उपनेतुमुन्नतिमतेव दिवं
कुचयोर्युगेन तरसा कलितां ।
रभसोत्थितामुपगतः सहसा
परिरभ्य कञ्चन वधूमरुधत् ॥

मल्लिनाथः उपनेतुमिति ॥ सहसोपगतो हठादागतः कश्चन युवा अत एव रभसेनोत्थितामत एवोन्नतिमता कुचयोर्युगेन करणेन दिवमाकाशमुपनेतुमिवोर्ध्वमुत्क्षेप्सुमिवेति फलोत्प्रेक्षा उत्थाननिमित्तौन्नत्यगुणनिमित्ता । तरसा बलेनाकलितां व्याक्षिप्तां वधू प्रियां परिरभ्याश्लिष्यारुधत् रुद्धवानुपवेशितवान् । ऊर्ध्वोत्क्षेपान्निवारितवानिति चार्थः । रुधेर्लङि `इरितो वा` (अष्टाध्यायी ३.१.५७ ) इति विकल्पात् च्लेरङादेशः । एषा हृष्टा रोमाञ्चिताद्यनुभाववती च
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ने तु मु न्न ति ते दि वं
कु यो र्यु गे सा लि तां
सो त्थि ता मु तः सा
रि भ्य ञ्च धू रु धत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.