Loading data... On slow networks this could take a few minutes.
100%

पिदधानमन्वगुपगम्य दृशौ
ब्रुवते जनाय वद कोऽयमिति ।
अभिधातुमध्यवससौ न गिरा
पुलकैः प्रियं नववधून्यगदत् ॥

मल्लिनाथः पिदधानमिति ॥ नववधूर्नवोढा अन्वक्पश्चादुपगम्य दृशौ पिदधानं छादयन्तं प्रियं दृष्टिच्छादकः कः वद इति ब्रुवते पृच्छते जनाय गिरा वाचा अभिधातुं नाध्यवससौ नोत्सेहे । लज्जयेति भावः । अध्यवपूर्वात् स्यतेः कर्तरि लिट् । किंतु पुलकैय॑गदत् । अत्र प्रियज्ञानस्यार्थस्य लज्जया असंलक्षितस्य पुलकैः प्रकाशनात् सूक्ष्मालंकारः । `असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते` इति लक्षणात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
पि धा न्व गु म्य दृ शौ
ब्रु ते ना को ऽय मि ति
भि धा तु ध्य सौ गि रा
पु कैः प्रि यं धू न्य दत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.