्यादानमित्ययं प्रकृत्यर्थः, विविधमित्ययं चोपसर्गार्थश्च प्रथमानुरागे घटते। तत्र हि इङ्गिताकारादिभिः स्वानुरागप्रकाशनं प्रतिश्रवः।
तस्य च पारतन्त्र्यं च लज्जाभयान्यतरानिच्छादिभिर्विविधमनेकप्रकारम— निर्वहणमेवादानं१ भवति। तत्र
प्रकृत्यर्थो यथा—(मामा. ४.४)
समानप्रेमाणं जनमसुलभं प्रार्थितवतो विधौ वामारम्भे मम समुचितैषा परिणतिः।
तथाप्यस्मिन् दानप्रवणसमयेऽस्याः प्रविगल— त्प्रभं प्रातश्‍चन्द्रद्युति वदनमन्तर्दहति माम्॥ १॥
इत्यादि
उपसर्गार्थो यथा—(मामा. १.३०)
परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च २संतापयति च॥ २॥
(२. विसंवादनम्)
ताप x x x तत्र विसंवाद ॰ ॰ नमित्ययं प्रकृत्यर्थो विरुद्धमित्ययं चोपसर्गार्थो माने सङ्गच्छते। तत्र हि मनोभिलषितालिङ्गनादीनां यथोक्तानामनवाप्‍तिर्विसंवादः।
स च व्यलीकादिजन्मभिरीर्ष्यायितादिभिरुपजायमानो विरुद्ध एव भवति। तत्र— प्रकृत्यर्थो यथा—
सोद्वेगस्य स्खलितवचसो यत्‍नसंस्तम्भिताश्रोः सावेगस्य श्रमजलभृतो दुर्निमित्तस्मितस्य।
भूयोभूयः कृतकघटितभ्रूलताभङ्गहेतो— र्मानस्यास्या रहसि कथितापह्नुतस्यास्ति नार्घः॥ ३॥
१. मेवादानं=मेवावदातं जोशेरः, राघवः। मूलं तु मूलानुसारि अस्मदुपकल्पितम्। २. ताप=मोह रा.जो.
उपसर्गार्थो यथा—
लीलावती चरणचुम्बितमौलिमग्रे कान्तं विधूय विहितागसमुच्‍चचाल।
अत्रान्तरे मुखरनूपुरयुग्ममस्याः सौभाग्यगन्धगजडिण्डिमतां जगाम॥ ४॥
(३. कालहरणम्)
कालहरणमित्ययं प्रकृत्यर्थो व्याविद्धमित्ययं चोपसर्गार्थः प्रवासेऽनुषज्यते। तत्र हि देशविप्रकर्षात् तदैवालिङ्गनादीनामनवाप्‍तिः कालहरणम्।
तच्‍च कालविप्रकर्षोत्कण्ठादिभिरत्यायतं व्याविद्धमेव भवति। तत्र— प्रकृत्यर्थो यथा—(मेघ. १०८)
॥ इति विप्रलम्भान्वर्थप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.