प्रथमः प्रकाशः
प्रकृत्यादिप्रकाशात्मा
अच्छिन्नमेखल - मलब्धदृढोपगूढ - मप्राप्तचुम्बन-मवीक्षित-वक्त्रकान्ति।
कान्ताविमिश्रवपुषः कृतविप्रलम्भसम्भोगसख्यमिव पातु वपुः पुरारेः॥ १ ॥
यत्पादपङ्कजरजःपरिमार्जितेषु चेतःसु दर्पणतलाऽमलतां गतेषु।
शब्दार्थसंपद उदारतराः स्फुरन्ति विघ्नच्छिदेऽस्तु भगवान् स गणाधिनाथः ॥ २ ॥
आत्मस्थितं गुणविशेषमहङ्कृतस्य शृङ्गारमाहुरिह जीवितमात्मयोनेः।
तस्यात्मरक्ति / शक्तिरसनीयतया रसत्वं युक्तस्य येन रसिकोऽयमिति प्रवादः ॥ ३ ॥
सत्त्वात्मनाममलधर्म/जन्मविशेषजन्मा जन्मान्तरानुभवनिर्मितवासनोत्थः।
सर्वात्मसंपदुदयातिशयैकहेतुर्ज्जागर्त्ति कोऽपि हृदि मानमयो/वतो विकारः ॥ ४ ॥
१. २.
\[उच्यते चाभिनवेन 'येषां काव्यानुशीलनाभ्यासवशाद् विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनयोग्यता ते हृदयसंवादभाजः सहृदया' इति ध्वन्यालोकलोचने।\]
३.
\[उक्तं रत्नेश्वरेण रूढाहङ्कारतौर्जित्यमित्यस्य व्याख्याने स.क.(१.१०९) तात्कालिकनिमित्तोपनिपाते वासनाविकासात् तमोनिर्भेदस्थानेषु सुप्तप्रबुद्ध इव स्थायिभिरसंसृज्यमानः प्रथम—प्रादुर्भूतोऽभिमानोऽहङ्कारः ॥ रक्तिरित्येव युक्तः पाठः शृङ्गारादेः रत्यादिवासनावतैव सचेतसा अनुभूतेः।\]
४.
\[यथा चोच्यते सरस्वतीकण्ठाभरणालङ्कारे—
विशिष्टादृष्टजन्मायं जन्मिनामन्तरात्मसु।
आत्मसंपद्गुणोद्भूतेरेको हेतुः प्रकाशते ॥ इति (५.२)
\]
तात्पर्यमेव वचसि ध्वनिरेव काव्ये सौभाग्यमेव गुणसंपदि वल्लभस्य।
लावण्यमेव वपुषि स्वदतेऽङ्गनायाः शृङ्गार एव हृदि मानवतो जनस्य ॥ ५ ॥
शृङ्गार-वीर-करुणाद्भुत-रौद्र-हास्य-बीभत्स-वत्सल-भयानक-शान्त-नाम्नः।
आम्नासिषुर्दश रसान् सुधियो वयं तु शृङ्गारमेव रसनाद् रसमामनामः ॥ ६ ॥
वीराद्भुतादिषु च येह रसप्रसिद्धिः सिद्धा कुतोऽपि वटयक्षवदाविभाति।
लोके गतानुगतित्ववशादुपेतामेतां निवर्त्तयितुमेष परिश्रमो नः ॥ ७ ॥
अप्रातिकूलिकतया मनसो मुदादेर्यः संविदोऽनुभवहेतुरिहाभिमानः।
ज्ञेयो रसः स रसनीयतयाऽऽत्मश/रक्ते रत्यादिभूमनि पुनर्वितथा रसोक्तिः ॥ ८ ॥
रत्यादयोऽर्धशतमेकविवर्जिता हि भावाः पृथग्विधविभावभुवो भवन्ति।
शृङ्गारतत्त्वमभितः परिवारयन्तः सुप्तार्च्चिषं द्युतिचया इव वर्धयन्ति ॥ ९ ॥
आ भावनोदयमनन्यधिया जनेन यो भाव्यते मनसि भावनया स भावः।
यो भावनापथमतीत्य विवर्त्तमानः साहङ्कृते हृदि परं स्वदते रसोऽसौ ॥ १० ॥
रत्यादयो यदि रसाः स्युरतिप्रकर्षे हर्षादिभिः किमपराद्धमतद्विभिन्नैः।
अस्थायिनस्त इति चेद् भयहासशोकक्रोधादयो वद/बत कियच्चिरमुल्लसन्ति ॥ ११ ॥
स्थायित्वमत्र विषयातिशयान्मतं चेच्चिन्तादयः कुत उत प्रकृतेर्वशेन।
तुल्यैव सात्मनि भवेदथ वासनायाः सन्दीपनात्, तदुभयत्र समानमेव ॥ १२ ॥
अतः सिद्धमेतद् १. रत्यादयः शृङ्गारप्रभवा एकोनपञ्चाशद् भावाः, २. वीरादयो मिथ्यारसप्रवादाः, ३. शृङ्गार एवैकश्चतुर्वर्गैककारणं रस इति। स चानुभवैकगम्यत्वाद् असर्वविषयत्वाच्च दुरवसेयः, सम्यगभिनयेषु वा विदग्धशैलूषैः प्रदर्श्यमानः सामाजिकैरव —धार्य्यते, प्रबन्धेषु वा महाकविभिर्यावदाख्यायमानो विदुषां मनीषाविषयमवतरति। तत्र ५. वचसीति वार्त्तालापो विवक्षितः। यथातथेतिवचनयोजनेन नेयोऽत्र वाक्यार्थः यथा विवक्षाविषयीभूतोऽर्थो वचसि तात्पर्यमिति परिभाष्यते, काव्ये ध्वनिरिति, वल्लभगुणसंपदि सौभाग्यमिति, उत्तमावयवविन्यासत एवाङ्गनापदवाच्यायां लावण्यमिति तथैव मानिनि जने शृङ्गार इति। १०. साहङ्कृताविति रा., साहङ्कृतिनीति तदा युक्तं वचः। न तथा पदार्थाः प्रत्यक्षेण प्रतीयमानाः स्वदन्ते, यथा वाग्ग्मिनां वचोभिरावेद्यमानाः।
तदाह—
अत्थणिवेसा ण हु तह चित्तविआसं कुणंति सच्चविआ१।
जह उण ते उम्मिल्लंता सुकइवओहिं सुसीसंता२॥ १३॥
इति।
(अर्थनिवेशा न हि तथा चित्तविकासं कुर्वन्ति संदृष्टाः।
यथा पुनस्त उन्मिलन्तः सुकवि—वचोभिः सुकथ्यमानाः॥)
अतोऽभिनेतृभ्यः कवीनेव बहुमन्यामहे, अभिनयेभ्यश्च काव्यमेवेति।
(काव्यलक्षणम्)
तत् (काव्यं) पुनः शब्दार्थयोः साहित्यमामनन्ति। तद् यथा 'शब्दार्थौ सहितौ काव्यमि'ति (भामहा. १.१६)।
कः पुनः शब्दः?
येनोच्चारितेनार्थः प्रतीयते (मभा. पस्पशा.)
स (शब्दः) द्वादशधा* १. प्रकृतिः, २. प्रत्ययः, ३. उपस्कारः, ४. उपपदम्, ५. प्रातिपदिकम्, ६. विभक्तिः, ७. उपसर्जनम्, ८. समासः, ९. पदम्, १०. वाक्यम्, ११. प्रकरणम्, १२ प्रबन्ध इति।
कोऽर्थः (कः पुनरर्थः)?
यः शब्देन प्रत्याय्यते।
॥ इति प्रकृत्यादिप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.