Loading data... On slow networks this could take a few minutes.
100%

उदितं प्रियां प्रति सहार्दमिति
श्रदधीयत प्रियतमेन वचः ।
विदितेङ्गिते हि पुर एव जने
सपदीरिताः खलु लगन्ति गिरः ॥

मल्लिनाथः (कुलकम् ।) उदितमिति ॥ प्रियां प्रति प्रियामुद्दिश्य हृदयस्येदं हार्दं प्रेम । `प्रेमा ना प्रियता हार्दं प्रेम स्नेहः` इत्यमरः । `तस्येदम्` (१|३।१२०) इत्यण्प्रत्ययः । `हृदयस्य हृल्लेखयदण्लासेषु` (अष्टाध्यायी ६.३.५० ) इति हृदयस्य हृदादेशः । सहार्दं सस्नेहमित्युदितम् । क्देः कर्मणि क्तः `वचिस्वपि-` (६।१|१५) इत्यादिना संप्र. सारणम् । वचो दूतीवाक्यं प्रियतमेन श्रदधीयत विश्वसितम् । दधातेः कर्मणि लङ् । श्रदन्तरोरुपसर्गवचनात् श्रच्छब्दस्य प्राक्प्रयोगः । हि यस्मात्पुरः पूर्वमेव विदितेङ्गिते विदितपराभिप्राये जने । इङ्गितं हृद्गतो भावः । सजने समुदीरिता गिरः सपदि लगन्ति सज्जन्ति खलु । स्वयं प्रियाहृदयवेदित्वात् स्वबुद्धे: संवादेन दूतीकथितं प्रियाविरहदुःखं विशश्वासेत्यर्थः । अर्थान्तरन्यासः । एषा कलहान्तरिता । अत एव मानाख्यो विप्रलम्भः शृङ्गारः । १`पूर्वानुरागमानाख्यप्रवासकरुणात्मना । २विप्रेलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः ॥` इति चतुर्थोऽयमुक्तः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
दि तं प्रि यां प्र ति हा र्द मि ति
श्र धी प्रि मे चः
वि दि ते ङ्गि ते हि पु ने
दी रि ताः लु न्ति गि रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.