Loading data... On slow networks this could take a few minutes.
100%

कुसुमादपि स्मितदृशः सुतरां
सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं
कुसुमेषुरुत्तपाति यद्विशिखैः ॥

मल्लिनाथः कुसुमादिति ॥ सितदृशः स्मेराक्ष्या अङ्गं कुसुमादपि सुतरां सुकुमारं कोमलमितीदमपरथा अन्यथा न । किंतु सत्यमेवेत्यर्थः । यद्यस्मात् कुसुमेषुरकरुणो निष्कृपः सन् निजैर्विशिखैर्बाणैः । `पृषत्कबाणविशिखाः` इत्यमरः । कुसुमैरेवेत्यर्थः । करुणं दीनं यथा तथा अनिशं नित्यमुत्तपति । तापयतीत्यर्थः । तपतिरयं भौवादिकः सकर्मकः । कुसुमाधिकसौकुमार्याभावे कुसुमैः पीड्यत इति कुसुमाधिकसौकुमार्यगुणोत्प्रेक्षा नापरथेति व्यञ्जकप्रयोगाद्वाच्या
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
कु सु मा पि स्मि दृ शः सु रां
सु कु मा ङ्ग मि ति ना था
नि शं नि जै रु णः रु णं
कु सु मे षु रु त्त पा ति द्वि शि खैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.