Loading data... On slow networks this could take a few minutes.
100%

न च मेऽवगच्छति यथा लघुतां
करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदे-
रभिदूति काचिदिति संदिदिशे ॥

मल्लिनाथः न चेति ॥ स मे दयितो यथा मयि करुणां कुरुते यथा लघुतामल्पतां च नावगच्छति न मन्यते । एनं दयितमुपगम्य प्राप्य तथा तेन प्रकारेण निपुणं वदेः । विध्यर्थे प्रार्थने वा लिङ् । इतीत्थं काचिन्नायिका अभिदूति दूतीमभि । `लक्षणेनाभिप्रती-` (अष्टाध्यायी २.१.१४ ) इत्यव्ययीभावे नपुंसकह्रस्वत्वम् । संदिदिशे संदिष्टवती । कर्तरि लिट् । स्वरितेत्त्वादात्मनेपदम् । नायिका तु कलहान्तरिता । कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता` इति लक्षणात्
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
मे ऽव च्छ ति था घु तां
रु णां था कु रु ते यि
नि पु णं थै मु म्य दे
भि दू ति का चि दि ति सं दि दि शे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.