Loading data... On slow networks this could take a few minutes.
100%

कररुद्धनीवि दयितोपगतौ
गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृश-
स्फुरदूरुभित्ति वसनं ववसे ॥

मल्लिनाथः &#३२; कररुद्धेति ॥ दयितोपगतौ प्रियागमने सति अत एव त्वरया विरहितं त्यक्तमासनं यया तया । उत्थितयेत्यर्थः । कयाचिदिति शेषः । अत एव गलितं स्त्रस्तं, अत एव कररुद्धनीवि करगृहीतबन्धं वसनं क्षणं दृष्टा हाटकशिलासदृशी हेमशिलाप्रतिमा स्फुरन्ती ऊरुभित्तिरूरुदेशो यस्मिन्कर्मणि `हिरण्यं हेम हाटकम्` इत्यमरः । ववसे आच्छादितम् । वसेराच्छादनार्थात्कर्मणि लिट् । ऊरुभित्तिरिवेत्युपमितसमासः । अनोपमयोः संसृष्टिः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
रु द्ध नी वि यि तो तौ
लि तं त्व रा वि हि ता या
क्ष दृ ष्ट हा शि ला दृ
स्फु दू रु भि त्ति नं से
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.