Loading data... On slow networks this could take a few minutes.
100%

आलोक्य प्रियतममंशुके विनीवौ
यत्तस्थे नामितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे
मानस्य द्रुतमपयानमास्थितस्य ॥

मल्लिनाथः आलोक्येति ॥ मानवत्या कोपवत्या स्त्रिया । `स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये` । प्रियातममालोक्य । स्थित्यासमानकर्तृकत्वात्क्त्वानिर्देशः । अंशुके विनीवौ प्रियावलोकनाद्विगलितबन्धे सति । भाषितपुंस्कत्वात्पुंवद्भावः । `स्त्रीकटीवस्त्रबन्धेऽपि नीविः परिपणेऽपि च` इत्यमरः । नमितमुखेन्दु यथा तथा तस्थे स्थितमिति यत्तत्तस्मान्नम्रमुखावस्थानाद्रुतं शीघ्रम् । प्रियावलोकनेक्षण एवेत्यर्थः । अपयानमास्थितस्य प्रयाणं गतस्य मानस्य कोपस्य पदं पदचिह्नमवलोकयांबभूवे । अन्वेषितमित्यर्थः लज्जानिमित्ताया मुखनतेः अन्वेषणार्थत्वमुत्प्रेक्ष्यते नूनमिति । मानगन्धोऽप्यस्तमित इति भावः
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
लो क्य प्रि मं शु के वि नी वौ
त्त स्थे ना मि मु खे न्दु मा त्या
न्नू नं लो यां भू वे
मा स्य द्रु या मा स्थि स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.