Loading data... On slow networks this could take a few minutes.
100%

उपतप्यमानमलघूष्णिभिः
श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते
नवनागवल्लिदलरागरसः ॥

मल्लिनाथः उपेति ॥ अलघुरन्तःसंतापोपाधिक उष्णिमा उष्णत्वं येषां तैः श्वसितैर्नि:श्वासैरुपताप्यमानं सितेतरसरोजदृशो नीलोत्पलाक्ष्या अधरं नवनागवल्लिदलानां ताम्बूलदलानां रागरसो रञ्जनद्रवो द्रवतामार्द्रतां नेतुं न क्षमते न शक्नोति । एतेन ज्वरावस्थोक्ता । अत्र द्रवत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
प्य मा घू ष्णि भिः
श्व सि तैः सि ते रो दृ शः
द्र तां ने तु रं क्ष ते
ना ल्लि रा सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.