Loading data... On slow networks this could take a few minutes.
100%

मुक्ताभिः सलिलरयास्तशुक्तिमुक्ता-
भिः कृतरुचि सैकतं नदीनाम् ।
स्त्रीलोकः परिकलयाञ्चकार तुल्यं
पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥

मल्लिनाथः मुक्ताभिरिति ॥ स्त्रीलोकः स्त्रीजनः कर्ता । सलिलरयेणास्ता नुन्नाः शुक्तयो मुक्तास्फोटास्त एव पेश्यः कोशाः । पुटा इति यावत् । `मुक्तास्फोटः स्त्रियां शुक्तिः-` इति, `पेशी कोशो द्विहीने` इति चामरः । ताभिर्मुक्ताभिर्विमुक्ताभिर्मौक्तिकैः । `अथ मौक्तिकं मुक्ता` इत्यमरः । कृतरुचि कृतशोभं नदीनां सिकतामयं&#३२; सैकतं पुलिनम् । `तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्` इत्यमरः । `सिकताशर्कराभ्यां च` (अष्टाध्यायी ५.२.१०४ ) इत्यण् प्रत्ययः । विगलितैर्विशीर्णैर्हारैश्चारुभिः स्वैः पल्यङ्कैः शयनैः । `शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः` इत्यमरः । तुल्यं सदृशं परिवलयांचकार मेने । पूर्णोपमेयम्
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
मु क्ता भिः लि या स्त शु क्ति मु क्ता
भिः कृ रु चि सै तं दी नाम्
स्त्री लो कः रि या ञ्च का तु ल्यं
ल्य ङ्कै र्वि लि हा चा रु भिः स्वैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.