Loading data... On slow networks this could take a few minutes.
100%

विषतां निषेवितमप-
क्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतुतस्रुऽपि विरहा-
द्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥

मल्लिनाथः विषतामिति ॥ अपक्रियया विपरीतप्रयोगेण निषेवितमुपयुक्तं सर्वम् ।&#३२; अमृतमपीति भावः । विषतां विषवदहितत्वं समुपैति इत्यद इदं विषत्वं सत्यं ध्रुवम् । यद्यस्मादमृतस्रुतोऽपि । स्रवतेः क्विपि तुक् । हिमरश्मिरुचश्चन्द्रपादाः भवतो विरहाद्धेतोस्त्वया विना सेवनादित्यर्थः । अमूं त्वत्प्रियां दहन्ति । याः पूर्वं त्वया सह सेवनादाह्लादयन्निति भावः । एतेन विषयद्वेषरूपाऽरत्यवस्थोक्ता । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि तां नि षे वि
क्रि या मु पै ति र्व मि ति त्य दः
मृ तु स्रु ऽपि वि हा
द्भ तो मूं न्ति हि श्मि रु चः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.