अथ शृङ्गारप्रकाशे विंशः प्रकाशः कामशृङ्गारप्रकाशः
(कामः)
कामो नाम आत्मनः सुखाभिधानो विशेषगुणः।
स द्वेधा, सामान्यरूपो विशेषरूपश्च। तत्र—
(१) सामान्यरूपो मनःषष्ठानामिन्द्रियाणां स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तावात्मनः सुखबुद्धिः।
(२) विशेषरूपः प्रियतमादौ तदनुरागाविद्धेषु विषयसङ्कल्पादिषु सदा सङ्गातिशयः। सोऽपि द्वेधा, प्रधानमप्रधानं च। तत्र—
अप्रधानं तद्विलासस्मरणलावण्यवद्रूपनिर्वर्णनादिषु तदभिमानानुबन्धिनी सुखास्वादबुद्धिः।
प्रधानं तु स्पर्शविशेषाभिमानिकसुखानुविद्धा फलवतः सुखप्रतीतिः।
सुखं काम इति वक्तव्येऽभिधानग्रहणम् — उपचारादरादिना मनश्शरीरेन्द्रियविषय- सन्निकर्षानुकूल्ये सति जन्मान्तरानुभवसंस्कारप्रबोधात्। सुखार्थतायामिन्द्रियप्रवृत्ति- विषयसंप्रयोग-तत्संप्रत्यय-सुखोत्पाद-तदनुभव-संस्कार-स्मरण-तदभिलाष-मनःप्रवृत्ति- सङ्कल्पानां सुखरूपाणामिव दुःखरूपाणामप्युपसंग्रहार्थम्। तेनेन्द्रियप्रवृत्त्यादयोऽपि कामव्यपदेशभाजो भवन्ति। तत्र—
१. इन्द्रियप्रवृत्तौ कामव्यपदेशो यथा—
'श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानामात्मसंयुक्तेन मनसाऽधिष्ठितानां स्वेषु स्वेषु विषयेष्वानुकूल्यतः प्रवृत्तिः कामः' (कासू. १.२.१२)।
२. विषयसंप्रयोगे यथा— 'स्पर्शविशेषविषयान्धस्याभिमानिकसुखानुविद्धा फलवत्यर्थप्रतीतिः प्राधान्यात् कामः' (कासू. १.२.१३)।
३. तत्संप्रत्यये यथा—
या त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी।
इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम्॥ १॥
३. संस्कारो यथा—(कासू.जयमङ्गला १.२.१८)
विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः।
स्वकान्तारमणोपाये को गुरुर्मृगपक्षिणाम्॥ २॥
४. स्मरणे यथा—
काम! जानामि ते मूलं सङ्कल्पात् किल जायसे।
सङ्कल्पं न करिष्यामि तेन मे न भविष्यसि॥ ३॥
५. तदभिलाषे यथा—
सङ्कल्परमणीयस्य प्रीतिसम्भोगशोभिनः।
रुचिरस्याभिलाषस्य नाम काम इति स्मृतम्॥ ४॥
६. मनःप्रवृत्तौ यथा—(उरा. २.१४)
इयं सा लोलक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वयमुपकृतं येन मम तत्।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कुतो(कृतो) वेषश्चायं कथमिति मम भ्राम्यति मनः॥ ५॥
७. सङ्कल्पे यथा—(शाकु. २.२)
स्निग्धं वीक्षितमन्यतोऽपि नयने यत् प्रेषयन्त्याऽनया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत् किल मत्परायणमहो कामी स्वतां पश्यति॥ ६॥
स द्विरूपो द्विधा, हेतुभूतः फलभूतश्च॥ तत्र—
हेतुभूतः जन्मान्तरानुभवसंस्कारप्रबोधादात्मनो विषयोपभोगेच्छानुबन्धिनी गन्धादिषु यथास्वमिन्द्रियाणां प्रवृत्तिविषयसंभोगः तत्संप्रत्ययश्च।
फलभूतस्तु सुखोत्पादस्तनुभवसंस्कारस्मरणं तदभिलाषः मनःप्रवृत्ति— तत्सङ्कल्पश्च।
तेऽपि प्रवृत्त्यादयो द्वेधा, अधिष्ठानसंयोगाद्यर्था अङ्गसंप्रयोगाद्यर्थाश्च। तत्र— अधिष्ठानमङ्गनादि।
अङ्गानि स्रक्चन्दनादिनी। यथोच्यते—(कासू. जयमङ्गला १.२.१८)
सुखं कामस्तदङ्गानि भूषणालेपनस्रजः।
तथोपवनहर्म्याग्रवल्लकीमदिरादयः ॥ ७॥
तस्यायतनमुद्दामरूपयौवनविभ्रमाः।
रमण्यश्चाटुदाक्षिण्यैराकृष्टजनमानसाः॥ ८॥ इति॥
तत्र—
आयतनसंप्रयोगाद्यर्थप्रवृत्त्यादयो विशेषकामस्यैव हेतवो भवन्ति।
अङ्गसंप्रयोगाद्यर्थास्तु विशेषकामसामान्यकामयोः। केवलं विशेषकामे प्राधान्याप्राधान्यकृतो विशेषः।
संप्रयोगस्तु द्विरूपो द्विविधः। तत्र—
(१. आयतनसंप्रयोगः)
आयतनसंप्रयोगस्तावदुच्यते। स बाह्य आभ्यन्तरश्च।
बाह्यः समागमलक्षणोऽलब्धलाभार्थः।
आभ्यन्तरो रताख्यः, स लब्धपरिरक्षणार्थः।
तत्र समागमलक्षणः परतन्त्रयोरन्यतरानिच्छायां लज्जया भयाद् वा न घटते।
आन्तरोऽप्यान्तरचतुष्षष्टिप्रयोगानभिज्ञयोर्न स्यादित्युभयरूपोऽप्युपायमपेक्षते।
तत्र—
॥ इति कामशृङ्गारप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.