॥ अथ प्रातिपदिकप्रकाशः ॥
अथ
शृङ्गारप्रकाशे द्वितीयः प्रकाशः
प्रातिपदिकप्रकाशः
(५. प्रातिपदिकम्)
प्रातिपदिकं त्रिधा—
१. विभक्‍तावयवम्,
२. अविभक्‍तावयवम्१
३. अनुकरणं च। तत्र२
१. विभक्‍तावयं त्रिधा— १. कृद्‍रूपम्, २. तद्धितरूपम्, ३. समासरूपं च। तेषु —
(१. कृद्‍रूपम् विभक्‍तावयम्)
भाव—कारकाऽभिधायिनो धातुप्रत्ययाः कृतः। तत्र—
(भावः —६)
धात्वर्थ एवाऽपूर्वापरीभूतो भावः। यदाह— (वाप. ३.८.१२)
कालानुपाति यद् रूपं धात्वर्थस्य क्रियेति तत्।
परितो यत् परिच्छिन्नं तद्‍भाव इति कथ्यते ॥ १ ॥
स (भाव) इह षोढा संभवति— १. सिद्धः, २. साध्यः, ३. सिद्धासमाप्तः, ४. साध्याऽसमाप्तः, ५. सिद्धसाध्यः, ६. साध्यसिद्धश्‍चेति। तेषु—
(१. सिद्धः)
उद्भूतप्रत्ययांशत्वेन क्रियाऽनुद्रेकात् सत्त्वभूतत्वे लिङ्गसंख्याद्युपग्राही 'कर्तृकर्मणोः कृति' (२.३.६५) इति सम्बन्धविभक्‍तेर्निमित्तं सिद्धः। यथा— 'आश्‍चर्यमिदमोदनस्य च पाको ब्राह्मणानां च प्रादुर्भावः, भेदिका काष्ठानां देवदत्तस्य, चिकीर्षा यज्ञदत्तस्य कटस्य' इति। अत्र 'उभयप्राप्तौ कर्मणि (२.३.६६) एवेति नियमे उभयोः प्राप्तिर्यस्मिन् कृति' इति व्याख्यानात् (मभा. २.३.६६) अकाकारयोश्‍च नियमप्रतिषेधात् कर्त्तर्यपि षष्ठ्येव भवन्ती भावस्य सिद्धतां द्योतयति।
१. द्र. पृ० ११९। २. द्र. पृ० १२०।
(२. साध्यः)
उद्भूतप्रकृत्यंशत्वेन क्रियोद्रेकादसत्त्वभूतत्वे लिङ्गसंख्याद्यनुपग्राही कर्तृकर्मणोः कारकविभक्तेरेव निमित्तं साध्यः। यथा— ओदनं भोक्‍तुं याति, स्वाध्यायमधीत्य स्नाति, पयः पायंपायमास्ते इति। अतएव 'न लोकाव्ययखलर्थतॄनाम्' (२.३.६९) इत्यादिना षष्ठी निषिध्यते।
(३. सिद्धासमाप्तः)
सिद्ध एव तद्धितानुबन्धी सिद्धासमाप्तः। यथा — व्यावक्रोशी, सांकूटिनम्, कृत्रिमम् इति। अत्र
यथा 'आभिजित्यः, कौञ्जायन्यः' इत्यादावणाद्यभिहितोऽप्यपत्यार्थः, तैत्तिरीयाः छागलेयिनः इत्यादौ छणाद्यभिहितोऽपि प्रोक्तार्थः, स्वार्थिकाध्येतृवेदितृविषय— तद्धितोत्पत्तिमन्तरेण न समाप्यते, तथा व्यतिहाराभिविध्युपाधिको णजिनुणुक्तः शुद्धश्‍च क्त्र्यभिहित सिद्धोऽपि भावः स्वार्थिकनिर्वृत्ताथीयितद्धितोत्पत्तिमन्तरेण न समाप्यत इति सिद्धासमाप्तो भवति।
(४. साध्यासमाप्तः)
साध्य एवानुप्रयोगानुबन्धी साध्यासमाप्तः। यथा चकासाञ्चकार विदाङ्कुर्वन्तु, रैपोषं पुष्यति इति। अत्र
यथा शुक्लीभवति, पटपटाकरोति इत्यादावभूततद्‍भावादिषु च्व्याद्यन्तम्, लुनीहि लुनीहि इत्येवायं लुनाति, भ्राष्ट्रमट मठमट खदूरमटेत्येवायमटति इत्यादिषु क्रियासमभिहारादिषु लोडन्तम् अनभिव्यक्त पदार्थकत्वादसमाप्तं स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते तथा आमन्तं णमुलन्तं चाऽनभिव्यक्त— पदार्थकत्वादसमाप्तं साध्यरूपमेव स्वार्थाभिव्यक्तये कृभ्वाद्यनुप्रयोगं यथाविध्यनुप्रयोगं चापेक्षते इत्येतदुक्‍तो भावः साध्याऽसमाप्ते। भवति। तदाह — आम इव णमुलोऽप्यसमाप्तार्थत्वाच्चादिवदनुप्रयोगः सिद्ध एवं। यथाविध्यर्थं तु वचनं 'कषादिषु यथाविध्यनुप्रयोगः' (३.४.४६) इति। तेन चकासाञ्चकार इतयादिनाऽयमर्थो भवति चकास्ति स्म, विदन्तु, रायः पुष्यन्नमुं पुष्यति इति। अतएव क्रियाविशेषणेनैव सिद्धमिति न केचित् णमुल्प्रकरणमारभन्ते।
ननु च,
क्रियाविशेषणानां कर्मता नपुसकता च; कथं च पुषेरेव पुषिः कर्म भवति। न ह्यात्मनैवात्मा व्याप्यते, न हि सुशिक्षितोऽपि वटुः स्वं स्कन्धमारोढुं शक्नोति।
नैवम्।
'नागरकवृत्तं वर्त्तेत, विश्‍वजिता यजेते'—त्यादौ सामान्यविशेषयोरनैकात्मयेन व्याप्त्यवच्छेदयोरूपलम्भात् समान्यपुषेरेवाऽवयवपुषिः कर्म भवति। न च क्रियाविशेषणानां कर्मतैवेति नियमः; क्रिया हि यथा साध्यायमानत्वात् कर्म, तथोत्पद्यमानत्वात् कर्त्र्यपि भवति। ततश्‍चोभयथाऽपि क्रियाविशेषणानियोज्यन्तेरैपोषं कृत्वा पुष्यति, रैपोषं यथा भवत्येवं पुष्यतीति।
(५. सिद्धसाध्यः)
सिद्ध एव साध्यधर्मयोगी सिद्धसाध्यः। यथा— आश्‍चर्ये गवां दोहोऽशिक्षितेनाऽगेपालेन, सधु खलु पयसः पानं यज्ञदत्तेन, विचित्रा हि सूत्रस्य कृतिः पाणिनिना इति। अत्र उभयप्राप्तौ कर्मण्येव षष्ठीति (३.२.८) कर्त्तरि तृतीयाम्नानात् सिद्धोऽप्ययं विवक्षातः सध्योऽपि भवतीति ज्ञायते।
अन्ये त्वन्यथा सिद्धसाध्यं वर्णयन्ति—उष्ट्रासिकामास्ते, पञ्च वारान् भुङ्क्ते पञ्च प्रयोगन् पचति इति। तत्रोष्ट्रासिकावारप्रयोगाणां क्रियाविशेषावृत्त्यनुष्ठान— रुपत्वेनापृथग्भावात् क्रियाभिख्याप्य़ानां द्वितीयादर्शनादभेदविवक्षातः सिद्धानामपि क्रियावदेव साध्यत्वमवगम्यते। तदाह—
तत्स्वभावविशेषत्वाद् व्याप्या नोष्ट्रासिकाऽनया। साध्यत्वे त्वासनैकात्म्यात् फलतः कर्म कथ्यते ॥२॥
सोऽयमित्यभिसंबन्धादभेदे धर्मधर्मिणोः। क्रियाया इव साध्यत्वं वारादीनां न दुष्यति ॥३॥
तेन उष्ट्रासिकामास्त इत्यादीनामयमर्ये भवति— 'उष्ट्रवदास्ते, पञ्चावृत्तिं भुजिक्रियां करोति, पञ्च पाकान्निर्वर्तयति' इति।
(६. साध्यसिद्धः)
सध्य एव सिद्धधर्मयोगी सध्यसिद्धः। यथा— कर्त्तव्यं भवतः, कार्यं भवतः, कृतं भवत इति। अत्र 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' (२.३.६९) इति लादीनां साध्यार्थाभिधायित्वात् कर्तृकर्मणोः षष्ठीनिषेधे, 'कृत्यानां कर्त्तरि वा' (२.३.७१), 'क्तस्य च वर्त्तमाने' (२.३६७), 'नपुसके भावे क्त उपसंख्यानम्' (२.३६७ वार्त्तिक), इत्यादिभिः पुनः षष्ठीविधानात् पक्षे विवश्क्षातः सिद्धार्थाभिधायित्वमवगम्यत इत्येतदुक्त्तो भावः सध्यसिद्धो भवति। न चाऽत्र कृत्यानां निषेधो न श्रूयते, यतः— 'खलर्थतृनाम्' इत्यत्र खलर्थेत्यनेन कृत्य—क्त—खलर्थाः शतृ—शनच्चानशश्‍च संगृह्यन्ते; तृन्नित्यनेन पुनस्तृन्नेवेति। अत एव निष्ठादिभावस्येव कृत्यभावस्य कर्मण्यपि षष्ठी न भवति। यथा—
गतमस्तं यथाऽर्केण यथाऽभ्युदितमिन्दुना। तथा मानेन शैथिल्यमागन्तव्यं मृगीदृशः ॥४॥
कथं पुनः सकर्मकाद् भावप्रत्ययः?
तेन ह्यकर्मकाद् भवितव्यम्; यदाह 'लः कर्मणि च भावे चाऽकर्मकेभ्यः' (३.४. ६९), 'तयोरेव कृत्य—क्त—खलर्थाः' (३.४.७०); न हि भवति कृतं कटं देवदत्तेनेति।
उच्यते— नैतदन्तरङ्गं द्रव्यकर्म, अपितु 'कालाध्वभावगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' (मभा. १४.५१) इति बहिरङ्गेषु कालादिकर्मसु गन्तव्यलक्षणं गत्यर्थकर्म; बहिरङ्गता च 'कालाध्वनोरत्यन्तसंयोगे' (२.३.५) इत्यनेन द्वितीयाविधानेन, भावस्य च कालादभेदेन, गन्तव्यस्य तु 'गत्यर्थकर्मणि द्वितीयाचतुर्थ्यै—(२.३.१२) इति पुनर्द्वितीयाग्रहणेन ज्ञायते; अन्यथा हि कर्मणि द्वितीयायाः सिद्धत्वात् गत्यर्थकर्मणि चतुर्थी चेत्येव ब्रूयात्।
यस्यैव च द्रव्यकर्मणोरन्तरङ्गस्याभावेनाकर्मकः तस्यैव भावेन सकर्मको भवति अतो विद्यमानमपि कालादिकर्म नाकर्मकव्यपदेशं विघ्नयति।
अन्ये त्वन्यथा साध्यसिद्धं वर्णयन्ति— 'उष्ट्रासिका आस्यन्ते' हतशायिकाः शय्यन्ते, यवाग्वाः पाकाय व्रजति इति। अत्र आसिकाशायिकयोगख्याताभिहित— क्रियात्मकत्वात् पाकस्य व्रज्ञिक्रियासाध्यत्वात्, सत्यपि साध्यत्वे लिङ्ग संख्यासम्बन्धि विभक्तियोगाद् विवक्षातः सिद्धत्वमपि गम्यत इत्ययं साध्यसिद्धो भवति। तथापि 'उष्ट्रासिका आस्यन्ते, हतशदिकाः शय्यन्त' इत्यमूभ्यां सामान्यविशेषोपचरित रूपो भावात्मैव प्रत्याय्यते। स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशोषरूपेण। बहुवचनं तु कुत्सातिशयार्थम्; या हि नाम उष्ट्रस्य कुय्सावत्यो बहुप्रकारजुषो बह्व्य आसिका; याश्‍च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीताः, ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसम्बन्धजनितभेदाऽभेद— परिग्रहाल्लकारेणापि सामान्यविशेषभावेन कुत्सातिशयार्थं बहुत्वेनैव प्रत्याय्यते, बहुत्वेन विना सामान्यविशेषभावानुपपत्तेः, तेनोष्ट्रासिका इवासनानि, हतशाविका इव शयनानि क्रियन्ते भवन्तीति वा वाक्यार्थो भवति।
नन्वेवमुष्ट्रासिकादीनां वारप्रयोगादानाञ्च कर्मतेव नपुंसकतापि प्राप्नोति; यथा— 'मृदु पचति, प्रशस्तं पचतीति। उच्यते—
त्रिधा खल क्रियाविशेषणं भवति —
१. बाह्यम्, २. आभ्यन्तरम् ३. बाह्याभ्यन्तरं च। तत्र— बाह्यं धर्मरूपं वारादि; आभ्यन्तरं विशेषरूपमुष्ट्रासिकादि, बाह्याभ्यन्तरं गुणरूपं मृद्‌वादि। तेषु—
बाह्यम् 'सोऽयमित्यभिसम्बन्धाद्', अभेदोपचारेणाविचलितस्वरूपमेव प्रधानं विशिंषत् कथमिव स्वलिङ्गं जह्यात्?
आभ्यन्तरं तु विशेषांशपरिग्रहादाविष्टलिङ्गसंख्यं कथमिवान्यलिङ्गं गृह्‍णीयात्?
॥ इति प्रातिपदिकप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.