अथ
शृङ्गारप्रकाशे पञ्चविंशः प्रकाशः
साधर्म्यवैधर्म्यप्रकाशः
तत्र वैधर्म्यात् साधर्म्यमेव प्रागभिधातव्यं भवति, महाविषयत्वात्।
किं पुनः प्रथमानुरागस्य साधर्म्यं, किं वा वैधर्म्यम्? इति। तत्र —
साधर्म्यं चतुर्णामपि विप्रलम्भभेदानां सामान्यलक्षणयोगः।
वैधर्म्यं तु सजातीयेभ्यो विजातीयेभ्यश्च भेदप्रतिपादको विशेषलक्षणयोगः इति।
तत्र साधर्म्यसूत्रस्य चत्वारोऽर्थस्कन्थाः—
१. भावस्कन्धः
२. भावजन्मस्कन्धः
३. भावानुबन्धस्कन्धः
४. भावप्रकर्षस्कन्धः इति। तेषु —
नायकयोः प्रागसङ्गतयोः मिथो दर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागः अन्यतरानुरागो वेति भावस्कन्धः।
अभिलषणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठादि— भिर्व्यभिचारिभावैरिति भावजन्मस्कन्धः।
मनोवाग्बुद्धिजन्मभिश्चानुभावैरनुबन्ध इति भावानुबन्धस्कन्धः।
प्राप्तप्राप्यप्रकर्षावस्थोऽपि विप्रलम्भशृङ्गाराख्यां लभत इति, भावप्रकर्षस्कन्ध इति।
एतेनैतदुक्तं भवति,
विषयाश्रयालम्बनसंयोगो भावस्कन्धः,
पश्चादादराभ्यासप्रत्ययोत्पत्तिसंयोगो भावजन्मस्कन्धः,
वेगभावनास्थितस्थापकाख्यवासनासंयोगो भावानुबन्धस्कन्धः,
विभावानुभावव्यभिचारिसंयोगो भावप्रकर्षस्कन्धः।
तदुक्तम् 'भावजन्मानुबन्धप्रकर्षानुरूपास्तावदवस्थाः समृद्धय'१ इति।
१. भावजन्मेति। भावानां पञ्चावस्थाः १३–१४ प्रकाशयोर्वर्णितोः। तदनुसारेणात्र 'भावजन्मानुबन्ध— प्रकर्षानुवर्तनसम्पृक्तयः अवस्थाः' इति पठितुं युक्तमिति राघवः। भावानां जन्मानुबन्धप्रवृद्धि—
तत्र भावस्कन्धे 'नायकयोर्मिथोदर्शनश्रवणाभ्याम्' इत्यनेनास्य सविकल्पक— प्रत्यक्षानुमानोपमानशब्दैतिह्यार्थापत्तिसम्भवाभावप्रमाणव्यापारागोचरवस्तुविषयतामुपदिशति। निर्विकल्पकप्रत्यक्षोऽनेन प्रत्युक्तः, तेन व्यवहाराद् भावाद् दृशिरिह ज्ञानवचनोऽदर्शनार्थः; तेन प्रत्यक्षानुमानोपमानार्थापत्तिसम्भवाऽभावानां दर्शनाख्या, शब्दैतिह्य—श्रुतानुमान— श्रुतोपमानुश्रुतार्थापत्ति—श्रुति(त) सम्भवानां श्रवणाख्या, उभयेषामुभयाख्येति सिद्धं भवति। तथाहि—(वाप. १.१२३)
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते॥ १॥
ततश्चोपजायमानः परस्पराश्रयोऽन्यतराश्रयो वा मिथोविषयः एकविषयो वा दृगालम्बनः श्रुत्यालम्बनो वा प्रमाणभेदः प्रथमानः प्रथते। तत्र—
दर्शनतः षोढा 'प्रत्यक्षानुरागोऽनुमानानुरागः, उपमानानुरागोऽर्थापत्त्यनुरागः, सम्भवानुरागोऽभावानुराग' इति।
श्रवणतेऽपि तावदेव 'शब्दानुरागः, ऐतिह्यानुरागः, श्रौतानुमानिकः, श्रौतोपमानिकः, श्रौतार्थापन्नः, श्रौतसम्भव' इति।
(१. दृगालम्बनानुरागः)
(१.१ प्रत्यक्षानुरागः —६)
तत्राक्षमक्षं प्रति गतं विज्ञानं प्रत्यक्षम्।
तदपि षोढा 'साक्षात्—प्रतिबिम्ब—प्रतिभा—उत्प्रेक्षा—स्मृति—स्वप्न' भेदात्। तत्र—
१. प्रतिविषयाध्यवसायः साक्षात्प्रत्यक्षम्, यथा—(गास. १.९३)
अविअण्हपेच्छणिज्जेण तक्खणं मामि दिट्ठेण।
सिविणअपीएण व पाणिएव तह्ण च्चिअ ण फिट्ठा॥ २॥
(अवितृष्णप्रेक्षणीयेन तत्क्षणं मातुलानि! दृष्टेन।
स्वप्नपीतेनेव पानीयेन तृष्णैव न मृष्टा॥)
संपृक्त्यनुवृत्तिसंज्ञिकास्त्रयोदशे प्रकाशे, चतुर्दशे पुनर्जन्मानुबन्धप्रकर्षसंपर्कानुगमसंज्ञिकाः पञ्च पञ्चावस्थाः प्रतिपादितचराः। इह त्वनुगमः पृथङ्नोक्तः, तस्य प्रकर्षेणैव संग्रहात्। यश्च भाव— स्कन्धस्तस्यापि भावजन्मस्कन्धेन गतार्थयितुं शक्यत्वे तिस्र एवावस्थाः स्युः।
२. प्रत्यक्षस्यैव देशमात्रान्यत्वप्रतिभासः प्रतिबिम्बं ; यथा—(गास. १.४२)
णच्चण—सलाहण—णिहेण पासपरिसंठिआ णिउणगोवी।
सरिसगोविआणँ चुंबइ कवोलपडिमाघअं कण्हं॥ ३॥
(नर्तनश्लाघननिभेन पार्श्वपरिसंस्थिता तरुणगोपी।
सदृग्गोपीनां चुम्बति कपोलप्रतिमागतं कृष्णम्॥)
३. बाह्येन्द्रियनिरपेक्षमदृष्टप्रभवमाकस्मिकमननुभूतानुभूतविषयज्ञानं प्रतिभानं ; यथा—
(शाकु. १.२०)
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥ ४॥
४. परोक्षेऽपि प्रत्यक्षविषये प्रमाणाधिगतवस्तुधर्माध्यारोपणमुत्प्रेक्षा; यथा—
अह सा हिअएण हरिं अ दिट्ठा आरपअ विलासं पि।
॥ इति साधर्म्यवैधर्म्यप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.