निपपात सम्भ्रमभृतः श्रवणा-
दसितभ्रुवः प्रणदितासिकुलम् ।
दयितावलोकविकसन्नयन-
प्रसरप्रणुन्नमिव वारिरुहम् ॥

मल्लिनाथः निपपातेति ॥ संभ्रमभृतः प्रत्युत्थानसंभ्रमिण्याः असितभ्रुवोऽङ्गनायाः प्रण दितालिकुलं गुञ्जदलिपुञ्जम् । `उपसर्गादसमासेऽपि णोपदेशस्य` (८|४|१४) इति णत्वम् । वारिरहं श्रवणोत्पलं दयितावलोकेन विकसतो विस्तारं गच्छतो नयनस्य प्रसरेण प्रसारेण प्रणुन्नमिव । पूर्ववण्णत्वम् । निपपात । तथा संभ्रान्तमित्यर्थः । अत्र संभ्रमहेतुकस्य कर्णोत्पलपातस्य नयनप्रसारहेतुकत्वमुत्प्रेक्ष्यते । एषा च हृष्टा
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नि पा म्भ्र भृ तः श्र णा
सि भ्रु वः प्र दि ता सि कु लम्
यि ता लो वि न्न
प्र प्र णु न्न मि वा रि रु हम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.