Loading data... On slow networks this could take a few minutes.
100%

दधति स्फुटं रत्पते-
रिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृह-
त्कठिनस्तनमणडलावरणमप्यभिदन् ॥

मल्लिनाथः दधतीति ॥ रतिपतेरिषवः शिततां नैशित्यं दधति । स्फुटमित्युत्प्रेक्षायाम् । यद्यस्मान्निरन्तरं नीरन्ध्रं बृहत्कठिनं च यत् स्तनमण्डलं तदेवावरणं वर्म यस्य तत्तदपि उत्पलपलाशदृश उत्पलदलाक्ष्याः हृदयमभिदन् भिन्दन्ति स्म । भिदेलङि `इरितो वा` (३।१|५७) इति च्लेरङादेशः । सावरणमपि भिन्नमिति विरोधोत्थापितेयं सरशरनैशित्योत्प्रेक्षा । तया च रन्ध्रान्वेषिणा कामेन निपीड्यमानाया. स्तस्यास्त्वद्विरहो जीवितसंशयमापादयतीति वस्तु द्योत्यते
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
ति स्फु टं त्प ते
रि वः शि तां दु त्प ला दृ शः
हृ यं नि न्त बृ
त्क ठि स्त ला प्य भि दन्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.