अथ
शृङ्गारप्रकाशे एकादशः प्रकाशः
रसावियोगप्रकाशनप्रकाशो नाम
(१२. रसावियोगः)
निर्दोषस्य गुणवतोऽलङ्कृतस्य च काव्यशरीरस्य कामिनीशरीरस्येव शोभातिशयनिष्पत्तौ रसावियोग एव प्रकृष्ट उपायो गीयते। यतः,
कल्या मूर्तिः कुलममलिनं यौवनं रूपसम्पत् सौभाग्यर्द्धिः प्रियवचनता शीलवैदग्ध्ययोगः।
शालीनत्वं विनयपरतेत्यङ्गनाभूषणं यत् तत् प्रेमार्द्रं प्रणयिनि मनो नास्ति चेन्नास्ति किञ्चित्॥१॥
किं च—
अलङ्कृताप्यन्वयशीलभूषणैर्न शोभते मां प्रति तावदङ्गना।
बिभर्ति यावत् प्रमदा समागमे न शूरभार्यादृतगर्वितं शिरः॥ २॥
रसं त्विह प्रेमाणमेवामनन्ति, सर्वेषामपि हि रत्यादिप्रकर्षाणां रतिप्रियो रणप्रियो अमर्षप्रियः परिहासप्रिय इति प्रेमण्येव पर्यवसानात्।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥ ३॥ (उराच. ५.१७)
ततो हि—
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत्प्रियं यत्करोति सा॥ ४॥
अपि च— (उराच. २.१९, ६५)
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ५॥
दुक्खं दन्तो वि सुहं जणेइ जो जस्स वल्लहो होइ।
दइअ-णह-दूमिआण वि वड्ढइ त्थणआण रोमञ्चो॥ ६॥
(गास.१.१००)
(दुःखं दददपि सुखं जनयति यो यस्य वल्लभो भवति।
दयितनखदूयमानयोरपि वर्धते स्तनयो रोमाञ्चः॥)
तदुक्तम्—
अप्रातिकूलिकतया मनसो मुदादे— र्यस्संविदोऽनुभवहेतुरिहाभिमानः।
ज्ञेयो रसः स रसनीयतयाऽऽत्मशक्ते(/रक्तेः)१ रत्यादिभूमनि पुनर्वितथा रसोक्तिः॥ ७॥
ननु 'इदानीमेवोक्तं रतिप्रियो रणप्रियोऽमर्षप्रियः परिहासप्रिय इति रत्यादिप्रकर्षाणां प्रेमण्येव पर्यवसानात् रसमिह प्रेमाणमामनन्ती'ति तत् कथमुच्यते रत्यादिभूमनि पुनर्वितथा, रसोक्तिरिति? उच्यते, न रत्यादिभूमा रसः। किं तर्हि? शृङ्गारः।
(रसलक्षणम्)
शृङ्गारो हि नाम विशिष्टेष्टदृष्टचेष्टाभिव्यञ्जकानाम् आत्मगुणसम्पदामुत्कर्षबीजं बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नसंस्काराद्यतिशयहेतुरात्मनोऽहङ्कारगुणविशेषः सचेतसा रस्यमानो रस इत्युच्यते। यदस्तित्वे रसिकोऽन्यथात्वे नीरस इति॥ ८॥
(भावाः — ५१)
तदाविर्भावहेतवश्च तत्प्रभवा एव भावाः। ते चैकोनपञ्चाशत्—
(१) रतिः, (२. प्रीतिः),(३) हर्षः, (४) रोमाञ्चः, (५) धृतिः, (६) गर्वः, (७) हासः, (८) मदः, (९. मोहः), (१०) उत्कण्ठा, (११) चिन्ता, (१२) स्मृतिः, (१३) मतिः, (१४) वितर्कः, (१५) उत्याहः, (१६) क्रोधः, (१७) अमर्षः, (१८) असूया, (१९) ईर्ष्या, (२०) उग्रता, (२१) जुगुप्सा, (२२) विस्मयः, (२३) निद्रा, (२४) सुप्तम्(/स्वप्नः), (२५) प्रबोधः, (२६) चपलता, (२७) आलस्यं, (२८) भयं, (२९) शङ्का, (३०) त्रासः, (३१) वेपथुः, (३२) व्रीडा, (३३) अवहित्थं, (३४) स्तम्भः, (३५) ग्लानिः, (३६) स्वेदः, (३७) व्याधिः, (३८) उन्मादः, (३९) श्रमः, (४०) शोकः, (४१) विषादः, (४२) वैवर्ण्यं, (४३) दैन्यं, (४४) स्वरभेदः, (४५) आवेगः, (४६) अश्रु, (४७. मोहः/स्नेहः), (४८) प्रलयः, (४९) जाड्यं, (५०) निर्वेदः, (५१) शम२ इति।
१. द्र. अत्रैव पृ. १ पादटिप्पणी ३। २. भरतनिर्दिष्टौ मरणापस्मारावत्र न भवतः, भवतश्च भरतानिर्दिष्टौ 'ईष्यो—शमौ'। संख्या तु समैव। एतेषां विभावादीनां रतेश्च विशद्य विवेचनं त्रयोदशप्रकाशे (द्र.पृ.७९४), शेषाणाञ्च चतुर्दशे प्रकाशे भावि।
तत्र केचिदाचक्षते रतिप्रभवः शृङ्गार इति।
वयं तु मन्यामहे रत्यादीनामयमेव प्रभव इति। शृङ्गारिणो हि रत्यादयो जायन्ते, नाशृङ्गरिणः। शृङ्गारी हि रमते, स्मयते, उत्सहते, स्निह्यतीति।
ते तु भाव्यमानत्वाद् भावा एव, न रसाः।
यावत्सम्भवं हि भावनया भाव्यमानो भाव एवोच्यते।
भावनापथमतीतस्तु रस इति।
मनोऽनुकूलेषु हि १सुखादिषु आत्मनः सुखानुभवाभिमानो रसः।
स तु पारम्पर्येण सुखहेतुत्वात् रत्यादिभूमसूपचारेण व्यवह्रियते। अतो न रत्यादीनां रसत्वं, अपि तु भावनाविषयत्वाद् भावत्वमेव।
यदप्युक्तं परप्रकर्षगामी रत्यादिभावो रस इति, तदप्यसारम्, ग्लान्यादिष्वपि तदुपपत्तेः। ग्लान्यादयोऽपि श्रमादिभिः परं प्रकर्षमारोप्यन्ते। न ते स्थायिन इति चेत्, स्थायित्वमेषामुत्पन्नतीव्रसंस्कारात्। संस्कारोत्पत्तिश्च विषयातिशयान्नायकप्रकृतेश्च। प्रकृतिश्च त्रिधा सात्त्विकी, राजसी, तामसीति। तद्वशाच्च तथाविधानुभवभावनोत्पत्तिः। ततश्चैषां स्थायित्वव्यपदेश इति।
नन्वष्टौ स्थायिनोऽष्टौ सात्त्विकास्त्रयस्त्रिंशद् व्यभिचारिण इति ब्रुवते?
न तत्साधु।
यतोऽमीषामन्यतमस्यैतैरेव परस्परं निर्वर्त्यमानत्वात्। कश्चित् कदाचित्स्थायी, कदाचित्तु व्यभिचारी। अतोऽवस्थावशात् सर्वेऽप्यमी व्यभिचारिण:, सर्वेऽपि च स्थायिनः, सात्त्विका अपि सर्व एव मनःप्रभवत्वात्। अनुपहतं हि मनस्सत्त्वमित्युच्यते।
यच्चोक्तं विभावानुभावव्यभिचारिसंयोगात् स्थायिनो रसत्वमिति२, तदपि मन्दम्, १. 'सुख.=दुःखा.' राघवः, लेष्वपि सुखदुःखा इति तत्र पाठान्तरम्। मनसा गृहीतमात्मना रस्यते इति तु विवक्षितमत्र। २. भरतोक्ते 'विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति'—रिति रससूत्रे स्थायिशब्दो नास्ति। ध्वनिवादिनामुचित एव स्थाय्यभावोऽत्र, उल्लेख एव प्रत्युत शल्यभूतो भवेत्। तन्मते स्थायिनां रत्यादीनां लाभो विभावतावच्छेदकतया, रतिमत एव दुष्यन्तादेः सामाजिकान् प्रति विभावत्वात्। एवं च भावो रस इति प्रथमं रससूत्रम्, 'विभावानुभावव्यभिचारिसंयोगो रस' इति द्वितीयं, विभावानुभावव्यभिचारिस्थायिसंयोगो रस इति तृतीयं, चतुर्थं पुनर्विभावानुभावव्यभिचारिस्थायि सात्विकसंयोग इति, पञ्चमं 'भावसंयुक्तः स्थायी'—ति। स्थायी चाऽत्र न रत्यादिः, न च निर्वेदादिः, अपितु प्रत्यक्चैतन्यमेव रसिकस्य। द्रष्टव्यः अत्रास्माकं रसभोगः, काव्यालङ्कारकारिका च। हर्षादिष्वपि विभावानुभावव्यभिचारिसंयोगस्य विद्यमानत्वात्। तस्माद् रत्यादयः सर्व एवैते भावाः, शृङ्गार एवैको रस इति। तैश्च सविभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते।
तत्र केचनाहुः — 'नायं रसः शृङ्गाराख्यो रत्यादिभिरभिव्यज्यते, अपित्वालम्बन— विभावादुत्पन्नो रत्यादिरेवोद्देपनविभावादिभिः परं प्रकर्षमारोप्यमाणो रसीभवन् शृङ्गारादिसंज्ञां लभत' इति।
त एवं प्रष्टव्याः — 'किमेते रत्यादयः स्वेभ्यः आलम्बनेभ्यः उत्पद्यमानाः सर्वस्याप्युत्पद्यन्ते, उत कस्यचिदेवेति?'
यदि तावत् सर्वस्य, तदा सर्वं जगद् रसिकं स्यात्। न चैतदस्ति। यतः कश्चिद्रसिकः कश्चित्तु नीरसो दृश्यते। न च दृष्टविपरीतं शक्यमनुज्ञातुम्। अतो न सर्वस्य रत्यादयो जायन्ते।
अथ कस्यचित्, तत्र निमित्तमभिधानीयम्। तद् दृष्टमदृष्टं वा स्यात्।
॥ इति रसावियोगप्रकाशनप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.