विधृते दिवा सवयसा च पुरः
परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः
स्वमुखश्रियं मृगदृशो ददृशुः ॥

मल्लिनाथः विधृत इति ॥ दिवा आकाशेन सवयसा वयस्यया च पुरोऽग्रे विधृते विधारिते परिपूर्णमण्डलविकाशं बिम्बशोभां बिभर्तीति तद्भृत तस्मिन् हिमधानि चन्द्रे दर्पणतले च मृगदृशः स्त्रियः स्वमुखश्रियम् । पूर्वत्रोपमानभूतामुत्तरत्रोपमेयभूतां&#३२; चेत्यर्थः । मुहुर्ददृशुः । औपम्यपरीक्षार्थमिति भावः । अत्रान्यश्रियोऽन्यत्रासंभवाच्चन्द्रे तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना । तथा चन्द्र दर्पणयोर्द्युसवयसोश्च यथासंख्यमन्वयाद्यथासंख्यालंकारश्च । तदुभयापेक्षया चन्द्रदर्शनयोर्मुखश्रीदर्शनस्थानत्वेन प्रस्तुतयोरेवौपम्यस्य गम्यत्वात्तुल्ययोगितेति संकरः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
वि धृ ते दि वा सा पु रः
रि पू र्ण ण्ड वि का भृ ति
हि धा म्नि र्प ले मु हुः
स्व मु श्रि यं मृ दृ शो दृ शुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.