अधिजानु बाहुमुपधाय नम-
त्करपल्लवार्पितकपोलतलम् ।
उदकण्ठि कण्ठपरिवर्तिकल-
स्वरसून्यगानपयापरया ॥

मल्लिनाथः अधिजान्विति ॥ नमति कपोलार्पणाय प्रह्वीभवति करपल्लवे` अर्पितं निहितं कपोलतलं गण्डस्थलं यस्य तं बाहुमधिजानु जानुनि । विभक्त्यर्थेऽव्ययीभावः । उपधाय निधाय । कूपरेण जानुमवष्टभ्येत्यर्थः । कण्ठे परिवर्ततः इति कण्ठपरिवर्ति । न तु मुखोच्चारितमित्यर्थः । कलमव्यक्तमधुर स्वरशून्यं तारध्वनिहीनम् , षड्जादिस्वराभिव्यक्तिहीनं वा यद्गानं तत्परया तदासक्तया । मन्दकण्ठेनैव गायन्त्येत्यर्थः । कालक्षेपार्थमिति भावः । अयं चोत्कण्ठानुभावः । अपरया स्त्रिया उदकण्ठि उत्कण्ठितम् । प्रियसंगमायोत्सुकया स्थितमित्यर्थः । भावे लुङि चिणो लुक् । अत्र कालक्षेपासहिष्णुत्वलक्षणमौत्सुक्यं संचारि तन्निबन्धनात्प्रेयोलंकारः । परयापरयेति यमकविशेषसंसृष्टिः । नायिका विरहोत्कण्ठिता । `चिरं पत्युरनालोके विरहोत्कण्ठितोन्मनाः` इति लक्षणात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
धि जा नु बा हु मु धा
त्क ल्ल वा र्पि पो लम्
ण्ठि ण्ठ रि र्ति
स्व सू न्य गा या या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.