Loading data... On slow networks this could take a few minutes.
100%

अनुदेहमागतवतः प्रतिमां
परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरा-
त्कथमप्यपाति न वधूकरतः ॥

मल्लिनाथः अनुदेहमिति ॥ अनुदेहं देहस्य पश्चात् । `अव्ययं विभक्ति-` (२|१|६) इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोढुरित्यर्थः । नयतेण्वुल् प्रत्ययः । `उपसर्गादसमासेऽपि-` (१|४।१४) इति णत्वम् । गुरुं पूज्यां, भारवतीं च प्रतिमां प्रतिबिम्बमुद्वहता पश्चात्स्थितस्यापि तदाभिमुख्यादिति भावः । मुकुरेण दर्पणेन कर्त्रा । `दर्पणे मुकुरादशौं` इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अति अतिमात्रो भरो यस्य तस्मादतिभरात् । प्रतिबिम्बगुरुमुकुरधारणादिति भावः । वध्वा नवोढायाः करतः पाणितलात् । पञ्चम्यास्तसिल् । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः । भावे लुङ् । एषा च मुग्धा । अत्र वधूकरस्य भारासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । गुरुमिति श्लेषोत्थापितेति संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नु दे मा तः प्र ति मां
रि णा स्य गु रु मु द्व ता
मु कु रे वे थु भृ तो ऽति रा
त्क प्य पा ति धू तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.