प्रणयप्रकाशनविदो मधुराः
सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतर-
स्तरुणीजनो दृश इवाथ सखीः ॥

मल्लिनाथः प्रणयेति ॥ अथ प्रसाधनानन्तरं मुग्धतरोऽत्यन्तकाममोहितस्तरुणीजनः प्रणयप्रकाशनविदः । अनुरागव्यञ्जनचतुरा इत्यर्थः । मधुरा मधुरभाषिणीः, अन्यत्र रम्याकृतीः सुतरामभीष्टजनस्य चित्तहृतो मनोहारिणीः सखी: दृश इव कान्तमनु प्रेयोजनं प्रति प्रजिघाय प्रेषितवान् । हिनोतेर्लिट् । इवेन सह समासवचनाद्दृश इवेत्युपमासमासः । तया सखीनामासत्त्यन्तरङ्गत्वकार्यदर्शित्वादिव्यञ्जनादलंकारेण वस्तुध्वनिः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
प्र प्र का वि दो धु राः
सु रा भी ष्ट चि त्त हृ तः
प्र जि घा का न्त नु मु ग्ध
स्त रु णी नो दृ वा खीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.