Loading data... On slow networks this could take a few minutes.
100%

अपयाति सरोषया निरस्ते
कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथोऽवतस्थे-
ऽशकुनेन स्खलितः किलेतरोऽपि ॥

मल्लिनाथः &#३२; अपयातीति ॥ सरोषया मृगाक्ष्या निरस्त कामिनि भर्तर्यपयाति निर्याते सति कृतकं कृत्रिमं यथा तथा चुक्षुवे । तन्निर्गमनप्रतिबन्धार्थं क्षुतं कृतमित्यर्थः । `क्षु शब्दे` भावे लिट् । इतरोऽपि नायकोऽपि कलयन्नपि कृतकोपमिति जानन्नपि अशकुनेन स्खलितः किल निरुद्ध इव सव्यथः सनिर्वेद इवावतस्थे स्थितः । न गत इत्यर्थः । उभावपि समानानुरागाविति भावः । एषा च कलहान्तरिता
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१० ११ १२
या ति रो या नि स्ते
कृ कं का मि नि चु क्षु षे मृ गा क्ष्या
न्न पि व्य थो ऽव स्थे
ऽश कु ने स्ख लि तः कि ले रो ऽपि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.