॥ अथ प्रकृत्यादिशब्दप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे तृतीयः प्रकाशः
प्रकृत्यादिशब्दप्रकाशः
(९. पदम्)
तत्र पद्यतेऽनेनार्थ इति पदम्।
तत् त्रिधा १. क्रियारूपम्, २. कारकरूपम्, ३. उपस्काररूपञ्च। तेषु—
साध्यार्थाभिधायि क्रियारूपम्।
साधनार्थाभिधायि कारकरूपम्।
साध्यसाधनयोर्भूषणादिभूतमुपस्कारम्।
तेषां प्रत्येकं षड्भेदत्वात् पदस्याष्टादश भेदा भवन्ति। तेषु—
(१. क्रियारूपं पदम्)
(१) भावपदम्, (२) कर्मपदम्, (३) कर्त्तृपदम्, (४) भावकर्मपदम्, (५) भावकर्त्तृपदम्, (६) कर्मकर्त्तृपदं चेति क्रियारूप—पदभेदाः। तेषु—
(१) भावपदं यथा—
पच्यते, अपाचि, पक्ष्यते देवदत्तेन; आस्यते, आसि, आसिष्यते भवता; भिद्यते, अभेदि, भित्स्यते कुसूलेन; श्रायते, अश्रायि श्रायिष्यते यवाग्वा; एवं श्रायिषीष्ट, शश्रे, अश्रायिष्यतौदनेन; घानिषीष्ट, जघ्ने, अघानिष्यत हस्तिना; ग्राहीषीष्ट, जगृहे, अग्राहिष्यत ग्राहेण; दार्शिषीष्ट, ददृशे, अदर्शिष्यत प्रेयसेति।
(२) कर्मपदं यथा—
पच्यते ओदनः सूदेन, आस्यते मासो भृतकेन, गम्यते ग्रामः पान्थेन, सुप्यते क्रोशः शिशुना, अकारि कटः कुशलेन, अरोधि गौर्गोपालेन, अदोहि धेनुर्वल्लवेन, अतापि पृथिवी राज्ञा, अन्वतातप्त कितवः कर्मणा, अनुबभूवे कम्बलः करेण, पक्ष्यते यवागूर्भिषजा, लप्सीष्ट भिक्षा तापसेन।
एवं करिष्यते कारिता कारिषीष्ट कटः, घानिष्यते घानिता घानिषीष्ट शत्रुः, ग्राहिष्यते ग्राहिता ग्राहीषष्ट ग्रन्थः, दर्शिष्यते दर्शिता दर्शिषीष्ट प्रेयानिति।
(३) कर्त्तृपदं यथा—
पचति चैत्रः, आस्ते मैत्रः, तपति सुवर्णं सुवर्णकारः, तप्यते तपस्यापसः, सृजति मालां मालिकः, सृजते धर्मं धार्मिकः, उदसर्जि स्वं वदान्यः, उदपादि सस्यं भूमिः परिवारयन्ते वृक्षं कण्टकाः, शोषयते व्रीहीनातपः, संयुज्यते गृहमेधी भार्यया, पच्यते सलोहितं फलमुदुम्बरः, तथा अदीपि, अदीपिष्ट वह्निः, अजनि अजनिष्ट धूमः, अबोधि अबुद्ध प्रसुप्तः, अपूरि अपूरिष्ट कामः, अतायि अतायिष्ट धर्मः, आप्यायि, आप्यायिष्ट लोक इति।
(४) भावकर्म्मपदं यथा—
इच्छामि भुञ्जीत भवान्, इच्छामि भुङ्क्तां भवना्, कामये यत् स भुञ्जीत, प्रार्थये यदि स भञ्जीत, संभावयामि भुञ्जीत भवान्, समर्थयामि भोक्ष्यते भवान्, श्रद्दधे नाभुङ्क्त भवान्, अवकल्पयामि नाभोक्ष्यत भवान्, न श्रद्धधे ननु भवान् वृषलं याजयेत्, नावकल्पयामि तत्रभवान् वृषलं याजयिष्यति, न मर्षयामि तत्रभवान् वृषलमयायजिष्यत्, विगर्हे अपि तत्रभवान् वृषलं याजयति, स्मरसि देवदत्त कश्मीरेषु वत्स्यामः, अभिजानासि कलिङ्गेषु यदवसाम, अभिजानासि कलिङ्गेषु शश्‍वदवसाम, स्मरसि कश्मीरेषु वत्स्याम, तत्रौदनं भोक्ष्यामहे, अभिजानासि यत् कलिङ्गेष्ववसाम यत् तत्रौदनमभुञ्ज्महि; एहि मन्ये रथेन यास्यसि, जाने सुप्तो विहायसा गच्छामि, पश्‍य मृगो धावति, इह पश्‍यामः कर्मणि द्विवचन— बहुवचनान्युदाह्नियन्ते इति।
(५) भावकर्त्तृपदं यथा—
चोरस्य रुजति, चोरस्यामयति, चोरस्य बाधते, चोरस्य पीडयति, चोरस्य दहति, चोरस्यातङ्कयति, चोरस्य स्पृशति, चोरस्य शोषयति, चोरस्य मर्दयति, चोरस्य मोटयति, चोरं ज्वरयति, चोरं संतापयति। तथा— भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीत्, भवेदपि भवेत्, स्यादपि स्यात्, नास्ति रमे, अयूयुजस्त्वमसि, असि त्वमीशिषे, अस्ति गच्छामो वयम्, अस्त्यत्र काञ्चिद् गां पश्‍यति, असि भवतु गम्यते, भवतु साधयाम इति।
(६) कर्मकर्त्तृपदम् यथा—
रज्यति वस्त्रं स्वयमेव, कुष्यति पादस्स्वयमेव, अवकिरते हस्ती, अवाकीर्ष्ट वा स्वयमेव, ग्रथ्नीते माला, अग्रथिष्ट वा स्वयमेव, चीकीर्षते कटः, अचिकीर्षत वा स्वयमेव, नमते दण्डः अनंस्त वा स्वयमेव, उच्छ्रयते दण्डः, उदशिश्रियत वा स्वयमेव, ब्रूते कथा, अवोचत वा स्वयमेव; प्रस्नुते गौः प्रास्नोष्ट वा स्वयमेव; आहते गौः (३.१. ८९ काशिका), आवधिष्ट वा स्वयमेव। अनुरुन्धे गौः अन्वरुद्ध वा स्वयमेव, अकृत कटः स्वयमेव (३.१. ६२ काशिका) इति।
अन्ये पुनरमीषामपि कर्मकर्त्तृत्वं मन्यन्ते—
भिद्यते कुसूलः, स्वयमेव, भिद्यते रज्जुः स्वयमेव, लूयते केदारः स्वयमेव, पच्यते फलं स्वयमेव, भज्यते काष्ठं स्वयमेव, कुष्यते पादः स्वयमेव, अदोहि गौः स्वयमेव, अरोधि गौः स्वयमेव, अहावि हविः स्वयमेव, अकारि कटः स्वयमेव, तथा भूषयते कन्या स्वयमेव, मण्डयते कन्या स्वयमेव, दोहयते गौः स्वयमेव, आरोहयते हस्ती स्वयमेव, दर्शयते राजा स्वयमेव, अभिवादयते गुरुः स्वयमेव, लावयते केदारः स्वयमेव, पाचयते ओदनः स्वयमेव, भेदयते कुसूलः स्वयमेव, कारयते कटः स्वयमेव, गणयति गणः स्वयमेव, स्मरयति वनगुल्मः स्वयमेव'इति। आहुश्‍च—
कर्मवत् कर्म्मणा तुल्यक्रियः (३.१. ८७), कर्मवदभावे यगात्मनेपदचिण् (वद्)भावाः प्रयोजनम् (३.१. ८७ काशिका) अचः कर्मकर्त्तरि (३.१. ६२), दुहश‍च (३.१. ६३), न रुधः (३.१. ६४), न दुह्‍स्नुनमां यक्‍चिणौ (३.१. ८९), यक्‍चिणोः प्रतिषेधो हेतुमण्णिश्रिब्रुञामुपसंख्यानम् (३.१. ८९ वा. १), भूषाकर्मकिरादि (३. १. ८७), णि—श्रन्थ—ग्रन्थ—ब्रुञात्मनेपदा—कर्मकाणामुपसंख्यानम् (३.१. ८९ वा)।
तत् तु सम्यक्। तथाहि 'भिद्यते कुसूलस्स्वयमेव, अकारि कटः स्वयमेवेत्यादिषु कर्मण्येव यक्‍चिणौ, स्वयंशब्दात्तु कर्मकर्त्तुकत्वप्रतीतिः। अरोधि गौस्स्वयमेवेति रुधेरपि कर्मविवक्षायां चिण् भवत्येव अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तुत्वं तदा अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तृत्वं तदाऽरोधि गौरात्मनैवेति भवति। य एवार्थ आत्मनैवेति स स्वयमेवेति। अरोधीति चोक्‍ते नाश्रुते कर्त्तृवाचिनि पदान्तरे कर्मकर्त्तुत्वं गम्यते। तस्मादिहापि कर्मण्येव णिच्। भूषयते कन्या स्वयमेवेत्यादिषु तु 'णोरणौ यत् कर्म णौ चेत् स कर्त्ताऽनाध्याये' (१.३. ६७) इति फलवति कर्त्तर्येवात्मनेपदम्। कुतस्त्या तर्ह्येतेषु कर्मकर्त्तृताप्रसिद्धिः ?
श्रूयताम्— कर्मपदेषु तावत्—
क्रियमाणं तु यत् कर्म स्वयमेव प्रसिद्ध्यति। सुकरं स्वैर्गुणैः कर्त्तुः कर्मकर्त्तेति तं विदुः॥१॥
कर्त्तुपदेषु भूतपूर्वकत्वात् तदवदुपचार इति। तथाहि कन्यादयो लावण्यातिशयादिभि— रात्मभूषायै प्रसाधनादीन् प्रयुञ्जते। प्रयुञ्जते च माघादयो महाकवयः—
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम्॥२॥ (माघ. १२.५)
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्॥ ३॥ (किराता. १. १०) इति
फलमनयोः सुखासिका लोकरञ्जनं च। अन्यथैको हस्तिपकैः पीड्येत, द्वितीयो दुदर्शे इति नाभिगम्यते।
अचेतनेष्वपि क्रियाफलविवक्षायां तु दृश्‍यते 'परिवारयन्ते वृक्षं कण्टकाः, शोषयते व्रीहिनातप' इति। एतेन करणेन तुल्यक्रियः कर्त्ता कर्मवद् भवतीत्यपि व वक्तव्यं भवति। परिवारयन्ति कण्टकैर्वृक्षं मनुष्याः, परिवारयन्ते कण्टकाः स्वयमेवेति। तथा 'दुहिपच्योः सकर्मकयोः कर्त्ता बहुलं कर्मवद् भवतीति न वक्‍तव्यम्। दुग्धे गौः पयः स्वयमेव, पयो मुञ्चतीति गम्यते। तस्मादुदुम्बरस्सलोहितं फलं पच्यत इति कर्मतैव क्रियाविशेषणविवक्षिता। उदुम्बरशब्दोऽत्र फलवृत्तिः, उदुम्बरं तत् कालेन पच्यते सलोहितगुणं यथा भवति लोहितेन पाकेन सम्बध्यत इति यावत् कर्त्तृत्वविवक्षायां च पचत्यात्मानामिति। तथा युजेः श्‍यन् कर्त्तरि वक्‍तव्यम्, मासं युज्यते ब्रह्मचारीति। कर्त्तृत्वविवक्षायां तु दैवादिकत्वं न सेत्स्यति, कर्मत्वविवक्षायां तु कर्मत्वं यथा; कर्त्तृत्वं तु स्वयं शब्देन गम्यत इत्यलमतिप्रसङ्गेन॥
कृदन्तमपि खलु क्रियारूपं विद्यते। तत्र—
भावो यथा— इह तैर्यातम्, इह तैरासितम्, इह तैर्भुक्तम्, इह तैः पीतम्; कृतं भवता, प्रसुप्तं भवता, सुकृतं भवता, सुसिक्‍तं भवता, भूतं भवता, प्रभूतं भवता, भविष्यमाणं भवता, भूयमानं भवता, भवितव्यं भवता, भवनीयं भवता, भव्य़ं भवता, अवश्‍यं भाव्यं भवता, आशितभवं भवता, ईषदाढ्यम्भवं भवता, दुराढ्यंभवं भवता, स्वाढयंभवं भवता, ईषदुत्थानं भवता, सूत्थानं भवता इति।
कर्म यथा— प्रकृतः कटो भवता, कृतः क्रियमाणः करिष्यमाणो भवता, खलु कटः कर्त्तव्यः, कृत्यः, करणीयः, कार्यः; ईषत्कार्यः, ईषत्करः क्रियार्थो भवता, ईषदाढ्यंकरः स्वाढ्यंकरः, ईषत्पानः सोमो भवता, सुपानः, दुष्पानः; दुश्शासनोऽरिभिर्भवान् सुयोधनः, दुर्योधनः, दुर्दर्शनः, दुर्धर्षणः, दुर्मर्षणः, ईषल्लभ्यो जनैर्भवान्, सुलभः, दुर्दर्शः इति।
कर्त्ता यथा—कृतवान् कटम्, उपेयिवान् ग्रामम्, विद्वान् व्याकरणम्, अधीयन् पारायणम्, धारयन्नुपनिषदम्, द्विषान्नितिहासम्, कुर्वन् कटम्, कटं कुर्वाणः; विदिता जनापवादान् प्रजागरितापररात्रान्, कन्यामलङ्करिष्णुः, दिवमुत्पतिष्णुः, ग्राममागामुकः, योषामभिलाषुकः, ओदनं बुभुक्षुः, श्रियमाशंसुः, दादिर्गाः, पपिस्सोमम्, अवश्‍यंदायी, शतंदायी, ग्रामङ्गामी, ग्राममागामी, कटं कारको व्रजति, ओदनं पाचको व्रजतीति।
भावकर्म यथा— क्रियाः क्रियन्ते, विधयो विधीयन्ते, उष्ट्रासिका आस्यन्ते, हतशायिकाश्शय्यन्ते, अर्हति भवानिक्षुभक्षिकाम्, इक्षुभक्षिकां में धारयसि, व्यावहासीं विदधते (३.३. ४३ काशिका), सांकूटिनं कुर्वन्ति, उत्सवमामन्त्रयै, समाजमामन्त्रयै, आमन्त्रणमामन्त्रयै, मन्त्रणं निमन्त्रयै, कां त्वं कारिमकार्षीः (३.३. ११०), कां कारिकाम् कां कृतिम् कां क्रियाम्, का कृत्याम्; किं कृतम्, सर्वां कारिमकार्षम्, सर्वां कारिकाम्, सर्वां कृतिम्, सर्वां क्रियां, सर्वां कृत्याम्, सर्वं कृतमिति।
भावकर्त्ता यथा— ब्रह्मभूयं वर्त्तते, ब्रह्महत्या न भवति, पाको वर्त्तते, त्यागो भवति, सांराविणं वर्त्तते, आखूत्थो भवति (३.२. ४ मभा.), अन्वेषणा वर्त्तते, व्यावभाषी भवति, समजः पशूनाम्, उदजः पशूनाम्, गवामुपसरः (३.३. ७१), ऋतूनां पर्यायः, भवत आसिका, भवतः शायिका, अभ्यूषखादिका वर्त्तते, इक्षुभक्षिका उदपादि, शिरोर्त्तिर्वर्त्तते (३.३. १०८), प्रवाहिका न भवति, शिरोरोगः शिरोबाध /?/ते, अरोचको न भवति, निग्राहस्ते वृषल (३.३.४५ काशिका), अवग्राहस्ते वृषल, अजननिस्ते वृषल (३.३. ११२), अभवनिस्ते वृषल भूयादिति।
कर्मकर्त्ता यथा— स्वयं धौतो पादौ, स्वयं विलीनमाज्यम्, अकृष्टपच्याश्शालयः (३.१. ११४), पचेलिमा माषाः {३.१. ९६(१)}, भिदेलिमानि काष्ठानि, भिदुरा भूः, छिदुरा रज्जुः, भङ्गुरं काष्ठम्, आरोहयमाणो हस्ती, लूयमानः केदारः, ब्रुवाणा कथा, भूषमाणा कन्या, ग्रथ्नाना स्त्रक्, श्रथ्नाना स्त्रक्, चिकीर्षमाणः कटः, अवकिरमाणो हस्ती, नयमानो दण्डः उच्छ्रायमाणो दण्डः, दुहाना धेनुः, प्रस्नुवाना धेनुः, रुन्धाना गौः आघ्नाना गौः, रज्यद् वस्त्रम्, कुष्यन् पाद इति।
अन्ये पुनरमीषामपि कर्मकर्त्तृत्वं मन्यन्ते—प्रकृतः कटं भवान्, प्रकृतः कटो भवता, यातः पन्थानं भवान्, यातः पन्था भवता, आसीनो मासं भवान्, आसीनो मासो भवता, भुङ्क्ते ओदनं भवान्, भुक्त ओदने भवता, अधिशयितः खट्वां भवान्, अधिशयिता खट्वा भवता, आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आश्लिष्टः प्रियां भवान्, आश्लिष्टा प्रिया भवता, उपस्थितः सूर्यं भवान्, उपस्थितः सूर्यो भवता, उपासितोऽग्निं भवान्, उपासितोऽग्निर्भवता, अनूषितो गुरुं भवान् (३.४. ७२ काशिका), अनूषितो गुरुर्भवता, अनुजातो माणवको माणाविकाम्, अनुजाता माणाविका माणवकेन, अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृषली देवदत्तेन इति। तन्न सम्यग् वाक्‍यभेदात्॥
ननु च भावनाक्षेपलब्धः कर्त्ता न तिङ्वाच्यः।
तत् कथमुच्यते कर्त्तृपदं, भावकर्त्तृपदं, कर्मकर्त्तृपदं चेति।
तथाहि— अन्वयव्यतिरेकाभ्यां शब्दस्याभिधानशक्तिः कल्प्यते। भावनाक्षेपेण च प्रतीयते; कर्त्तरि न तत्र प्रत्ययस्यान्वयव्यतिरेकौ कल्प्यते, यथा जात्याक्षेपेण व्यक्तेः प्रतीतौ न तां प्रति शब्दस्य वाचकशक्तिकल्पनोपपत्तिमती।
कथं पुनः कर्त्तुरनभिधाने प्रत्ययस्य वचनपुरुषभेदो युज्यते?
यथैव नात्मनेपदेषु।
॥ इति प्रकृत्यादिशब्दप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.