Loading data... On slow networks this could take a few minutes.
100%

ब्रुवते स्म दूत्य उपसृत्य नरा-
न्तरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां
प्रकृतेर्विराजति विरुद्धमपि ॥

मल्लिनाथः ब्रुवत इति ॥ प्रगल्भा सृष्टाः मतिगर्भाः प्रतिभासाराश्च गिरो यासां ता दूत्यो नरान् पुरुषानुपसृत्य नरवत् नरैः पुंभिस्तुल्यम् । `तेन तुल्यं क्रिया चेद्वतिः` (५।१|११५) इति वतिप्रत्ययः । ब्रुवते स्म । न चैतावता वैजात्यं दूषणमित्यर्थान्तरन्यासेनाह-सुहृदर्थमिति । तथा हि—अजिह्मधियामकुटिलबुद्धीनां संबन्धि सुहृदे सुहृदर्थम् । `अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्` (वा०)। ईहितं चेष्टितं प्रकृतेविरुद्धमपि स्वभावविपरीतमपि विराजति शोभते । तस्मान्न धार्ष्ट्ये दोष इत्यर्थः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
ब्रु ते स्म दू त्य सृ त्य रा
न्त त्प्र ल्भ ति र्भ गि रः
सु हृ र्थ मी हि जि ह्म धि यां
प्र कृ ते र्वि रा ति वि रु द्ध पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.