ननु सन्दिशेति सुदृशोदितया
त्रपया न किञ्चन किलाभिदधे ।
निजमैक्षि मन्दमनिशं निशितैः
क्रशितं शरीरमशीरशरैः ॥

मल्लिनाथः नन्विति ॥ ननु संदिश संदेशं ब्रूहि इत्युदितया दूत्या कथितया सुदृशया नायिकया का त्रपया हेतुना किंचन नाभिदधे किल नाभिहितं खलु । किंतु निशितैरशरीरशरैरनङ्गबाणैरनिशं क्रशितं कृशीकृतम् । कृशशब्दात् `तत्करोति` (ग०) इति ण्यन्तात्कर्मणि क्तः । णाविष्टवद्भावे `र ऋतो हलादेर्लघोः` (अष्टाध्यायी ६.४.१६१ ) इत्युकारस्य रेफादेशः । निजं शरीरं मन्दमैक्षि ईक्षितम् । एषापि कलहान्तरिता मध्यमा च । त्रपया निजहृदयानभिधानान्निजशरीरनिरीक्षणेन स्वावस्थानिवेदनाच्च तुल्यलज्जास्मरत्वावगमादिति । इयं च पञ्चमी कार्याख्या कामावस्था । `दृङ्मनःसङ्गसंकल्पाज्जागरः कृशताऽरतिः। ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश ॥` इति
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
नु न्दि शे ति सु दृ शो दि या
त्र या कि ञ्च कि ला भि धे
नि मै क्षि न्द नि शं नि शि तैः
क्र शि तं री शी रैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.