सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा । कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥
सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा । कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥
मल्लिनाथः
सुदृश इति ॥ सरसमार्द्रं । नूतनमिति यावत् । तेन व्यलीकेन प्रियकृतेनापराधेन तप्तः तथा यौवनोष्मणा सह वर्तत इति सयौवनोष्मा । किंच स्मरानलोष्णः कामाग्निसंतप्तः एवं त्रिविधाग्नितप्तोऽपि सुदृशः वेगेन । अतिदाहदशायामेवेत्यर्थः । आश्लिष्टवत आलिङ्गितवतः प्रियस्य कथमपि कथं वा । कुतो हेतोरित्यर्थः । नखं पचति क्वाथयतीति नखंपचः । पचिरत्र तापवाची । `मितनखे च` (अष्टाध्यायी ३.२.३४ ) इति खशप्रत्ययः । `अरुषिदजन्तस्य मुम्` (अष्टाध्यायी ६.३.६७ ) इति मुमागमः । नाभवत् । तथोष्ण ईषदुष्णोऽपि नाभूदित्यर्थः । `प्रियासङ्गप्रतीकाराः खलु कामिनां संतापा इति भावः । तादृगौष्ण्यसंबन्धेऽप्यसं. बन्धोक्तेरतिशयोक्तिः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.