Loading data... On slow networks this could take a few minutes.
100%

अवनम्य वक्षसि निमग्नकुच-
द्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशना-
कलकिङ्किणीरवमुदासि वधूः ॥

मल्लिनाथः अवनम्येति ॥ अवनम्य गाढमुपगूढवता आश्लिष्टवता, अत एव वक्षसि निमग्नकुचद्वितयेन दयितेन तत्क्षणे चलन्नुद्गच्छन् रशनायाः कलकिंकिणीरवो यस्मिन्कर्मणि तद्यथा तथा वधूरङ्गना उदासि उत्क्षिप्ता । अस्यतेः कर्मणि लुङ् । एषा च हृष्टा रोमाञ्चाद्यनुभाववती च । स्वभावालंकारः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
म्य क्ष सि नि ग्न कु
द्वि ये गा मु गू ता
यि ते त्क्ष द्र ना
कि ङ्कि णी मु दा सि धूः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.